Category Archives: News Updates
पाठपुस्तके द्रुतप्रतिस्पन्दकूटसंख्यारीतिः आविष्करोति।
तिरुवनन्तपुरम्- राज्ये ऐदम्प्राथम्येन विद्यालयीयपाठपुस्तकानि पठितुं द्रष्टुं श्रोतुं च सौविध्यमाविष्करोति शिक्षाविभागः। एतदर्थं द्रुतप्रतिसपन्दगूढसंख्या रीतिः पाठपुस्तकेषु आयोजिता। भारते राज्यान्तरे इतः पर्यन्तं एतादृशी रीतिः न आविष्कृता इति शिक्षामन्त्री रवीन्द्रनाथवर्यः अवदत्। एकस्य पेशलदूरवाण्याः साहाय्येन द्रुतप्रतिस्पन्दसंख्यां प्रमाणीकृत्य दृश्यानि कक्ष्यायां पेशलफलके सूचयितुं शक्यते। अनेन अमूर्तस्यापि भावस्य मूर्तरूपेण अवतारणं शक्यं स्यात्।
स्वच्छ भारत् अभियानस्य नाम सुन्दर भारत् इति परिवर्तयति।
नवदिल्ली- स्वच्छभारत्, बेठी बच्चावो, बेठी पठावो प्रभृत्यः प्रथम-मोदीसर्कारस्य योजनाः सुन्दर भारत्, बद्लाव इत्यादिनामभिः प्रसिद्धाः भविष्यन्तीति आर्थिकसर्वेक्षणं सूचयति। जनानामे आर्थिकनिर्णयान् मनःशास्त्रतले वैकारिकतलले सास्कतिकतले च स्थित्वा पठनविधेयान् करोतीति कारणेनैव नामपरिवर्तनम्। त्वरितगतिरूपिणे आर्थिकप्रगतये चीनाराष्ट्रम् पूर्णतया मातकां कर्तुमपि सर्वेक्षणं उपदिशति।
पौराणिकभारते स्त्रियः बहुमानिताः इति गार्गि मैत्रेयीप्रभतीः उदाहत्य सर्वेक्षणं वदति। लिङ्गसमत्वाय नूतनं मानदण्डं सविशदं विवृणुत, तत्स्थिरीकरणार्थं श्रद्धां कुरुत अनुस्यूतं तत् प्रयोगमानय इत्येव अस्य दौत्यस्य लक्ष्यम्
रत्नगिरिमण्डले जलबन्धभङ्गेन 22 जनाः तिरोभूताः, 12 गृहाणि वाहितानि।
मुम्बै- महाराष्ट्राराज्ये रत्नगिरि मण्डले तिवारि जलबन्धः भग्नः अभवत्। अस्यां दुर्घटनायां 12 गृहाणि आप्लावितानि। 22 जनाः तिरोभूताश्च। तिरोभूतेषु द्वयोः मृतदेहो लब्धः। राष्ट्रिय-दूरन्तनिवारणसेना दुरन्तमेखलां प्रस्थिता।
प्रलयसमानः अन्तरिक्षो भवति रत्नगिर्याम्। कुजवासरे रात्रौ दशवादने अतिशक्ता वृष्टिरजायत। तदानीमेव जलबन्धभङ्गः अजायत। जलबन्धस्थो जलौघः समीपस्थान् ग्रामान् आप्लावितः। रत्नगिरिमण्डले चिप्लुन् तालूख् मेखलायामेव 12 गृहाणि प्रवाहितानि अभवन्। कुजवासरे प्रातः एव जलबन्धे छिद्रः अदृश्यत। तदानीं यूक्तो जाग्रता निर्देषः जनेभ्यो न दत्तः।
गतेषु पञ्चसु दिनेषु महाराष्ट्रा राज्ये घोरा वृष्टिरजायत। अनेन महान् नष्टोपि राज्ये समजायत।
केरलीयरथ्यासु १० लक्षं ई यानानि प्रस्थास्यन्ति।
कोच्ची- पारिस्थितिकसंरक्षणं लक्ष्यीकृत्य केरलीयासु रथ्यासु १० लक्षं वैद्यतयानानां सेवनमायोजयितुं सर्वकारः निरणयत्। आगामिनि वर्षद्वयाभ्यन्तरे एतानि यानानि रथ्यासु विलसिष्यतीति मुख्यमन्त्री पिणरायि विजयन् वर्यः अब्रवीत्।
एरणाकुलं बोल्गाट्टीमन्दिरे आरब्धस्य इवोल्व् आख्यस्य केरल ई मोबिलिट्टि समारोहस्य उद्घाटनं विधास्यन् भाषमाणः आसीत् स। द्विलक्षं द्विचक्रिकायानानि ५०००० त्रिचक्रिकायानानि १००० वस्तुवाहकयानानि ३००० बस्यानानी १०० जलयानानी च अस्मिन्नन्तर्भवन्ति।
