Category Archives: News Updates
सप्ततितमे गणतन्त्रदिवसीय-सञ्चलने केरलस्य निश्चलदृश्याय केन्द्रसर्वकारः अनुमतिं न ददौ।
नवदिल्ली- शनिवासरे सम्पत्स्यमाने गणतन्त्रदिवसीयसञ्चलने अस्मिन् वर्षे केरलस्य निश्चलदृश्यं न भविता। नवोत्थानस्य आशययुक्तं निश्चलदृश्यमेव केरलेन प्रस्तोतुं निश्चितमासीत्। वैक्कं सत्याग्रहप्रभृतीनां इतिहासघटनानां सूचनामनुबन्ध्य आयोजितमिदं निश्चलदृश्यं प्रस्तोतुम् अन्तिमनिमेषे प्रतिरोध मन्त्रालयेन अनुमतिः निषिद्धा।
राष्ट्रे षोडशराज्यानि अस्मिन् वर्षे गणतन्त्रदिवसीयसञ्चलने भागं गृह्णन्ति। राज्यानां प्रथमपट्टिकायां केरलस्यापि स्थानमासीत्। परन्तु अन्तिमघट्टे अवतरणानुमतिः निषिद्धा।
आर्थिकघटनायाः सन्तुलनं नास्ति।
नवदिल्ली- नरेन्द्रमोदीसर्वकारस्य पञ्चवर्षीये प्रशासने भारते आर्थिकघटनायाः सन्तुलनं विनष्टमभवत् इति पठनावेदनम्। ओक्स्फाम् इति अन्ताराष्ट्रपठनसंघस्य आवेदने निर्णायकः आश्चर्यजनकश्च अवगमः दष्टः।
विश्वे जनसंख्यायां द्वितीयस्थानसुक्ते भारते जनतायाःपञ्चाशत् परिमितानां जनानां सम्पदः तुल्यं सम्पत् मुकेश् अम्बानि, अदानि प्रभृतीनां नव कोटीश्वराणां हस्ते अस्ति इति ओक्स्फाम् आवेदनम्।
राष्ट्रे जनतायाः दशशतमितानां जनानां हस्तेषु एव राष्ट्रसम्पदां ७७.४ शतमितं सम्पत् वर्तते इति आवेदने सूचयति। मुद्रानिरोधात् परं एकवर्षाभ्यन्तरे १८ शतरोटीश्वराः नूतनतया आविर्भूता इत्यपि आवेदने अस्ति।
अनेन भारते शतकोटीश्वराणां संख्या ११९ जाता। राष्ट्रस्था २८ लक्षंकोटि समपद् एषां ११९ जनानां पार्श्वे एव वर्तते। एतत् वार्षिकायव्ययपत्रकस्य पञ्चसु एकांशः भवतीयं संख्या।
पञ्चदशतमं प्रवासीभारतीयगिवससम्मेलनम् अद्य प्रारभते।
वाराणसी- प्रवासीभारतीयदिवससम्मेलनस्य अद्य वाराणस्यां शुभारम्भः। नूतन भारतनिर्माणे प्रवासिनां योगदानम् इति विषयमधिकृत्यैव सम्मेलनमिदं प्रचलति। विविधेभ्यः विदेश राष्ट्रेभ्यः २००० प्रतिनिधयः भागं गृह्णन्ति।
अद्य प्रातः उत्तरप्रदेशमुख्यमन्त्री योगी आदित्यनाथः अधिवेशनस्य उद्घाटनं विधास्यति। विदेशकार्यमन्त्री सुषमा स्वराजप्रभृतयः सम्मेलनम् अभिसम्बोधयिष्यन्ति। प्रधानमन्त्री नरेन्द्रमोदीवर्यः कुजवासरे प्रतिनिधीन् अभिसम्बोधयिष्यति। बुधवासरे समापनाधिवेशने राष्ट्रपतिः रामनाथ कोविन्द वर्यः प्रवासिपुरस्कारान् वितरिष्यति।
देशीयसंगोष्ठी सुसम्पन्ना।
