Category Archives: News Updates

वेतनाभिग्रहः यदि विजयप्रदो न भवेत्तर्हि वेतनन्यूनीकरणम् अवश्यं भवेत्।- वित्तमन्त्री।

तिरुवनन्तपुरम्- वेतनाभिग्रहः विजयो न भवति चेत् इतरराज्यानि यथा अकुर्वन् तथा वेतनन्यूनीकरणं कर्तव्यं स्यात् इति केरलीयवित्तमन्त्री डो. टी.एम्. तोमस् ऐसेक् वर्यः अवदत्। वेतनाभिग्रहं प्रति कर्मकराणां प्रतिकरणम् अवलोक्य अस्मिन् विषये निर्णयो भविष्यति। सर्वेपि एकमासावधिकं वेतनं दातुं सन्नद्धाः स्युः इत्यपि तेन निगदितम्।

कोविड् प्रतिरोधः – एप्रिल् पञ्चमे तिथौ रात्रौ नववादने ह्रस्वदीपान् प्रज्वालयन्तु। प्रथानमन्त्री जनान् प्रति।

नवदिल्ली- राष्ट्रे घोषितेन पूर्णपिधानेन सहकृतान् सर्वान् जनान् स्वकीयां कृतज्ञताम् आवेदयत् प्रधानमन्त्री नरेन्द्रमोदीवर्यः। पिधाने अनुवर्तमानान् राष्ट्रियान् अभिसम्बोधयन् भाषमाण  आसीत् प्रधानमन्त्री। सर्वे जनाः अनुशासनं पालितवन्तः। राष्ट्रम् एकीभूय कोविड् प्रतिरोधार्थं यतते। बहूनि राष्ट्राणि भारतं आदर्शत्वेन पश्यन्ति।

     एकाकी सन् कथं रोदं प्रतिरोधयति इति सर्वेषाम् आश्ङ्का अस्ति। अस्मिन् विषये कोपि एकाकी नास्ति। 130 कोटि परिमिताः जनाः एकीभूय अस्मिन्नाहवे सन्ति। एप्रिल् पञ्चमे दिने रात्रौ नववादने गृहाणि पुरतः ह्रस्वदीपं, करदीपं मोबैल् प्रकाशं वा प्रज्वाल्य सर्वैः स्थातव्यम्। प्रकाशममुं 130 कोटिजनानां शक्तिरूपेण पश्यन्तु। एतस्मिन्नन्तरे न कोपि बहिर्गच्छेत् सम्भूय न तिष्ठेच्च इत्यपि प्रधानमन्त्री अवदत्। पूर्णपिधानं कदा अवसीयते इति तेन नोक्तम्।

निजामुद्दीन् धर्मसम्मेलने भागं गृहीतानां ५० तमिल् नाटु जनानां कोविड्-१९ बाधा।

चेन्नै- दिल्ली निजामुद्दीन् स्थले प्रचलिते धर्मसम्मेलने भागं गृहीतेषु १५०० तमिल् नाटु देशीयेषु ११३० जनाः एव प्रतिनिवृत्ताः इति तमिल् नाटु स्वास्थ्य सचिवा बीला राजेष् वर्या अवदत्। शिष्टाः दिल्यामेव सन्तीत्यपि सा अवदत्।

प्रतिनिवृत्तेषु ५१५ जनाः अवगताः। तेषु ५० जनानां कोरोणा विषाणुबाधा स्थिरीकृता। अनेन राज्ये कोरोणा बाधितानां संख्या १२४ जाता।

कोरोणा विषाणुव्यापनम्, सद्यो न विनश्यति- विश्व-स्वास्थ्य-संघटना।

 नवदिल्ली- कोरोणा विषाणोः व्यापने सद्ये न्यूनता न भविष्यतीति विश्व स्वास्थ्य संघटना। कति दिनानि एषा अवस्था अनुवर्तिष्यते इति वक्तुं न श्क्यते, व्यापनं प्रतिरोद्धुं सर्वाणि राष्ट्राणि निर्दिष्टानि इत्यपि संस्था असूचयत्।

     विश्वे इतःपर्यन्तं कोरोणा विषाणुबाधया मृतानां संख्या 38000 अतीता। विषाणुबाधितानां संख्या आविश्वं 789000 जाता। इट्टलीदेशे अद्यावधि कोरोणा विषाणुबाधया 11591 जनाः मृताः। स्पेयिन् राष्ट्रे मृत्युसंख्या 7716 जाता। सोमवासरे स्पेयिन् राष्ट्रे 913 जनाः मृताः। अमेरिकायामपि रोगव्यापनं अतिवेगं प्रसरति।