राज्ये वैद्युतवाहनमेखला अपि परिगणनायामस्ति। मून्नार्. कोवलं,बेक्कल् इत्यादीनि विनोदसञ्चारकेन्द्राणि तथा सचीवालयं, टेक्नोपार्क् इन्फोपार्क् इत्यादीनि च केन्द्रीकृत्य प्रथमघट्टे वैद्युतयानानि चालयिष्यन्ति।
सार्वजनीनविद्यालयेषु मध्याह्नभोजने फलवर्गाणामपि स्थानम्।
तिरुवनन्तपुरम्- विद्यालयेषु मध्याह्नभोजनेन सह फलवर्गमपि दातुं सर्वकारः निरणयत्। प्रथमतः अष्टमपर्यन्तं कक्ष्यासु अध्ययनं कुर्वन्तः सार्वजनीनविद्यालयस्थाः २८ लक्षं छात्राः अस्य गुणभोक्तारः भविष्यन्ति। एतदर्थं समग्रा योजना सार्वजनीन-शिक्षानिदेशालयेन समर्पिता।
अधुना विद्यालयेषु ओदनेन सह मुद्गवर्गाः शाकानि च उपयुज्य क्वथितम् ददाति। अपि च प्रतिवारं दिनद्वयं क्षीरम् अण्डं च ददाति। एतदतिरिच्यैव अधुना फलवर्गस्यापि स्थानमलभत। अनेन केरलं छात्रेभ्यः क्षीरं फलं च ददत् राष्ट्रस्थं एकमेव राज्यं भविता।
सार्वजनीनवि्यालयेषु प्रतिछात्रं सप्ताहे दिनद्वयं दशरूप्यकमूल्यानि फलानि आयोजयेत् इति निर्देशः। फलेषु विषरहितं कदलीफलम्, आम्रं कर्कटी आमलकी च अन्तर्भवन्ति।
मैक् पोम्पियो नरेन्द्रमोदिना सह साक्षात्कारं कृतवान्
नवदिल्ली- अमेरिका विदेशकार्यसचिवः मैक् पोम्पियोवर्यः नवदिल्लयां प्र्धानमन्त्रिणा नरेन्द्रमोदीवर्येण साकं साक्षात्सम्भाषणं कृतवान्। प्रधानमन्त्रिपदे द्वितीयवारमागतं नरेन्द्रमोदिनं पोम्पियो अभ्यनन्दयत्। इतरे तन्त्रप्रधानविषयाः चर्चायां नागताः।
राष्ट्रिय-सुरक्षा उपदेष्टा अजित् डोवल्, विदेशकार्यमन्त्री एस्. जयकुमार् इत्येताभ्यां साकमपि पोम्पियोवर्यः साक्षात्सम्भाषणं करिष्यति। भारतसन्दर्शनं समाप्य गुरुवासरे सायं पोम्पियोवर्यः प्रतिनिवर्तिष्यते।
पुस्तकानां स्यूतानां च भारं विना पठनं मधुरम्- राज्यस्थः स्यूतमुक्तविद्यालयो भवति तरियोट् एस्.ए.एल्.पी. विद्यालयः
वयनाट्- पाठपुस्तकानां स्यूतानां च भारं विना छात्राणां अध्ययनं मधुरं करोति वयनाट् तरियोट् देशस्थः सेर्विन्ड्या आदिवासी लोवर् प्रैमरी विद्यालयः। अत्र अद्येतारः रिक्तहस्ताः विद्यालयमागन्तुं प्रभवन्ति। स्यूतं तस्मिन् पाठपुस्तकानि च न वोढव्यानि। राज्यस्थः प्रथमः स्यूतमुक्तविद्यालयो भवत्ययम्।
अस्याः पद्धतेः प्रथमसोपाने शिक्षकाणां रक्षाकर्तृ़णां च परिश्रमफलेन सर्वेभ्यः छात्रेभ्यः पाठपुस्तकानां युतकं अदात्। तयोः एकं विद्यालये अपरं गृहे च संरक्षति। द्वयोरेकं गतवर्षीयं पाठपुस्तकं भवति यत् पूर्विकेभ्यः छात्रेभ्यः सञ्चितं वर्तते। तद्वत् पठनोपकरणानां पेटिका मध्याह्नभोजनार्थं पात्राणि टिप्पणीपुस्तकादीनि च संरक्षितुं प्रतिवर्गं पृथक् निधानिकाः अपि सज्जीकृताः।