कासरगोड् – सार्वजनीनशिक्षाविभागस्य संस्कृतकौण्सिल् इत्यनेन आयोजिता संगोष्ठी अत्र सुसम्पन्ना। नियमसभासामाजिकः श्री एन्.ए. नेल्लिक्कुन्न् वर्यः समुद्घाटकः आसीत्। उद्घाटकेन भाषितं यतदन्येषां भाषाणामपेक्षया श्रोतुं मधुरतरा भवति संस्कृतभाषा। पूर्वतनशिक्षामन्त्रिणा इ.टि. मुहम्मद् बषीर् वर्येण संस्कृतसर्वकलाशालायाः साक्षात्कारार्थं बहुप्रयत्नं कृतम्। नैको∫पि भाषा ईश्वरेण सृष्टा। सर्वा∫पि भाषाः मनुष्यैरेव निर्मिता अस्ति। अतः सर्वाः भाषाः सर्वेभ्यो प्राप्तव्याः इति श्री नेल्लिक्कुन्नु वर्यः उद्बोधषितवान्। प्रथमकक्ष्यातः आरभ्य संस्कृतपठनाय शिक्षकाणां नियुक्तिविषये प्रयत्नं करिष्यतीति सः वाग्दानं प्रकटितवान्।
मुख्यप्रभाषक आसीत् प्रमुखः कैरलीलिपिकारः श्री वि.आर् सुधीष् वर्यः। साहित्यमण्डले शोभमानाः गिरिशृङ्गाः भवन्ति संस्कृतपुराण-इतिहास-वाङ्मयाः इति सुधीष् वर्येण प्रोक्तम्। कालिदासादिभिः महाकविभिः सर्वैः मनुष्याणां शोकः एव अनुधावित आसीदिति सो∫ब्रवीत्। कुट्टिक्कृष्णमारार् महोदयेन साकं अन्ये कैरलीसंस्कृतकारेण दीप्ते पथि अस्माभिः इतो∫पि सञ्चारं करणीयमिति मुख्यप्रभाषकेण प्रोद्घोषयत्।
संस्कृतभाषापोषणे विघाताः परिहाराश्च इत्यस्मिन् विषये डो. रामचन्द्रलु बालाजि वर्येण, पुनः परिभाषया परिलसन्त्यः संस्कृतकृतयः इत्यस्मिन् विषये डो. इ.श्रीधरन् वर्येण च प्रबन्धौ साक्षात्कृतौ। श्री विजयन् वि. पट्टाम्पि, श्री प्रदीपकुमारः, श्री एन्.के रामचन्द्रः, श्री हरिप्रसाद् कटम्पूर् च चर्चायां भागमावहन्।
कार्यक्रमे बीफात्तिमा इब्राहीम्, डो. गिरीष् चोलयिल् श्री वि. श्रीकण्ठः सुनिल्कुमार् कोरोत्त्, टि.डि. सुनीतिदेवी प्रभृतयः भाषणमकुर्वन्। योगानन्तरं संस्कृतकलाकार्यक्रमाः अपि प्राचलन्।
सार्वजनीनशिक्षाविभागस्य आभिमुख्ये राष्ट्रिय-संस्कृत-संगोष्ठी कासरगोडे।
कासरगोड्- संस्कृतभाषायाः पठनपाठनप्रचारणरंगे केरलीय-सार्वजनीनशिक्षाविभागः विपुलान् विशिष्टान् च कार्यक्रमान् आयोजयति। प्रथमकक्ष्यायाः आरभ्य संस्कृतं पठितुं राष्ट्रे सौविध्यम् अत्रैवास्ति। छात्राणा कृते धिषणावृत्तिपरीक्षा, संस्कृतकलोत्सवः, राज्यस्तरीयः संस्कृतदिनसमारोहः, अध्यापकानां कृते विशेषकार्यक्रमः, राष्ट्रियसंगेष्ठी इत्यादयः तेषु कार्यक्रमेषु अन्तर्भवन्ति।
अस्मिन् वर्षे संस्कृते राष्ट्रियसंगोष्ठी २०१९ जनुवरी १९ दिनाङ्के कासरगोड् मण्डले नगरसभा अधिवेशनशालायाम् आयोजयिष्यति। तद्दिने प्रातः दशवादने केरलीय-राज्यस्वमन्त्री श्रीमान् इ चन्द्रशेखरः अस्य उद्घाटनं निर्वक्ष्यति। नियमसभायाः कासरगोड् सदस्यः एन्.ए. नेल्लिक्कुन्न् वर्यः अध्यक्षः भविता। जिल्ला पञ्चायत् अध्यक्षः विशिष्टातिथिः भविता।
