Category Archives: News Updates

विद्यासंस्थासु उपस्थितिः 40 शतमितात् न्यूना चेत् 15 दिवसं यावत् पिधानं भवेयुः।

तिरुवनन्तपुरम्- विद्यालयेषु कलालयेषु च  दिनत्रयंयावत् छात्राणाम् उपस्थितिः 40 शतमितात् न्यूना चेत् तत्संस्थानं 15 दिनं यावत् पिहितं भवेत्। तादृशसंस्थानानि  कोवि़ड् निकायरूपेण परिगणयितुं च मुख्यमन्त्रिणः पिणरायि विजयन् वर्यस्य आध्यक्ष्ये संविष्टे कोविडवलोकनाधिवेशने निर्णयो जातः। पिहितेषु दिनेषु आधिजालिककक्ष्या भविष्यति।

जिल्लास्तरे  कोविड् व्यापनं निर्णेतुं स्वीकृतं ए.बी.सी.  इति वर्गीकरणं च कुजवासरात् प्रभृति प्राबल्ये भविष्यति। राज्ये कोविड्व्यापनं तथा चिकित्सालयं प्रवेशितानां संख्या च प्रतिदिनं प्रवर्धते इति अधिवेशने सूचितम्।  राज्ये  परिशोधनालयेषु  यावच्छक्यं कोविड् निर्णयपरिशोधना करणीया इति मुख्यमन्त्री निरदिशत्। गृहेषु स्वयं क्रियमाणा परिशोधना कदाचित् विपरीतफलं प्रददाति, तद्वारा रोगसंक्रमणं अधिकमपि भवेत्।

केरलेषु नवमकक्ष्यापर्यन्तम् आधिजालिककक्ष्या पुनरारभ्यते।

तिरुवनन्तपुरम्- जनुवरी २१ आरभ्य केरलेषु पुनरपि विद्यालयनां विरामो भविता। नवमकक्ष्यापर्यन्तं छात्राः गृहे स्थित्वा आधिजालिकम् अध्ययनं कुर्युः इति मुख्यमन्त्रिणः आध्यक्ष्ये आयोजिते कोविड् अवलोकनाधिवेशने निर्णयो जातः। फिब्रुवरी द्वितीयवारे पुनरवलोकनं भविता।

विद्यालये कोविड् रोगस्य निकायः संदृश्यते चेत् सप्ताहद्वयपर्यन्तं विद्यालयानं पिधानं विधातुं प्रांशुपालेभ्यो अधिकारं दास्यति।

सर्वकारीयकार्यालये कर्म कुर्वन्त्यः अन्तर्वत्यः गृहे एव स्थित्वा कार्यं विधातुं पारयन्ति। सर्वकारीय कार्यक्रमाः सर्वे आधिजालिकरूपेणैव प्रचलिष्यन्ति।

ओमिक्रोणस्य व्यापने स्वास्थ्यविभागः जागरूकतया कार्याणि निर्वहति। १०,११,१२ कक्ष्याः विद्यालयेष्वेव प्रचलिष्यति। तत्रस्थानां छात्राणां कृते निवारकौषधं विद्यालये एव दास्यति। एतदर्थं स्वास्थ्य-शिक्षाविभागौ सहयोगेन कार्यं निर्वहताम् इत्यपि मुख्यमन्त्री निरदिशत्।

