Category Archives: News Updates

पुस्तकानां स्यूतानां च भारं विना पठनं मधुरम्- राज्यस्थः स्यूतमुक्तविद्यालयो भवति तरियोट् एस्.ए.एल्.पी. विद्यालयः

वयनाट्-  पाठपुस्तकानां स्यूतानां च भारं विना छात्राणां अध्ययनं मधुरं करोति वयनाट् तरियोट् देशस्थः सेर्विन्ड्या आदिवासी लोवर् प्रैमरी विद्यालयः। अत्र अद्येतारः रिक्तहस्ताः विद्यालयमागन्तुं प्रभवन्ति। स्यूतं तस्मिन् पाठपुस्तकानि च न वोढव्यानि। राज्यस्थः प्रथमः स्यूतमुक्तविद्यालयो भवत्ययम्।

     अस्याः पद्धतेः प्रथमसोपाने शिक्षकाणां रक्षाकर्तृ़णां च परिश्रमफलेन सर्वेभ्यः छात्रेभ्यः पाठपुस्तकानां युतकं अदात्। तयोः एकं विद्यालये अपरं गृहे च संरक्षति। द्वयोरेकं गतवर्षीयं पाठपुस्तकं भवति यत् पूर्विकेभ्यः छात्रेभ्यः सञ्चितं वर्तते। तद्वत् पठनोपकरणानां पेटिका मध्याह्नभोजनार्थं पात्राणि टिप्पणीपुस्तकादीनि च संरक्षितुं प्रतिवर्गं पृथक् निधानिकाः अपि सज्जीकृताः।

    प्राक्प्राथमिककक्ष्यातः चतुर्थवर्गं यावत् छात्रेषु 45 प्रतिशतं छात्राः गिरिवर्गजनजातीयाः सन्ति।  वयनाट् मण्डले छात्रगलनमुक्तो विद्यालयः अयम्। गतवर्षे बहुवारं गवेषणादिकं विधायैव एतादृशो निर्णयः विद्यालयाधिकृतैः स्वीकृतो वर्तते। विदेशराष्ट्राणां विद्यालयेषु पठनरीतिं साक्षाद्द्रष्टुम् अवसरः सञ्जातः, तदनन्तरमेव एतादृशम् आशयमधिकृत्य चिन्तिता इति प्रथमाध्यापिका अवदत्।

राजस्थाने बृहद्वितानशालायाः भञ्जनेन १४ जनाः मृताः, बहवश्च रुग्णाः।

जयपुरम्- राजस्थाने बार्मर् स्थले बहती वितानशाला प्रभञ्ज्य पतिता। अनेन १४ जनाः मृताः अपघाते बहवो रुग्णाश्च सञ्जाता। रविवासरे मध्याह्नकाले आसीदपघातः।

बार्मरस्थे राणी बाट्टियानि मन्दिरे एकस्मिन् समारोहाभ्यन्तरे तत्समारोहस्य कृते निर्मिता शाला घोरवृष्ट्या वातेन च भूमावपतत्। अपघाते रुग्णानामवस्था गुरुतरा अस्ति। एते बलोत्रायां जोद्पुरे च चिकित्सालयं नीताः।

अपघातवार्तां श्रुत्वा वरिष्ठाः कर्मचारिणः जनप्रतिनिधयश्च तत्रागताः । तेषां नेतृत्वे रक्षाप्रवर्तनानि प्रचलन्ति।

अपघाते प्रधानमन्त्री अनुशोचनसन्देशं प्रैषयत्। रुग्णाः झटित्येव सुखं प्राप्नुयुः इति स आशशंस।

