महापीठम्- संस्कृतचलचित्रस्य चित्रीकरणं सुसम्पन्नम्।

तिरुवनन्तपुरम्- सान्स्क्रीट् फिल्म् सोसैट्टि संस्थया निर्मीय सुरेष् गायत्रि वर्यस्य निदेशने तृतीयं संस्कृतचलचित्रं महापीठम् सम्पूर्णतया चित्रीकृतम्। अनेन संस्कृतचलचित्ररंगे सर्वाधिकं चलचित्रं निर्देशितमिति ख्यातिः सुरेष् गायत्रीवर्येण स्वायत्तीकृतम्।
विश्वे प्रथमं बालकानां चलचित्रं मधुरस्मितम्, विश्वस्तरे गणनायै समर्पितं मधुभाषितम् इति च इतरे चलचित्रे।कोल्लूर् मूकाम्बिकादेवीमन्दिरं, कुटजाद्रिः, सौपर्णिका, वनदुर्गामन्दिरं इत्यादिस्थलेषु चित्रीकृतमिदं चलचित्रं विश्वे प्रप्रथमं बालकानां भक्तिरसचलचित्रं वर्तते। मूकाम्बिकासन्निधौ आगच्छतः भक्तान् प्रति देव्याः अनुग्रह एव अस्य कथातन्तुः।

विष्णुचरण्, अञ्जना, अलीनिया, विष्णुप्रिया, राजेष्, मालविका, गौरीशङ्कर्, अनघा इत्यादयः अभिनेतारः कथा- पटकथा-जिबिन् दास् कोत्ताप्पल्ली, सुरेष् गायत्री। सम्भाषणं- मालती पि, डो-श्यामला, छायाग्रहणं- प्रभु ए, सम्पादनम्- जयचन्द्र कृष्ण, सङ्गीतं- सजित् शङ्कर्। राष्ट्रिय संस्कृतद्वसे चलचित्रं प्रदर्शनाय सज्जं भवति।

One Response to महापीठम्- संस्कृतचलचित्रस्य चित्रीकरणं सुसम्पन्नम्।

  1. Sureshgayathri says:

    Very good sir

Leave a Reply

Your email address will not be published. Required fields are marked *