राज्यस्तरीय‌ः संस्कृतदिवससमारोहः।

तिरुवनन्तपुरम्- केरल-राज्यस्तरीयः संस्कृतदिवससमारोहः २०२२ जनुवरी १८ दिनाङ्के तिरुवनन्तपुरं मणक्काट् सर्वकारीय उच्चविद्यालये सम्पत्स्यते। तद्दिने प्रातः ९-३० वादने केरलीयशिक्षामन्त्री वि-शिवन् कुट्टि वर्यः कार्यक्रमस्य उद्घाटनं निर्वक्ष्यति। संस्कृतसमितेः राज्यस्तरीय-निर्वाहकसमित्यङ्गानि तिरुवनन्तपुरं जिल्लातः उपजिल्लाकार्यकर्तारश्च भागं गृहीष्यन्ते।
कोविड् मानदण्डम् अनुवर्तते इत्यतः अस्मिन् वर्षे कार्यक्रमस्य वैपुल्यं नानुवर्तते। परिमितानि अङ्गान्येव कार्यक्रमे भागं स्वीकरिष्यन्ति। कार्यक्रममिममभिलक्ष्य समायोजिते साहित्यमत्सरे भागं गृहीतानां कृते साक्ष्यपत्राणि पारितोषिकान् च समारोहे वितरिष्यन्ति।
मत्सरे भागं गृहीत्वा सम्मानितानां नामानि एवम्-
समस्यापुरणमत्सरः
प्रथमस्थानम्- रमा टी-के-, टी-डी-एच़्-एस्-एस्- आलप्पुषा।
द्वितीयस्थानम्- श्रीजा -टी-, एच्-एस्- पेरिङ्ङोट्, पालक्काट्।
तृतीयस्थानम्- रमेश् नम्पीशन्, देवतार् एच्०एस० तानूर्।

कवितामत्सरः-
प्रथमः – रम्या पुलियन्नूर्, षेणायी स्मारक एच्०एस्० पय्यन्नूर्-
द्वितीयः-रणजित् के, जि-यु-पि-एस्- वट्टोली, वटकरा।
तृतीयः-ऊर्मिला- जी-यु०पि०एस्० कुट्टूर् कण्णूर्।

ह्रस्वचलचित्रमत्सरः
प्रथमः-अतिजीवनम्- फा० जि-के-एं- एच्-एस्- कणियारम्, वयनाट्।
द्वितीयः-एकं सत् -जी-वी०एच्-एस्- वेल्लनाट्, तिरुवनन्तपुरम्।
तृतीयः-मम सौभाग्यम् -पि-एस्-एन्-एं० यु-पिय स्कूल्, वेलियन्नूर्, नेटुमङ्ङाट्, तिरुवनन्तपुरम्।

ह्रस्वचलचित्रमत्सरे भागं गृहीतानां सर्वेषां विद्यालयानां कृते साक्ष्यपत्राणि दास्यन्ति।

ओटक्कुषल् पुरस्कारं सारा जोसफ् महाभागायै दास्यति

तृशूर्- महाकवेः जि शङ्करक्कुरुप् वर्यस्य स्मरणार्थं गुरुवायूर् न्यासेन समायोजिताय ओटक्कुषल् पुरस्काराय अस्मिन् वर्षे सारा जोसफ् महाभागा अर्हा अभवत्। मातृभूमिः इति साप्ताहिक्यां खण्डशः प्रकाशितं बुधिनि इति नोवल् एव ५१ तमं ओटक्कुषल् पुरस्काराय ताम् अर्हामकरोत्।

३०००० रूप्यकाणि प्रशस्तिपत्रं फलकं च पुरस्कारे अन्तर्भवन्ति। महाकवेः शङ्करक्कुरुप् वर्यस्य ४४ तमे चरमवार्षिके -फिब्रवरि-२ दिनाङ्के डो एं लीलावतीवर्या पुरस्कारं दास्यति।

काश्मीरेषु माता वैष्णोदेवीमन्दिरे अपघातः, सम्मर्द्दे 12 मरणानि, 14 जनाः रुग्णाः।

श्रीनगरम्- जम्मू काश्मीरे कत्रा स्थले माता वैष्णोदेवी मन्दिरे सञ्जाते अपघाते 12 जनाः मृताः, तत्र महान् जनसम्मर्द्दः सञ्जातः। सम्मर्दे संलग्नाः 12 जनाः एव मृताः। 14 जनाः रुग्णाः अभवन्। मृतानां सङ्ख्याः इतोप्यधिका भवेदिति सूचना अस्ति। नववत्सरप्रभाते एव एषा घटना समापन्ना। रुग्णाः नरैना चिकित्सालयं नीताः।