योगविद्या साधारणजनान् प्रति प्रापणमेव लक्ष्यम्- प्रधानमन्त्री

राञ्ची- योगविद्यां साधारणजनान् प्रापयतु इति लक्ष्येणैव सर्वकारः प्रवर्तते इति प्रधानमन्त्री नरेन्द्रमोदीवर्यः प्रावोचत्। राञ्च्यां प्रभात् तारा स्थले आयोजिते योगदिनाचरणसमारोहे भाषमाणः आसीत् सः। आरोग्याय मनःप्रसादाय च योगविद्या अत्यन्तमुपकरोतीति स अभिप्रैति स्म।

आधुनिकयोगविद्या नगरमनुव्याप्य तिष्ठति। तां ततः ग्रामान् प्रति प्रापणमेव लक्ष्यमित्यपि स न्यगादीत्। साधारणजनान् तथा आदिवासिजनजातिजनान् च प्रति योगविद्या प्रापणीया। तेषां दैनन्दिनजीवनस्य भागत्वेन योगविद्यां परिवर्तयेत। यतो हि ते एव रोगेण अत्यधिकं दूयमानाः भवन्ति।

अद्य विश्वस्य विभिन्नेषु प्रान्तेषु अन्ताराष्ट्रयोगगिनं समुचितत्वेन आचर्यते। तेभ्यः प्रधानमन्त्री आशंसामार्पयत्।

जलशोषः- चेन्नै नगरे विद्यालयान् पिधातुं निर्णयः।

चेन्नै – चेन्नै ताम्बरं स्थले निजीयविद्यालयाः किञ्चित्कालं पिहिताः भवेयुः। जलक्षामस्य रूक्षतां परिगणय्य मधुरा काञ्चीपुरम् इत्यादिषु स्थलेषु  विद्यालयानां प्रवर्तनसमयः मध्याह्नं यावत् परिमिताः आसन्ः पानीयजलस्य दौर्लभ्यम् अतिक्रान्तुं मेखलानुसारं जलवितरणं कार्यक्षमं कर्तुं च सर्वकारः निरणयत्। निजीय-जलसम्भारवाहनानि अधिकशुल्कं स्वीकुर्वन्तीति आवेदनमभिलक्ष्य परिहारार्थं पृथक् समितिं न्ययोजयत्। जलशोषेण दूयमाने तमिल् नाटु राज्ये एकसप्ताहाभ्यन्तरे वृष्टिः भविता इति पर्यावरणनिरीक्षणकेन्द्रं वदति।

     उत्तरतमिल्नाटु राज्ये उष्णवातस्यापि साध्यतां प्रवक्ति।  जनैः जाग्रद्भिः भाव्यमिति सर्वकाराः असूचयन्। आगामिनि दिनद्वये तमिल्नाटु राज्ये तापमानं षट् डिग्रि सेल्ष्यस् अधिकं उन्नतौ भविष्यति इति निरीक्षणमप्यस्ति।

कलाकेरलस्य महान् नष्टः, वाद्यचक्रवर्तेः आदराञ्जलयः।

अन्नमनट परमेश्वरमारार्

मध्यकेरले कलाग्रामेषु प्रमुखस्थाने अस्ति अन्नमनटा। तत्र पटिञ्जारे मारात् भवने पारुक्कुट्टिमारास्यार् तोट्टुपुरत् रामन् नायर् दम्पत्योः पुत्रत्वेन १९५२ ऋषभमासे विशाखं नक्षत्रे परमेश्वरमारार् भूजातो अभवत्। अन्नमनट वरिष्ठपरमेश्वरनमारारं कुषूर् नारायणमारार् प्रभृतीनां तिमिलवादकानां चालक्कुटि नम्पीशन् कोलमङ्गलत् नारायणन् नायर् इति मद्दळवादकयोः प्रमाणस्थे पञ्चवाद्ये एव तस्य प्रथमपरिश्रमः आसीत्।
१९७१ वर्षे केरलकलामण्डले अध्यापकः अभवत्। प्रसिद्धाना सहवर्तित्वं तं प्रसिद्धं वाद्यकलाकारमकारयत्ष

