Category Archives: News Updates

छात्रैः साकं रक्षितारोपि पठेयुः।

तिरुवनन्तपुरम्- केरलेषु अस्माद् वर्षादारभ्य छात्राणाम् अध्ययनेन समं रक्षितारः अपि अधीयताम्। परं छात्राणां पाठं नास्ति तेषाम् अध्ययनकार्ये के के अंशाः श्रद्धेयाः इत्येव अधीतव्याः। एतदर्थं सज्जीकृतानि पाठपुस्तकानि अचिरेण विद्यालयं नेष्यति। अनेन भारते रक्षाकर्तृभ्यः पाठपुस्तकं दीयमानं प्रथमं राज्यं भविष्यति केरलम्।

पाठपुस्तकानां परिष्करणस्य भागत्वेन राज्य-शैक्षिकानुसन्धान-प्रशिक्षणपरिषदः नेतृत्वे एव रक्षाकर्त्रे पाठपुस्तकं सज्जीक्रियते। अङ्गणवाटीतः उच्चतरस्तरं यावत् छात्राणां रक्षाकर्तृभ्यः पुस्तकानि दास्यति।

छात्राणां वयो/नुसारमेव पुस्तकं सज्जीकृतम्। प्राक्-प्राथमिकम्, प्राथमिकम्, माध्यमिकम्, उच्चतरम् इति रूपेणैव स्तरं निर्णीतं भवति।

अशोकन् पुरनाट्टुकरा अनुस्मरणम् पुरस्कारसमर्पणञ्च ।

संस्कृतभाषा प्रचारकस्य तथा समाजोद्वारकस्य अशोकन् पुर नाट्टुकराया : दशमीय अनुस्मरणसम्मेलनं मई मासस्य नवमे दिने वैलोप्पिल्ली सभा मन्दिरे सम्पन्नम् । साहित्य अक्कादमी भूतपूर्व कार्यदर्शी श्री पि वि कृष्णन् नायर् महोदयः पुरस्कार समर्पणं निरवहत् । प्रसिद्ध आयुर्वेद भिषग्वरस्तथा सांस्कृतिकप्रवर्तक: डा टिश्रीकुमार: पुरस्कारेण बहुमानितः।
प्रतिभासम्पन्नाः समाजसेवकाः सदा स्मरणीयाः आद्रियमाणाश्च वर्तन्ते इति अशोकस्य निदर्शनमाधारीकृत्य पि वि कृष्णन्नायर वर्यः अवदत्। अशोकन् पुरनाट्टुकरा महाशयः संस्कृत प्रणयिनाम् आदर्शभूतः महान् कल्पवृक्षः आसीदिति सोfवदत्। श्री पि के राजन् मास्टर आध्यक्ष्यमावहत् । भूतपूर्व : नियमसभा सामाजिकः टि वि चन्द्रमोहनः अनुस्मरणभाषणमकरोत्। श्रीमन्तः एम् प्रसद्वर्यः सुकुमारन् मास्टर एन् राजगोपाल: .अनुराग् मास्टर आर् नन्दकिषोर् डा एस् एन् महेष् बाबु: श्रीमती अजिता च सदसि सन्निहिताः भाषमाणाश्च आसन् ।

अशोकन् पुरनाट्टुकरा -भारतमुद्रा पुरस्कारः 2024 घोषितः ।

प्रसिद्ध संस्कृत भाषापण्डितः विवर्तकः तथा संस्कृताध्यापक श्चासीत् श्री अशोकन्पुरनाट्टुकरा महोदय : । तस्य स्मरणार्थं समायोजितः पुरस्कार अस्मिन् वर्ष डा टि श्रीकुमाराय समर् प्यते । नैकेषां ग्रन्थानां रचयिता आयुर्वेदभिषग्वर : च भवति श्रीकुमारः । इदानी मण्णुत्ति हरिश्री आयुर्वेद भवनस्य निदेशकत्वेन प्रवर्तमानः वर्तते ।

डो वि के विजयस्य ( गुरुवायूरु देवस्वाध्यक्ष:) आध्यक्ष्ये प्रवर्तमानायां पुरस्कारसमित्यां श्री एन् राजगोपाल : ‘ डा एस् एन् महेष् बाबुच अड्गे भवतः । एकादशोत्तर एक शताधिक एकादश सहस्र रुप्यकाणि ( १११११) प्रशस्ति पत्रं फलकञ्च भवति पुरस्कारस्वरूपम् । २०२ ४ मेय् मासस्य नवमे दिने पञ्च वादने तृश्शुरू साहित्यअक्कादमी मन्दिरे वैलोप्पिल्लि सभायां पुरस्कार : समर्पित : भवेत् । सर्वेषां भाषा प्रणयिनां सज्जनानां सन्निधिं सम्प्रार्थये ।

 समित्या :कृते
एन् राजगोपालन् ।

: तृशशूर ।

सरस्वतीसम्मान् प्रभावर्मा वर्याय। द्वादशवर्षानन्तरमेव कैरलीसाहित्यस्य पुरस्कारप्राप्तिः।