द्वादशवादने विचारगोष्ठी समारभ्यते।एस्. श्रीकुमार् स्वागतं व्याहरिष्यति। संस्कृतभाषापोषणे विघाताः परिहाराश्च इति विषये प्रोफ. डो. रामचन्द्रलु बालाजी प्रबन्धं प्रस्तोष्यति। प्रोफ. वी. माधवन् पिल्ला वर्यः चर्चानियन्त्रको भविता। वी.विजयन्, प्रदीप्कुमार् च चर्चायां भागं गृहीष्यतः।
१२.१५ वादने परिभाषया परिलसन्त्यः संस्कृतकृतयः इति विषये अन्या संगोष्ठी भविता। कालटी संस्कृतविश्वविद्यालयस्य पय्यन्नूर् केन्द्रे सहप्राध्यापकः डो. इ. श्रीधरन् वर्यः प्रबन्धं प्रस्तोष्यति। एन्.के.रामचन्द्रन्, हरिप्रसाद् कटम्पूर् च चर्चायां भागं गृहीष्यतः। संगोष्ठ्याः अनन्तरं संस्कृतकलापरिपाट्यः अपि आयोजिताः।
प्रधानमन्त्री अद्य केरलानागच्छति।
तिरुवनन्तपुरम्- कोल्लम् अतिरिक्तवीथ्याः उद्घाटनं तथा अनन्तपुर्यां श्रीपद्मनाभमन्दिरे स्वदेशदर्शन् पद्धतेः उद्घाटनं च विधातुं प्रधानमन्त्री नरेन्द्रमेदीवर्यः अद्य केरलान् प्राप्स्यति। प्रथमकार्यक्रमः कोल्लम् अतिरिक्तवीथ्याः उद्घाटनमेव।
सायं चतुर्वादने अनन्तपनर्यां वायुसेनाविमान -पत्तनमागच्छन्तं मोदीवर्यं राज्यपालः प्रत्युद्गमिष्यति। ततः प्रधानमन्त्री कोल्लं प्रति प्रस्थास्यति। कोल्लं बै पास् उद्घाटनानन्तरं तत्र भा.ज.पा. दलस्य सामान्याधिवेशने प्रभाषणं विधास्यति।
सायं सप्तवादने अनन्तपुरीम् आगम्यमानः प्रधानमन्त्री श्रीपद्मनाभमन्दिरे स्वदेशदर्शन् पद्धत्याः उद्घाटनं कृत्वा नवदिल्लिं प्रतिगच्छति।
प्रधानमन्त्रिणः सन्दर्शनमनुबन्ध्य कोल्लं तिरुवनन्तपुरं प्रदेशयोः महती सुरक्षा विहिता। कोल्लं देशे अद्य एकादशवादनात् प्रभृति तिरुवनन्तपुरे सायं पञ्चवादनात् रात्रौ दशवादनपर्यन्तं च यातायातनियन्त्रणं निश्चितं वर्तते।
चलचित्रनिदेशकः लेनिन् राजेन्द्रन् वर्यः अन्तरधात्।
तिरुवनन्तपुरम्- मलयालचलचित्रमण्डले वैविध्येन व्यक्तिमुद्राङ्कितः निदेशकः लेनिन् राजेन्द्रन् वर्यःअस्माल्लोकात् निरगात्। केरलराज्य-चलचित्र- विकास संघस्य अध्यक्षपदवीमलंकुर्वन्नासीत्।
अद्य रात्रौ अष्टवादने चेन्नै अप्पोलो चिकित्सालये आसीदस्य अन्त्यम्। कानिचित् दिनानि यावत् तत्रैव चिकित्सायामासीत्। चलचित्र अक्कादम्याः भूतपूर्वः अध्यक्षः आसीत्।