केरलस्थेषु प्रसिद्धेषु मन्दिरेषु तस्य पञ्चवाद्यवादनमभवत्। विदेशेष्वपि स पञ्चवाद्यं अवातरत्।

राज्ये आगामिनि अध्ययनवर्षे मुक्तविश्वविद्यालयः प्रवर्तनमारभते-उन्नतशिक्षामन्त्री।

तिरुवनन्तपुरम्- केरलराज्ये आगामिनः अध्ययनवर्षादारभ्यः मुक्तविश्वमिद्यालयः प्रवर्तनसज्जो भविता इति अन्नतशिक्षाविभागमन्त्री के.टी. जलील् वर्यः अवदत्। राज्यस्थेषु विश्वविद्यालयेषु विदूरविद्याभ्यासार्थं पञ्जीकरणम् अस्मिन्वर्षमात्रमिति परिमितं भविष्यति इत्यपि सोवदत्। वृत्यधिष्ठित-वृत्तिनैपुणयविकासपाठ्यपद्धतेः एव मुक्तविश्वविद्यालये प्राधान्येन भविष्यतीत्यपि मन्त्री अवदत्।

     मुक्तविश्वविद्यालयमधिकृत्य पठनं कृतवान् प्रोफ. जे प्रभाष्वर्यः  सूचनीपत्रं सर्वकाराय अदात्। सूचनापत्रानुसारं विश्वविद्यालयस्थापनार्थं प्रवर्तनानि अचिरादेव आरभ्यतेणमारद्भ्यते।

     अधुना केरल,कालिक्कट्, कण्णुर् विश्ववीद्यालयेषु 93155 छात्राः वीदूरविद्याभ्यासार्थं, महात्मागान्धी विश्वविद्यालये 25488 छात्राः निजीयरूपेण च नाम पञ्जीकृताः सन्ति। आगामिनि अध्ययनवर्षे एतादृशान् मुक्तविश्वविद्यालयस्य भागं कारयिष्यति।

केरला एक्स्प्रस् इति रेल्याने अत्युष्णेन चत्वारो मृतः। भौतिकदेहानि अद्य स्वदेशं प्रापयिष्यति।

दिल्ली- केरल एक्स्प्रस् इति रेल्याने ह्यः चत्वारो मृतः। अत्युष्णेनैव एषा घटना सञ्जातेति सङ्घेष्वेकः न्यवेदयत्। अत्युष्णम् असहमानाः अस्वस्थाः जाताः, एतदेव मरणकारणमिति संघाङ्गः कोषिक्कोट् देशीया रुग्मिणी अवदत्। आग्रातः प्रस्थानात् परम् अर्धहोराभ्यन्तरे ते अस्वस्थाः जाताः।

वरिष्ठाः अत्यधिकम् अस्वस्थतां प्राकटयन्। अतःरेल्वे अधिकारिणं न्यवेदयन्। ततः झान्सीं प्राप्य अस्वस्थान् चिकित्सालयं प्रावेशयत्।

मृतानां चतुर्णां भौतिकदेहानि अद्य तेषां देशं प्रापयिष्यति। ऊट्टी देशीययोः द्वयोः देहे विमानद्वारा कोयम्पत्तूर् प्रापयिष्यति च।

ज्ञानपीठजेता गिरीष् कर्णाट् वर्यः दिवंगतः।

बंगलूरु- विख्यातः साहित्यकारः ज्ञानपीठजेता च गिरीष् कर्णाट् वर्यः दिवङ्गतः। स ८१ वयस्कः आसीत्। बङ्गलूरुस्थे स्वकीये गृहे सोमवासरे प्रातः आसीदन्त्यम्। वार्धक्यसहजेन आमयेन बहुकालं चिकित्सायामासीत्।

