Category Archives: News Updates

ज्ञानपीठपुरस्कारः- गुल्सार् वर्यः जगद्गुरुः रामभद्राचार्यश्च पुरस्कृतौ।

नवदिल्ली- २०२३ वर्षस्य ज्ञानपीठपुरस्कारः घोषितः। विख्यातः उर्दूभाषाकविः हिन्दीगानकारश्च श्रीमान् गुल्सार् वर्यः तथा संस्कृतपण्डितः रामभद्राचार्यश्च पुरस्कृतौ भवतः।

२००२ तमे वर्षे साहित्य अकादमीपुरस्कारेण समादृतः गुल्सार् वर्यः २००४ तमे वर्षे पद्मभूषण् पुरस्कारेणापि आदृतः अभवत् तथा २०१३ तमे वर्षे दादा साहेब् फाल्के पुरस्कारं च प्राप्तवानयम्।

चित्रकूटस्थस्य तुलसीपीठस्य संस्थापकः मेधावीच भवति रामभद्राचार्यः संस्कृते शताधिकानि पुस्तकानि अनेन विरचितानि।

ओ के मुन्षी पुरस्कारः डा : नारायणन् नम्पूतिरि वर्याय ।

ओ के मुन्षी पुरस्कार समर्पणं तथा अनुस्मरणप्रभाषणं च ए के पि ओरियन्टल् पब्लिक् पुस्तकालये समायोजयत् । सदनं नारायण : संस्कृतपण्डिताय डा नारायणन् नम्पूतिरि वर्याय पुरस्कारं समार्पत् । कोषिक्कोट् सर्वकलाशालायाः संस्कृतविभास्य अध्यक्ष : आसीत् पुरस्कारजेता । गत वर्षे कुर्याक्कुमास्टर् स्मारक पुरस्कारेण अपि स : पुरस्कृतः आसीत् ।

विद्वान् ए के कृष्णन् मास्टर स्मारक समित्या पुरस्कारोयं आयोजितः वर्तते । डा . श्रीधरन् टि राधाकृष्णन् ‘ ओ के भार्गवन् टि पि सुनिल् कुमार् के पि विजयकृष्णन् च तत्र भागभाज : आसन् ॥

मुन्षि पुरस्कारः डो-पि नारायणन् नम्पूतिरिवर्याय दीयते।

पय्यन्नूर् – व्याकरणशिरोमणिः ओ-के- मुन्षिवर्यस्य स्मरणार्थम् आयोजितं पुरस्कारम् अस्मिन् वर्षे डो-पि नारायणन् नम्पूतिरिवर्याय ददाति। विख्यातः संस्कृतपण्डितः तथा कोषिक्कोट् विश्वविद्यालये संस्कृतविभागस्य प्राचार्यचरश्चास्ति अयं महाभागः। विद्वान् एं के कृष्णन् मास्टर् समितिरेव पुरस्कारं समायोजयत्। १५००० रूप्यकाणि प्रशस्तिपत्रं च पुरस्कारे अन्तर्भवतः।

फेब्रुवरि प्रथमे दिने पय्यन्नूर् तुम्पक्कोव्वल् ए के पि ओरियन्टल् रिसर्च् आन्ट् पब्लिक् लैब्ररि वेदिकायाम् आयोज्यमाने अधिवेशने पुरस्कारं प्रदास्यति।

कोषिक्कोट्, कण्णूर्, कालटि, केरल विश्वविद्यालयेषु अध्ययनसमित्यङ्गमासीत् डो- नारायणन् नम्पूतिरिः। अघुना कालटि श्रीशङ्कराचार्य संस्कृतविश्वविद्यालये डीन् भवत्ययम्।

केरलेषु पाठ्यचर्यायाः समग्रपरिवर्तनेन पाठ्यपुस्तकानि परिष्कृतानि।

पाठ्यचर्या परिष्करणस्य भागत्वेन राज्य-शैक्षिकानुसन्धान-प्रशिक्षणपरिषदः आभिमुख्ये सज्जीकृतानि पाठ्यपुस्तकानि राज्यस्तरीय पाठ्यचर्यानियन्त्रणसमित्या अङ्गीकृतानि। १,३,५,७,९ वर्गाणां कृते सज्जीकृतेषु १७३ शीर्षकेषु अन्तर्भूतानां पाठ्यपुस्तकानामेव अङ्गीकारः। अनेन केरलेषु पाठ्यचर्या तस्याः अनुबन्धितया पाठ्यपुस्तकानि च समग्रपरिवर्तनाय विधेयानि भविष्यन्ति।

