वयनाट् देशे प्रकृतिदुरन्तेभ्यः पीडितानां छात्राणाम् अध्ययनाय सुविधाः आयोजयिष्यति- मन्त्री शिवन् कुट्टि वर्यः।

कोल्लम्- वयनाट् देशे आपतिताभ्यः प्राकृतिकदुर्घटनाभ्यः अनेके जनाः समाश्वासकेन्द्रे संसक्षणायां वर्तन्ते। तेषु छात्राः अधिकाः सन्ति। तेषां विद्यालयाः अपि आपदि संलग्नाः विद्यन्ते। समाश्वासकेन्द्रेषु वसतां छात्राणाम् अध्ययनाय सर्वाः सुविधाः आयोजयिष्यति इति केरलीय शिक्षाविभागमन्त्री वि शिवन् कुट्टि वर्यः अब्रवीत्।
अद्य दुरन्तप्रदेशे सन्दर्शनं कृत्वा स इदमपि न्यगादीत् यत् विंशति दिनाभ्यन्तरे एतेषाम् अध्ययनप्रवर्तनानि प्रारभ्यन्ते इति। प्रथमदिने छात्राणां मानसिकप्रबलीकरणाय प्रवर्तनानि भविष्यन्ति। विद्यालयानां पुनर्निर्माणादिकं अचिरेण भविता। तदर्थम् उदारमतीनां साहाय्यं नूनं भविष्यति इत्यपि तेन निगदितम्।
Leave a Reply