     १९८८-९३ कालघट्टे केन्द्रीय साहित्य अक्कादम्याः अध्यक्षः आसीत्। पद्मश्री पद्मभूषण् पुरस्काराभ्यामपि स बहुमानितः। कर्णाटक-राज्य-नाटक अकादम्याः अध्यक्षपदवीमपि अनेन अलङ्कृतः। पुरोगमन-राजनैतिकता तस्य रचनायां प्रतिफलितः आसीत्।

     १९३८ मेय १९ तमे दिनाङ्के महाराष्ट्रराज्ये मथेरान् स्थले स भूजातः। आङ्गल-मराठी भाषयोः शिक्षां प्राप्तोपि स कन्नटभाषायां मुख्यतया साहित्यरचनामकरोत्।

     संस्कार इति कन्नटचलचित्रार्थं पटकथा अनेन रचिता। तस्मिन् चित्रे नायकश्चासीदयम्। वंशवृक्ष इति चलचित्रस्य निदेशकोप्यासीदयम्।

गुरुवायुपुरमन्दिरदर्शनार्थं प्रधानमन्त्री नरेन्द्रमोदीवर्यः केरलानागच्छत्।

कोच्ची- गुरुपवनपुरमन्दिरे दर्शनं विधातुं प्रधानमन्त्री नरेन्द्रमोदीवर्यः कोच्चीनगरं प्राप्तः। शुक्रवासरे रात्रौ सार्धैकादशवादने व्योवसेनाविमानपत्तनं प्राप्तं प्रधानमन्त्रिणं मुख्यसचिवः टोम् जोस्, आरक्षिजलाध्यक्षः लोकनाथ बह्रा, कोच्ची महानगराझ्यक्षा सौमिनी जेयिन्, एरणाकुलं मण्डलाध्यक्षः मुहम्मद् वै सफीरुल्ला प्रभृतयः त्रिंशदधिकाः जनाः प्रत्युज्जग्मुः

     रथ्यासञ्चारेण एरणाकुलम् अतिथिमन्दिरं प्राप्तः मोदीवर्यः शनिवीसरे प्रातः 8.45 वादने  गुरुपवनपुरं प्रस्थास्यति। गुरुवायूर् श्रीकृष्णकलालयस्थे क्रीडाङ्गणे 9.45 वादने उदग्रयानद्वारा प्राप्य स 10 वादने देवस्थानस्य श्रीवत्सं अतिथिमन्दिरे विश्रमानन्तरं मन्दिरदर्शनं विधास्यति। अनन्तरं तत्र कलाशालाक्रीडाङ्रणे आयोज्यमाने सामान्याधिवेशने भागं गृहीष्यति। मध्याह्नानन्तरं दिल्लिं प्रति प्रस्थास्यति च। प्रथानमन्त्रिणः सन्दर्शनमभिलक्ष्य कोच्यां गुरुवायुपुरे च अतिशक्ता शुरक्षा आयोजिता।

केरलेषु प्रावृट्कालः आरब्धः. महावृष्टेः साध्यता, त्रिषु मण्डलेषु अरुणदक्षता घोषिता।

तिरुवनन्तपुरम्- केरलराज्ये प्रावृट्कालः श्वः आरभेत। कुजवासरपर्यन्तं महती  वृष्टिः भविष्यतीति पर्यावरणनिरीक्षणकेन्द्रं सूचयति। वृष्टिः शक्तिमापद्येत इत्यतः आगामिनि सप्ताहे दिनत्रयं विविधेषु मण्डलेषु अरुणदक्षता घोषिता।

     सोमवासरे तृशूर् मण्डले कुजवासरे मलप्पुरं कोषिक्कोट् मण्डलयोः च अरुणदक्षता घोषिता। आरबसागरे रूपमापन्नं न्युनमर्दं रविवासरावधि शक्तिं प्राप्य केरलकर्णाटकतीरे उत्तरपश्चिमदिशं प्रति सञ्चरेत् इति पर्यावरणनिरीक्षणविभागः सूचयति।