     नववत्सरमभिलक्ष्य प्रार्थनार्थमागताः एव अपघाते पतिताः। अनुमतिं विना जनाः संभूय आगताः। एतदेव दुरन्तकारणम् इति अधिकारिभिः निगदितम्। रक्षाप्रवर्तनानि अनुवर्तन्ते इति आरक्षिभिः सूचितम्।

     अपघातानन्तरं मन्दिरे तार्थाटनं तात्कालिकतया स्थगितम्। प्रधानमन्त्री नरेन्द्रमोदी वर्यः साक्षादागत्यैव रक्षाप्रवर्तनानि अवलोकयतीति केन्द्रमन्त्री जितेन्द्र जेयिन् वर्यः अवदत्।

पञ्चदशोर्ध्ववयस्केभ्यो वाक्सिनदानं, षष्टिवयसःऊर्ध्वानां रोगिणां कृते अधिरमात्रावाक्सिनं च ।

नवदिल्ली- राष्ट्रे १५ तः १८ वयःपरिमितेभ्यो बालेभ्यो जनुवरि तृतीयदिनाङ्कादारभ्य कोविड् वाक्सिनं दास्यतीति प्रधानमन्त्री नरेन्द्रमोदीवर्यः। कोविडस्य ओमैक्रोण् भेदव्यापनस्य भूमिकायां राष्ट्रमभिसंबोधयन् भाषमाण आसीत् प्रधानमन्त्री।

स्वास्थ्यकर्मकरेभ्यः षष्टिवयसः ऊर्ध्वानां रोगिणां च कृते अधिकमात्रावाक्सिनं दातुमपि निर्णयोस्ति। एतत् दनुवरि १० दिनाङ्कादारभ्य वैद्यानां निर्देशानुसारं स्यात्।

भारत् बयो टेक् इति संस्थायाः कोवाक्सिन् बालेभ्यो दातुं डी सी जी ऐ अनुमतिमदात्। तदनन्तरमेव बालकेभ्यो वाक्सिनदानस्य प्रख्यापनमभवत्।

ओमैक्रोण् व्यापने परिभ्रान्तिः मास्तु, जागरूकता भवेत्। सर्वे मुखावरणं धृत्वा, हस्तक्षालनादीनि अनुवर्तेरन् इति प्रधानमन्त्री उदबोधयत्।

प्रमाणपत्रवितरणम्।

इरिङ्ङालक्कुटा- नटवरम्प् सर्वकारीय आदर्शोच्चतरविद्यालये २०१९-२० वर्षे प्रचालिते अनौपचारिकसंस्कृतवर्गे भागं गृहीतेभ्यो प्रमाणपत्राणां वितरणं कालटी श्रीशङ्कराचार्य संस्कृतविश्वविद्यालयस्य प्राचार्यः तथा केन्द्रीय-रेल् विकास् निगमस्य निदेशकश्च डो एं वी नटेशवर्यः निरवहत्। ब्लोक् पञ्चायत् अध्यक्षा श्रीमती विजयलक्ष्मी विनयचन्द्रवर्या कार्यक्रमम् उदघाटयत्। पी टी ए अधमयक्षः अनिलन् आध्यक्ष्यमवहत्। प्रथमाध्यापिका बिन्दू ओ आर् भूतपूर्वः संस्कृताध्यापकः सुरेष् बाबू, वार्ड् अङ्गं मात्यू पारेक्काटन् प्रभृतयः भागमभजन्।

केरलविधानसभासदस्यः पि टि तोमस् वर्यः निरगात्

कोच्ची- विधानसभायाः तृक्काक्करा निर्वाचनक्षेत्रस्य प्रतिनिधिः तथा केरल प्रदेश् काण्ग्रस् समितेः प्रवर्तनाध्यक्षश्च पि टि तोमस् वर्यः अस्माल्लोकान्निरगात्। स ७० वयस्कः आसीत्।

अर्बुदरोगग्रस्तोयं वेल्लूर् वैद्यकीयकलालयस्य चिकित्सालये चिकित्सायामासीत्। परितःस्थितिविषये अगाधं ज्ञानमवाप्य परितःस्थितिसंरक्षणप्रवर्तनेषु सदा जागरूकः आसीत् सः।