इतः पूर्वं २००७ तमे वर्षे एव पाठ्यतर्याप्रारूपस्य परिवर्तनेन समग्रपाठ्यपद्धति परिष्करणं जातम्। ततः २०१३ तमे वर्षे पाठ्यपुस्तकानि परिष्कृतानि।

गते षोडशवर्षाभ्यन्तरे विज्ञानतले सञ्जातः विकासः शास्त्र-प्रौद्योगिकमण्डले सञ्जातं परिवर्तनं तथा राष्ट्रिय-शिक्षानीतिः २०२० इत्यस्य भूमिका च परिगणितानि।

शिक्षाक्षेत्रे शिक्षकाः छात्राः रक्षितारश्च अभिभूय २६ केन्द्रबिन्दुसङ्घःरूपवत्कृतः। अस्य सङ्घस्य नेतृत्वे एव पाठ्यपद्धति परिष्करणस्य प्रारम्भप्रवर्तनानि समभवन्।

विविधासु शिल्पशालासु पाठ्यपुस्तकानां नवीकरणप्रवर्तनानि समभवन्। एतासु शिल्पशालासु विद्यालयीयाध्यापकाः कलाशालाध्यापकाः वृत्तिविरताः विशेषज्ञाश्च भागभाजः आसन्।

विद्यालयीयकलोत्सवे कण्णूर् मण्डलं विजयकिरीटमन्ववाप।

कोल्लम्- एष्यायाः बृहत्तमे कौमारकलोत्सवे ९५२ अङ्कैः कण्णूर् मण्डलं विजयमवाप। २३ वर्षं यावत् प्रतिपाल्यैव ६२ तमे केरलीय-विद्यालय-कलोत्सवे एतत् कलोत्सवकिरीटं कण्णूर् मण्डलं स्वायत्तमकरोत्। ९४९ अङ्कैः कोषिक्कोट् मण्डलं द्वितीयस्थानं, ९३८ अङ्कैः पालक्काट् तृतीयस्थानं, तथा ९२५ अङ्कैः तृशूर् चतुर्थं स्थानं च प्राप्तवन्तः। इतः पूर्वं १९६०, १९९७, १९९८, २००० वर्षेषु कण्णूर् मण्डलेन विजयकिरीटं प्राप्तमासीत्।

   आश्रामं वेदिकायां जनुवरि चतुर्थे दिने मुख्यमन्त्रिणा उद्घाटित आसीत् अयं कलोत्सवः। समापनसम्मेलनं ह्यस्तने विपक्षनेत्रा वि डि सतीशन् वर्येण उद्घाटितम्।

भारतीय-मल्लयुद्धसङ्घस्य अध्यक्षः ब्रिज्भूषणस्य विश्वस्तः, साक्षी मालिक् मल्लयुद्धात् विरम्य सास्रं प्रतिनिवृत्ता।

नवदिल्ली- ओलिम्पिक्स् क्रीडायां पतकजेत्री साक्षी मालिक् वर्या मल्लयुद्धक्रीडाम् अत्यजत्। दिल्ल्यां वार्ताहरसम्मेलने एव सा एनं वैकारिकप्रख्यापनम् अकरोत्। ब्रिज् भूषण् शरण् सिंहस्य विश्वस्तः तथा तस्य व्यवसायसहयोगी च सञ्जयसिंहः गतदिने भारतीय मल्लयुद्धसङ्घस्य अध्यक्षरूपेण चितः आसीत्। अस्यां घटनायां निराशां सूचयन्ती सा मल्लयुद्धात् विरमणम् असूचयत्। वार्ताहरसम्मेलनानन्तरं स्वकीयां पादरक्षां निष्कास्य सा सास्रं प्रतिनिवृत्ता।

४० दिनानि यावत् वीथ्यामेव वयम् अस्वपिम। राष्ट्रस्य विविधेभ्यः भागेभ्यः जनाः अस्मान् प्राचोदयन्।ब्रिज्भूषणस्य पारिवारिकान् विश्वस्तान् वा सङ्घाध्यक्षपदव्यां न परिगणयिष्यतीति कायिकक्रीडा-मन्त्रालयः सूचयति स्म। परन्तु अधुना सा सूचना न पालिता। अतः विरम्यते इति साक्षी मालिक् उक्तवती।

अभिगेल् सारा रेजि नामिकां बालिकाम् अन्ववागच्छत्। कोल्लम् आश्रामं वेदिकायाम् परित्यक्तरूपेण सा दृष्टा।