नवदिल्ली- विख्यातः कैरलीसाहित्यकारः प्रभावर्मावर्यः अस्मिन् वर्षे सरस्वतीसम्मान् पुरस्काराय अर्हो अभवत्। रौद्रसात्विकम् इति काव्याख्यायिका एव सरस्वतीसम्मानाय परिगणिता। १५ लक्षं रूप्यकाणि, फलकं, प्रशस्तिपत्रं च पुरस्कारे अन्तर्भवन्ति। कैरलीभाषायाः कृते लब्धः अङ्गीकार एव पुरस्कारः इति प्रभावर्मा अवदत्।

श्याममाधवम्, कनल्चिलम्प् रौद्रसात्विकम् इति काव्याख्यायिकाः सौपर्णिका अर्कपूर्णिमा, अविचारितम् इत्यादयः द्वादश कवितासमाहाराश्च प्रभावर्मा महाशयेन प्रकाशिताः सन्ति। माध्यमप्रवर्तकः गानकारश्च भवत्ययम्। चलचित्रगानरचनायै पुरस्कार अपि अनेन प्राप्तः।

डाः नारायणः गुरुवायूर् वेदपठनकेन्द्रस्य निदेशकत्वेन नियोजितः ।

गुरुवायूर् देवस्वेन समारब्धस्य वेद संस्कारपठनकेन्द्रस्य निदेश कत्वेन प्रमुख: संस्कृत पण्डितः अनुसन्धाननिपुणश्च डा नारायण ननम्पूतिरि वर्यः अवरोधितः। कोषिकोट सर्वकलाशालातः संस्कृतविभागस्य अध्यक्षपदात् विरतः वैय्याकरणः भवत्ययम् ।

विशत्यधिकासु अन्ताराष्ट्रसङ्गोष्ठीषु तथा सार्धशताधिकासु देशीयगोष्ठीषु च अनेन प्रबन्धाः अवतारिताः वर्तन्ते । मलयालं तथा कलामण्डलं सर्वकला शालयोः अतिथिरूपेण अध्यापकवृत्तिमाचरदयम् महानुभावः।
इदानीं कालटि श्री शङ्कराचार्य संस्कृत सर्वकलाशालायां डीन रूपेण एष प्रवर्तमानः विराजते । पण्डितेन अनेन नैके ग्रन्थाः विरचिताः सन्ति । शाकटायनीयप्रक्रिया, प्रवेशकम् , निबन्ध कुसुमाञ्जलिः’ Perspectives on Astadhyayi and other frontiers of Learming इत्याद्याः तेषु केचन भवन्ति । भट्टि काव्यस्य अनुवादने इदानीमपि व्यापृतस्य तस्य एषा स्थानलब्धि : संस्कृत प्रणयिनां सर्वेषां मोदाय अलम् ।

वित्तकोशात् विरता श्रीमती गीता भवति तस्य पत्नी । अभया पुत्री अभिजित् पुत्रश्च गुरपवनपुरेशस्य अनुग्रहादेव एषा स्थानलब्धिरिति चिन्तयन्नास्ते अयं विनयान्वितः पण्डित 😐

२०२४-२५ अध्ययनवर्षस्य कृते पाठ्यपुस्तकानि सज्जानि- शिक्षामन्त्री।

तिरुवनन्तपुरम्- २०२४-२५ अध्ययनवर्षाय पाठ्यपुस्तकानां राज्यस्तरीयं वितरणं तिरुवनन्तपुरे सम्पन्नम्।

तिरुवनन्तपुरं कोट्टण् हिल् सर्वकारीय उच्चतरविद्यालये सार्वजनीनशिक्षामन्त्री वि शिवन् कुट्टिवर्यः उद्घाटनं निरवहत्। २,४,६,८,१० वर्गाणां कृते एव पुस्तकानि वितरितानि। शिष्टानां वर्गाणां कृते पुस्तकानि मेय् मासस्य प्रथमे सप्ताहे भविता। कोट्टण् हिल् विद्यालये सम्पन्नस्य कार्यक्रमस्य वीडियो शिक्षामन्त्रिणा जालपुटे विन्यस्तम्। इतः परं फोट्टोस्टाट् पठनस्य आवश्यकता नास्ति पाठपुस्तकानि सज्जानि इत्यपि मन्त्रिणा जालपुटे लिखितम्।

ज्ञानपीठपुरस्कारः- गुल्सार् वर्यः जगद्गुरुः रामभद्राचार्यश्च पुरस्कृतौ।

नवदिल्ली- २०२३ वर्षस्य ज्ञानपीठपुरस्कारः घोषितः। विख्यातः उर्दूभाषाकविः हिन्दीगानकारश्च श्रीमान् गुल्सार् वर्यः तथा संस्कृतपण्डितः रामभद्राचार्यश्च पुरस्कृतौ भवतः।

२००२ तमे वर्षे साहित्य अकादमीपुरस्कारेण समादृतः गुल्सार् वर्यः २००४ तमे वर्षे पद्मभूषण् पुरस्कारेणापि आदृतः अभवत् तथा २०१३ तमे वर्षे दादा साहेब् फाल्के पुरस्कारं च प्राप्तवानयम्।