     जर्मन्याम् उपसप्तसहस्रं भवति मृत्युसंख्या। रोगिणां संख्या 60000 अधिकं भवति। ब्रिट्टने मरणसंख्या 1400 अतीता। भारते 35 जनाः कोविड् बाधया मृताः।

केरले प्रथमं कोविड् मरणम्, कोच्ची मट्टाञ्चेरिदेशीयः मृतः।

कोच्ची- केरले प्रथमं कोविड् मरणम् आवेदितम्। ६९ वयस्कः मट्टाञ्चेरि देशीयः एव मृतः। कलमश्शेरि वैद्यकीयकलालयस्थे चिकित्सालये चिकित्सायां तिष्ठन्नेव स मृतः।

मार्च्- १६ दिनाङ्के दुबाई राष्ट्रात् प्रत्यागतः अयं २२ दिनाङ्के पृथक्करण विभागं नीतः आसीत्। अस्य पत्नी अपि रुग्णा भवति। दुबाई तः आगते विमाने अन्ये ४० यात्रिकाः आसन्। ते सर्वे निरीक्षणे सन्ति।

हृद्रोगेण रक्तसम्मर्देन च चिकित्सायामासीत् परेतः।

कोरोणा विषाणुः, निर्णयार्थम् अतिवेगा रीतिः सज्जा भवति- प्रायोजकः केरलीयगवेषकः।

कोषिक्कोट्- केरलीयगवेषकेण अनावृतां तान्त्रिकविद्यामुपयुज्य कोरोणा विषाणुरोगनिर्णयार्थं अल्पव्यया कापि रीतिः सज्जा अभवत्। गोवा राज्यस्था मल्बयो डयग्नोस्टिक् इति संस्था एव रियल् टैं पोयिन्ट आफ् केयर्-पी.सी.अर् कोविड्-19 परिशोधनासूत्रं बहिरानयति। परीक्षणार्थं कोविड् रोगनिर्णयं कर्तुं भारतीय-वैद्यक-पर्यवेक्षणनिगमस्य अनुमतिः संस्थया प्राप्ता। आगामिनि सप्ताहे अन्तिमानुमतिं लब्स्यते। निर्वीर्यं कृत्वा एव प्रतिमानं स्वीक्रियते इत्यतः स्वास्थ्यकर्मकराणां रोगसंक्रमणरूपा आशङ्का दूरीकर्तुं शक्यते।

     एकहोराभ्यन्तरे परिशोधनफलं लभते इत्यतः नूतना इयं रीतिः रोगप्रतिरोधाय अनुग्रह एव स्यात्। 1500 रूप्यकेभ्य नूनं भवति व्ययः। भारते परिशोधनासौविध्यस्य न्यूनता कोविड्-19 प्रतिरोधे महान् आहवः भविष्यतीति विश्व स्वास्थ्य संस्था अभिप्रैति स्म।

     जनितकपरिशोधनाद्वारा सूक्ष्माणु-विषाणुरोगबाधा निर्णेतुम् आयोजिता साङ्केतिकविद्या भवति पी.सी.आर्.(पोलिमरैस्ड् चेयिन् रियाक्षन्) परिशोधना। एतदर्थं सुविधामायोजयितुं 30 लक्षतः एककोटिपरिमितं व्ययः भवति। परन्तु रियल् टैं पोयिन्ट आफ् केयर् पी.सी.आर् परिशोधनार्थं ट्रूनाट् इति कनिष्ठम् उपकरणं पर्याप्तं भवति।

     केरलेषु ओट्टप्पालं देशीयः डो. चन्द्रशेखरन् भास्करन् नायर् वर्यः एव इमां तान्त्रिकविद्यां विकासितवान्।

१७०००० कोटि रूप्यकाणाम् आचयः। दरिद्रेभ्यः पञ्च किलो परिमितं तण्डुलं गोधूमं वा ददाति।

नवदिल्ली- कोरोणा विषाणोः भूमिकायाम् आर्थिकाघातं वारयितुं १.७० लक्षं कोटिरूप्यकाणाम् आर्थिकसमाचयः केन्द्रिय वित्तमन्त्रिणा निर्मला सीतारामन् वर्यया घोषितः। प्रधानमन्त्री गरीब् कल्याण् योजना इत्याख्यया पद्धत्या एव समाचयः संयोजयति। न कोपि बभुक्षया वसेत् इति पद्धतीम् उद्घुष्य मन्त्री अवदत्।

कोरोणा प्रतिरोधप्रवर्तने निरतानां स्वास्थ्यविभागकर्मकराणां कृते ५० लक्षं रूप्यकाणां बीमायोजना अारभ्स्यते। आशाप्रवर्तकाः, समान्तरवैद्यकीयकर्मकराः, अनुवैद्याः च बीमापरिरक्षायाम् अन्तर्भवन्ति।