प्राक्प्राथमिककक्ष्यातः चतुर्थवर्गं यावत् छात्रेषु 45 प्रतिशतं छात्राः गिरिवर्गजनजातीयाः सन्ति। वयनाट् मण्डले छात्रगलनमुक्तो विद्यालयः अयम्। गतवर्षे बहुवारं गवेषणादिकं विधायैव एतादृशो निर्णयः विद्यालयाधिकृतैः स्वीकृतो वर्तते। विदेशराष्ट्राणां विद्यालयेषु पठनरीतिं साक्षाद्द्रष्टुम् अवसरः सञ्जातः, तदनन्तरमेव एतादृशम् आशयमधिकृत्य चिन्तिता इति प्रथमाध्यापिका अवदत्।
राजस्थाने बृहद्वितानशालायाः भञ्जनेन १४ जनाः मृताः, बहवश्च रुग्णाः।
जयपुरम्- राजस्थाने बार्मर् स्थले बहती वितानशाला प्रभञ्ज्य पतिता। अनेन १४ जनाः मृताः अपघाते बहवो रुग्णाश्च सञ्जाता। रविवासरे मध्याह्नकाले आसीदपघातः।
बार्मरस्थे राणी बाट्टियानि मन्दिरे एकस्मिन् समारोहाभ्यन्तरे तत्समारोहस्य कृते निर्मिता शाला घोरवृष्ट्या वातेन च भूमावपतत्। अपघाते रुग्णानामवस्था गुरुतरा अस्ति। एते बलोत्रायां जोद्पुरे च चिकित्सालयं नीताः।
अपघातवार्तां श्रुत्वा वरिष्ठाः कर्मचारिणः जनप्रतिनिधयश्च तत्रागताः । तेषां नेतृत्वे रक्षाप्रवर्तनानि प्रचलन्ति।
अपघाते प्रधानमन्त्री अनुशोचनसन्देशं प्रैषयत्। रुग्णाः झटित्येव सुखं प्राप्नुयुः इति स आशशंस।
योगविद्या साधारणजनान् प्रति प्रापणमेव लक्ष्यम्- प्रधानमन्त्री
राञ्ची- योगविद्यां साधारणजनान् प्रापयतु इति लक्ष्येणैव सर्वकारः प्रवर्तते इति प्रधानमन्त्री नरेन्द्रमोदीवर्यः प्रावोचत्। राञ्च्यां प्रभात् तारा स्थले आयोजिते योगदिनाचरणसमारोहे भाषमाणः आसीत् सः। आरोग्याय मनःप्रसादाय च योगविद्या अत्यन्तमुपकरोतीति स अभिप्रैति स्म।
आधुनिकयोगविद्या नगरमनुव्याप्य तिष्ठति। तां ततः ग्रामान् प्रति प्रापणमेव लक्ष्यमित्यपि स न्यगादीत्। साधारणजनान् तथा आदिवासिजनजातिजनान् च प्रति योगविद्या प्रापणीया। तेषां दैनन्दिनजीवनस्य भागत्वेन योगविद्यां परिवर्तयेत। यतो हि ते एव रोगेण अत्यधिकं दूयमानाः भवन्ति।
अद्य विश्वस्य विभिन्नेषु प्रान्तेषु अन्ताराष्ट्रयोगगिनं समुचितत्वेन आचर्यते। तेभ्यः प्रधानमन्त्री आशंसामार्पयत्।
जलशोषः- चेन्नै नगरे विद्यालयान् पिधातुं निर्णयः।
चेन्नै – चेन्नै ताम्बरं स्थले निजीयविद्यालयाः किञ्चित्कालं पिहिताः भवेयुः। जलक्षामस्य रूक्षतां परिगणय्य मधुरा काञ्चीपुरम् इत्यादिषु स्थलेषु विद्यालयानां प्रवर्तनसमयः मध्याह्नं यावत् परिमिताः आसन्ः पानीयजलस्य दौर्लभ्यम् अतिक्रान्तुं मेखलानुसारं जलवितरणं कार्यक्षमं कर्तुं च सर्वकारः निरणयत्। निजीय-जलसम्भारवाहनानि अधिकशुल्कं स्वीकुर्वन्तीति आवेदनमभिलक्ष्य परिहारार्थं पृथक् समितिं न्ययोजयत्। जलशोषेण दूयमाने तमिल् नाटु राज्ये एकसप्ताहाभ्यन्तरे वृष्टिः भविता इति पर्यावरणनिरीक्षणकेन्द्रं वदति।
उत्तरतमिल्नाटु राज्ये उष्णवातस्यापि साध्यतां प्रवक्ति। जनैः जाग्रद्भिः भाव्यमिति सर्वकाराः असूचयन्। आगामिनि दिनद्वये तमिल्नाटु राज्ये तापमानं षट् डिग्रि सेल्ष्यस् अधिकं उन्नतौ भविष्यति इति निरीक्षणमप्यस्ति।