चित्रकूटस्थस्य तुलसीपीठस्य संस्थापकः मेधावीच भवति रामभद्राचार्यः संस्कृते शताधिकानि पुस्तकानि अनेन विरचितानि।

ओ के मुन्षी पुरस्कारः डा : नारायणन् नम्पूतिरि वर्याय ।

ओ के मुन्षी पुरस्कार समर्पणं तथा अनुस्मरणप्रभाषणं च ए के पि ओरियन्टल् पब्लिक् पुस्तकालये समायोजयत् । सदनं नारायण : संस्कृतपण्डिताय डा नारायणन् नम्पूतिरि वर्याय पुरस्कारं समार्पत् । कोषिक्कोट् सर्वकलाशालायाः संस्कृतविभास्य अध्यक्ष : आसीत् पुरस्कारजेता । गत वर्षे कुर्याक्कुमास्टर् स्मारक पुरस्कारेण अपि स : पुरस्कृतः आसीत् ।

विद्वान् ए के कृष्णन् मास्टर स्मारक समित्या पुरस्कारोयं आयोजितः वर्तते । डा . श्रीधरन् टि राधाकृष्णन् ‘ ओ के भार्गवन् टि पि सुनिल् कुमार् के पि विजयकृष्णन् च तत्र भागभाज : आसन् ॥

मुन्षि पुरस्कारः डो-पि नारायणन् नम्पूतिरिवर्याय दीयते।

पय्यन्नूर् – व्याकरणशिरोमणिः ओ-के- मुन्षिवर्यस्य स्मरणार्थम् आयोजितं पुरस्कारम् अस्मिन् वर्षे डो-पि नारायणन् नम्पूतिरिवर्याय ददाति। विख्यातः संस्कृतपण्डितः तथा कोषिक्कोट् विश्वविद्यालये संस्कृतविभागस्य प्राचार्यचरश्चास्ति अयं महाभागः। विद्वान् एं के कृष्णन् मास्टर् समितिरेव पुरस्कारं समायोजयत्। १५००० रूप्यकाणि प्रशस्तिपत्रं च पुरस्कारे अन्तर्भवतः।

फेब्रुवरि प्रथमे दिने पय्यन्नूर् तुम्पक्कोव्वल् ए के पि ओरियन्टल् रिसर्च् आन्ट् पब्लिक् लैब्ररि वेदिकायाम् आयोज्यमाने अधिवेशने पुरस्कारं प्रदास्यति।

कोषिक्कोट्, कण्णूर्, कालटि, केरल विश्वविद्यालयेषु अध्ययनसमित्यङ्गमासीत् डो- नारायणन् नम्पूतिरिः। अघुना कालटि श्रीशङ्कराचार्य संस्कृतविश्वविद्यालये डीन् भवत्ययम्।

केरलेषु पाठ्यचर्यायाः समग्रपरिवर्तनेन पाठ्यपुस्तकानि परिष्कृतानि।

पाठ्यचर्या परिष्करणस्य भागत्वेन राज्य-शैक्षिकानुसन्धान-प्रशिक्षणपरिषदः आभिमुख्ये सज्जीकृतानि पाठ्यपुस्तकानि राज्यस्तरीय पाठ्यचर्यानियन्त्रणसमित्या अङ्गीकृतानि। १,३,५,७,९ वर्गाणां कृते सज्जीकृतेषु १७३ शीर्षकेषु अन्तर्भूतानां पाठ्यपुस्तकानामेव अङ्गीकारः। अनेन केरलेषु पाठ्यचर्या तस्याः अनुबन्धितया पाठ्यपुस्तकानि च समग्रपरिवर्तनाय विधेयानि भविष्यन्ति।

इतः पूर्वं २००७ तमे वर्षे एव पाठ्यतर्याप्रारूपस्य परिवर्तनेन समग्रपाठ्यपद्धति परिष्करणं जातम्। ततः २०१३ तमे वर्षे पाठ्यपुस्तकानि परिष्कृतानि।

गते षोडशवर्षाभ्यन्तरे विज्ञानतले सञ्जातः विकासः शास्त्र-प्रौद्योगिकमण्डले सञ्जातं परिवर्तनं तथा राष्ट्रिय-शिक्षानीतिः २०२० इत्यस्य भूमिका च परिगणितानि।

शिक्षाक्षेत्रे शिक्षकाः छात्राः रक्षितारश्च अभिभूय २६ केन्द्रबिन्दुसङ्घःरूपवत्कृतः। अस्य सङ्घस्य नेतृत्वे एव पाठ्यपद्धति परिष्करणस्य प्रारम्भप्रवर्तनानि समभवन्।

विविधासु शिल्पशालासु पाठ्यपुस्तकानां नवीकरणप्रवर्तनानि समभवन्। एतासु शिल्पशालासु विद्यालयीयाध्यापकाः कलाशालाध्यापकाः वृत्तिविरताः विशेषज्ञाश्च भागभाजः आसन्।