प्रधानमन्त्री गरीब् कल्याण् अन्नयोजना पद्धत्यनुसारं ५० कोटि वराकाणां प्रतिपरिवारं ५किलो परिमितं तण्डुलं गोधूमं वा विना शुल्कं प्रदास्यति।अपि च प्रतिपरिवारं एक किलो परिमितं मुद्गमपि वितरिष्यति।

राष्ट्रे सम्पूर्णपिधानम, विषाणुव्यापनं 21 दिनाभ्यन्तरे नियन्त्रणाधीनं स्यात्, अन्यथा वयं 21 वर्षाणि पश्चाद्गमिष्यामः- प्रथानमन्त्री।

नवदिल्ली- राष्ट्रे 21 दिनानि यावत् सम्पूर्णपिधानम् उदघोषयत्। ह्यस्तने रात्रौ अष्टवादने दृश्यमाध्यमद्वारा राष्ट्रम्  अभिसम्बोधयन् प्रथानमन्त्री नरेन्द्रमोदीवर्यः इदमुदघोषयत्। तेनेदमुक्तं यत् 21 दिनाभ्यन्तरे विषाणुव्यापनं नियन्त्रणाधीनं यदि न स्यात् तर्हि राष्ट्रं 21 वर्षं पश्चाद्गमिष्यति इति।

     आगामिनि 21 दिनानि अतीव निर्णायकानि। नागरिकाणां जीवरक्षणार्थमेव एषः निरोधः आयोज्यते। सर्वे स्वकीयेषु गृहेष्वेव तिष्ठन्तु। सामाजिकं दूरीकरणमेव रोगव्यापनं प्रतिरोद्धुम् उपायः। कोरोणा विषाणुबाधितः प्रथमघट्टे रोगलक्षणं न प्रकटयति। तस्मिन् समये तस्मात् रोगव्यापनं भवेच्च। अतः सर्वैः जागरूकैः भाव्यम्। एतदर्थमेव गृहे स्थातुं निरदिशत् इत्यपि स अवोचत्। पिधानसमये अवश्यवस्तूनां वितरणं भविष्यति।

कोविड्-19- केरलेषु सम्पूर्णपिधानं विधास्यति।

तिरुवनन्तपुरम्- केरलराज्ये 14 मण्डलानि पूर्णतया पिधास्यति इति मुख्यमन्त्री पिणरायि विजयन् वर्यः अवदत्।  अद्य अर्धरात्रादारभ्य मार्च मासस्य 31 दिनाङ्कपर्यन्तमेव पिधानं विधास्यति। सारवजनीनयायायातः न भविष्यति, सीमानः सर्वे पिधास्यन्ति। अवश्यवस्तूनां लभाय यतिष्ये इत्यपि मुख्यमन्त्री अवदत्।

     राज्य-परिवहणनिगमस्य सेवा न भविष्यति। निजीय बस् यानानि अपि न भविष्यति। परन्तु  व्यक्तीनां यानानि परिवहणाय अनुमिमीते। औषधापणानि प्रवर्तिष्यन्ते। भोजनशालायाः प्रवर्तनानुमतिः निरुद्धा।

     निरीक्षणे स्थितानां कृते भोजनानि गृहे प्रापयिष्यति। माध्यमप्रवर्तनाय अनुमतिरस्ति परन्तु जागरूकता आवश्यकी। कासरगोड् मण्डले जनानां सञ्चारे नियन्त्रणमायोजितम्। अद्य सायम् आयोजिते पत्रकारमेलने एव मुख्यमन्त्री एवमवदत्।

सम्पूर्णपिधानाय आदेशो न दत्तः- मुख्यमन्त्री।

तिरुवनन्तपुरम्- केरलेषु सप्तमण्डलानि सम्पूर्णतया पिधास्यन्ति इति वार्ता अवास्तवा इति मुख्यमन्त्री पिणरायि विजयन् अवदत्। एषु सप्तस्वपि मण्डलेषु नूतनतया कानिचन नियन्त्रणानि आयोजयितुं सर्वकारः न निरणयत्। परन्तु पूर्वम् आयोजितानि नियन्त्रणानि अनुवर्तयिष्यति। तदर्थं निर्देशाः दत्ताः।

कासरगोड् मण्डले पृथक् साहचर्यं परिगणय्य अधिकानि नियन्त्रणानि आयोजयिष्यति। तत्र सम्पूर्णतया पिधानम् इष्यते इत्यपि मुख्यमन्त्री अवदत्।