अधुना विधानसभायां काण्ग्रेस् दलस्य कार्यदर्शी तथा अखिलभारत काण्ग्रेस् समित्याम् अङ्गं च भवति। २००९-२०१४ कालपरिधौ इटुक्की लोकसभामण्डले सदस्यः आसीत्। २०१६ तः तृक्कारेकरा निर्वाचनक्षेत्रात् विधानसभासगस्यः भवति।

केरलस्य शास्त्रपारम्पर्यम्।

चतुर्दशशतके जातः संगमग्राममाधवः भारतीय गणित-ज्योतिश्शास्त्रपैतृकस्य उपज्ञाता भवति। काल्कुलस् इति गणितसङ्केतः ऐसक् न्यूट्टन् तथा जी वी लेब्निस् महाभागाभ्याम् आविष्तरणात् सार्धद्विशतकात् पूर्वं सङ्गमग्राममाधवः तस्य शिष्यपरम्पराश्च अस्मिन् रंगे अमूल्यं योगदानं लोकेभ्यो दत्तवन्तः आसन् इति माञ्चस्टर् विश्वविद्यालस्य प्राध्यापकः डो जोर्ज् गीवर्गीस् जोसफ् वर्यः वदति।
संगमग्राममाधवस्य गणितसिद्धान्तान् माधव-न्यूट्टन्, माधव-लेब्निस्, माधव-ग्रिगरिस् इत्यादि रूपेण पुनर्नामकरणं कृत्वा प्रकाशित इति डो गीवर्गीस् जोसफ् वदति।

इरिङ्ङालक्कुटा इति अधुना विख्याते संगमग्रामे कल्लेट्टुंकरा समीपे इरिङ्ङाटप्पल्लि मना इति गेहे माधवः अजायत इति मन्यते। स्वदेशस्थानाम् अज्ञाकनामा संगमग्राममाधवः पाश्चात्यशास्त्रलोके लब्धप्रतिष्ठः भवति। त्रिकोणमितिः, ज्यामिति, काल्कुलस् प्रभृतयः सिद्धान्ताः अस्य योगदानं भवति।
द्विग्गणितस्य कर्ता वाटश्शेरि परमेश्वरः, सूर्यकेन्द्रित- सौरयूथमधिकृत्य पठितवान् नीलकण्ठसोमयाजिप्पाट्, ज्येष्ठदेव प्रभृतयः संगमग्राममाधवस्य शिष्याः आसन्।

छात्राः अनायासं सञ्चरन्तु, वेषभूषार्थम् अवकाशः अनन्तरं भवेत्- टि पद्मनाभन्।

कोषिक्कोट्- लिङ्गभेदं विना वस्त्रधारणं प्रोत्साहयितुं मातृभूमिपत्रिकायाः प्रचारणवेदिकायां प्रसिद्धः कथाकारः टि पद्मनाभन् वर्यः एवम् अभिप्रयति स्म।
विद्यालयेषु बालकानां बालिकानां च कृते गणवस्त्रेषु ऐकरूप्यम् इति बुध्या बालुश्शेरि सर्वकारीय उच्चतरविद्यालये गणवस्त्रघटना परिष्कृता आसीत्। बालकाः बालिकाश्च निर्दिष्टे वर्णे ऊरुकं युतकं च धृत्वा विद्यालयमागच्छन्तु इति निर्णयः विद्यालयाधिकृतैः स्वीकृतः। बहूनां सामान्यजनानां संघटनानां च समर्थनं एतस्य कृते जातम्। परं केचन एनं निर्णयं विरुध्य च समागताः। अस्मिन् प्रसङ्गे एव मातृभूमिपत्रिकया एष संवादः समायोजितः।

ऊरुकं युतकं च बालिकाबालकयोः समीचीनं वस्त्रमेव, तद्धृत्वा गमनागमनं सौविध्यमेव। अस्मिन् विषये विरुद्धाभिप्रायः त्यज्यतां, वेषभूषार्थम् अवसरः अन्यत्र भविष्यति, इदानीं सौविध्यमेव परमं प्रधानम् इति उदाहरणेन साकं कथाकारः समर्थितवान्।