तिरुवनन्तपुरं मण्डले ऊरूट्टम्बलं देशे अयं भूजातः। पठनकाले स शक्तः कश्चन साम्यवादीप्रवर्तकः आसीत्। १९८१ तमे वर्षे वेनल् नामकं चलचित्रम् अनेन निदेशितम्। ततः १९८५ तमे वर्षे मीनमासत्तिले सूर्यन् इति चलचित्रमपि बहुप्रशंसितमभूत्। केरले आपद्रूपेण संवर्धमानं वंशीयध्रुवीकरणं प्रतिपादयन् अन्यर् इति नामकं किञ्चन चलचित्रम् २००३ तमे वर्षे अनेन कृतमासीत्।
कलालयेषु विश्वविद्यालयेषु च अध्यापकनियुक्त्यर्थं विद्यावारिधिविरुदम् अवश्यं कारयति।
नवदिल्ली- मानवसंसादनमन्त्रालयस्य विज्ञप्त्यनुसारं २०२१ जूलै प्रथमदिनादारभ्य विश्वविद्यालयेषु कलालयेषु च सहप्राचार्यनियुक्त्यर्थं विद्यावारिधि( Ph.D) योग्यताम् अवश्यं कारयति। विश्वविद्यालयानुदानायोगस्य( UGC) अयं निर्णयः कलालयेषु वृत्तिं कुर्वतः स्थानोन्नतिमभिलषन्तश्च जनान् बाधते। अपि च आविश्वं प्रशस्तरूपेण प्रवर्तमानेभ्यः विश्वविद्यालयेभ्यः प्रथम पञ्चशतेभ्यः अन्यतमात् भवेत् बिरुदसम्पादनम् इत्यपि निबन्धना अस्ति।
अद्यत्वे कलाशालासु नियुक्त्यर्थं स्नातकोत्तरबिरुदं तथा राष्ट्रिय-योग्यता-परीक्षा (NET) च निश्चिता। इयं परीक्षा सहायनकार्यक्रमार्थं परिमितं च कारयति। मानवसंसादनकार्यमन्त्री प्रकाश् जावदेक्कर् वर्यः विज्ञप्तिं प्रकाशयन् एवमवदत्।
अद्य राष्ट्रिययुवजनदिनम्।
नवदिल्ली- जनुवरी १२ भारते राष्ट्रिय-युवजनदिनत्वेन आचर्यते। १९८४ तमे वर्षे दिनमिदं युवजनदिनत्वेन आचरितुं भारतसर्वकारेण निर्णीतम्। १९८५ तः प्रतिवर्षम् इदं दिनं युवजनदिनत्वेन आचर्यमाणो वर्तते।
भारते सन्यासिवर्येषु प्रमुखस्य विवेकानन्दस्य जन्मदिनमेव राष्ट्रिय युवजनदिनत्वेन आचरन्ति इति विशेषताप्य़स्ति अस्य दिनस्य। विवेकानन्दस्वामिनः तत्त्वानि आशयाश्च भारतीययुवतायै प्रचोदकानि इति संसूच्यैव केन्द्रसर्वकारः एवं निरणयत्।
विद्यालयेषु कलालयेषु च विविधाः कार्यक्रमाः अस्मिन् दिने आयुज्यन्ते। युवजनसम्मेलनानि, प्रभाषणानि, संगीतं, घोषयात्रा इत्यादीनि कार्यक्रमैषु मुख्यानि।
सी.बी.ऐ. निदेशतस्थानात् अलोकवर्मा निष्कासिता।
नवदिल्ली- सी.बी.ऐ. विभागस्य निदेशकस्थानाति अलोक वर्मा निष्कासिता। चयनसमितेः योगे एवायं निर्णयः अभवत्। विपक्षनेता मल्लिकार्जुन् खार्गे वर्यः निर्णयं विरुध्य स्थितः। श्रीमन्तम् अलोकवर्माणं सर्वोच्चन्यायालयः निदेशकपदव्यां प्रतिष्ठापयति स्म। तदानीं चयनसमितेः योगे एव तस्य नियुक्तिविषये निर्णयं भवतु इति न्यायालयेन सूचितमासीत्।