कोल्लम्- निद्रां त्यक्त्वा केरलेन प्रतिपालिता सा वार्ता समागता। कोल्लम् आयूर् प्रदेशात् विद्रोहिभिः अपनीता अभिगेल् सारा रेजी नामिका बालिका कोल्लम् आश्रामं वेदिकातः संदृष्टा। कुजवासरे मध्याह्ने एव सा परित्यक्तरूपेण तत्र दृष्टा। आरक्षिभिः सा गृहं नीता। २० होरापर्यन्तं मार्गणस्य शुभान्त्यमासीदयं प्रक्रमः।

केरलेषु कुसाट् इति अभियान्त्रिकविश्वविद्यालये दुर्घटना- चत्वारः मृताः।

कोच्ची- कलमश्शेरिदेशे कुसाट् परिसरे अभियान्त्रिकमहेत्सववेलायां दुर्घटना सञ्जाता। अभियान्त्रिकपठनविभागेन आयोजितस्य संगीतकार्यक्रमस्य चालनवेलायां वृष्टिः सञ्जाता। तदानीं बहिः सन्तिष्ठमानाः छात्राः सम्भूय सभागारं प्रवेष्टुमुद्यताः आभवन्। तस्मिन् महासम्मर्दे एव दुर्घटना जाता।

अपधाते चत्वारः छात्राः मृता। तेषु द्वे छात्रे भवतः। मृताः सर्वे तत्रैव अभियान्त्रिकविभागे अध्येतारः भवन्ति।

२०२३ वर्षस्य केरलपुरस्कारान् अघोषयत्।

तिरुवनन्तपुरम्- विविधेषु रङ्गेषु समग्रयोगदानं कृतवतां महारथानां कृते राज्यसर्वकारेण दीयमानाः परमोन्नतपुरस्काराः भवन्ति केरलपुरस्काराः। अस्य वर्षस्य केरलपुरस्काराः घोषिताः।

अस्मिन् वर्षे *केरलज्योतिपुरस्कारं* साहित्यरङ्गस्य समग्रयोगदानमभिलक्ष्य टि पद्मनाभन् वर्याय दास्यति।

सामाजिकसेवा, गृहसेवा रङ्गे समग्रयोगदानार्थं दीयमानाय *केरलप्रभा* पुरस्काराय न्यायाधीश फात्तिमा बीवी तथा कलारङ्गे प्रसिद्धा सूर्या कृष्णमूर्ती च अर्हावभवताम्।

सामाजिकरङ्गेषु समग्रयोगदानाय पुनलूर् सोमराजन्, स्स्थ्यरङ्गे समग्रयोगदानाय डो- वी-पी- गङ्गाधरन्, वाणिज्यरङ्गे समग्रयोगदानाय रवि डि सि, गृहसेवा विभागे समग्रयोगदानाय के-एंृ चन्द्रशेखर्, सङ्गीकविभागे रमेश् नारायण् इत्येते *केरलश्री* पुरस्काराय अर्हाः अभवन्।

अडूर् गोपालकृष्णन्, के जयकुमार्, डो-जोर्ज् ओणक्कूर् इत्येते आसन् पुरस्कारनिर्णेतारः।

गगनयान्- क्रू एस्केप् परीक्षणं विजयमभवत्, पेटकं सुरक्षितरूपेण सागरे अवतारितम्।

श्रीहरिक्कोट्टा-मानवं बहिराकाशं प्रेषयितुं भारतस्य गगनयान् दौत्यस्य भागत्वेन क्रू एस्केप् परीक्षणविक्षेपणं विजयकरमभवत्। श्रीहरिक्कोट्टा सतीष् धवान् विक्षेपणकेन्द्रात् ओक्टोबर् २१ तमे दिनाङ्के प्रातः दशवादने आसीत् विक्षेपणम्।

प्रातः अष्टवादने निश्चितमासीद् विक्षेपणम्। परन्तु पर्यावरणस्थितिः प्रतिकूला जाता। पुनः ४-४५ वादने निश्चितमपि प्रश्नपरिहाराभावात् उपेक्षितम्। अन्ते दशवादने विक्षेपणं जातम्।

विक्षेपणानन्तरं १-६६ निमेषान्तरे १७ किलोमीट्टर् उन्नतं प्राप्तात् विक्षेपणपेटकात् क्रू मोड्यूल् पृथक् भूय पारच्यूट् साहाय्येन वंगसमुद्रे पतितम्।

गगनयान् दौत्ये अतिप्रधानं परीक्षणमेवैतत्। पराजयमपहातुं प्रथमं परीक्षणघट्टं भवतीदम्। यदि दौत्यं पराजयते तर्हि रक्षाप्रवर्तनं कथमिति अवगन्तुम् परीक्षणमिदम् उपकरोति।