Category Archives: News Updates

प्रधानमन्त्री रष्याराष्ट्सन्दर्शनार्थं सन्नह्यति।

नवदिल्ली- रष्याराष्ट्रसन्दर्शनार्थं प्रधानमन्त्री नरेन्द्रमोदीवर्यः सन्नह्यति। द्वयोः राष्ट्रयोः मिथः उभयकक्षिबन्धवर्धनस्य भागत्वेन भवति सन्दर्शनम्। तत्र रष्या राष्ट्रपतिना व्लादिमिर् पुटिन् वर्येण सह अनौपचारिकः उच्चकोटिः भविष्यति। तदर्थं सोमवासरे प्रधानमन्त्री प्रस्थास्यते। आन्ताराष्ट्रविषयाः आतङ्कवादप्रभृतयः नैके विषयाः च द्वाभ्यां राष्ट्रनेतृभ्यां सह मेलने चर्चाविषयाः भवितारः। गतमासे मोदीवर्यः चीना राष्ट्रपतिना षी जिन् पिङ् वर्येण सह अनौपचारिकम् उच्चकोटिं सम्पादितवान्।

सीमाप्रदेशे सङ्घर्षः, सैन्यं त्रीन् भीकरान् अवधीत्।

जम्मू- प्रधानमन्त्रिणः जम्मू-काश्मीर् सन्दर्शनस्य पश्चात् सीमायां सङ्घर्षः। कुप्वारायां नियन्त्रणरेखाद्वारा अतिक्रान्तुमुद्यतान् त्रीन् भीकरान् सैन्यमवधीत्। प्रधानमन्त्रिणः सन्दर्शनमनुबन्ध्य सीमायां सुरक्षा शक्तीकृता आसीत्। तस्मिन्नन्तरे एव भीकरसान्निध्यं प्रत्यभिज्ञातम्। ततः कृते आक्रमणे एव सैन्यं त्रीन् भीकरान् अवधीत्। पञ्चाङ्गसंघ एव अतिक्रान्तुमुद्यताः। तेषु शिष्टयोः द्वयोः कृते मार्गणमनुवर्तते इति रक्षाविभागस्य वक्ता न्यगादीत्।

कर्णाटके राजनैतिकप्रतिसन्धिः। राज्यपालः नियमविदग्दैः साकं मन्त्रयति। राजभवनस्य सुरक्षा शक्तीकृता।

बङ्गलूरु- कर्णाटकराज्ये राजनैतिकसंग्रामे घोरे जाते तत्र राजभवनस्य सुरक्षा शक्ता जाता। ५०० संख्यकाः रक्षिपुरुषाः राजभवनस्य समीपं सुरक्षार्थं विन्यस्ताः।

     राज्ये कस्यापि दलस्य भूरिपक्षप्राप्तिं विना अपि राज्यपालः भ ज पा दलं सर्वकाररचनायै आमन्त्रयत् इति कारणादेव तत्र प्रतिसन्धिः जाता। काण्ग्रस्-जे डी एस् दलयोः घटबन्धनस्य भूरिपक्षे सञ्जाते/पि संसद्रचनार्थं राजपालः आमन्त्रणं न कृतवान् इत्यतः काण्ग्रेस् दलस्य नेतारः कर्णाटकराजभवनं प्रति पथसञ्चलनं कर्तुम् उद्युक्ताः सन्ति। एतस्मात् राजभवनस्य संरक्षणार्थमेव रक्षिपुरुषाणां विन्यासः।

     अस्मिन्नन्तरे कर्णाटकविषये सर्वोच्चन्यायालयस्य निर्णयो जातः। श्वः-(मेय् १९ दिनाङ्के)- सायं चतुर्वादने यदियूरप्पा विधानसभायां स्वकीयं भूरिपक्षसम्मतं प्रदर्शनीयमिति न्यायालयस्य निर्णयः। अतः यदियूरप्पा वर्यः विधानसभासमायोजनाय यतते। तदर्थं राज्यपालः वजुभाय् वाला नियमविदग्दैः समालोच्यते। श्वः सायं चतुर्वादने एव विश्वासमताकलनं भविष्यति।

कर्णाटका संसद्रचनाविषये सर्वोच्चन्यायालये अर्धरात्रव्यवहारः।

दिल्ली- अर्धरात्रानन्तरमपि न्यायवादानुन्नीय सर्वोच्चन्यायालयः बुधवासरे निद्राविहीनः अभवत्। अयुतसंख्यकाः राजनैतिकनेतारः निद्रां त्यक्त्वा निर्णयं प्रतिपालयामासुः। कर्णाटकराज्ये संसद्रचनाविषये कस्यापि दलस्य भूरिपक्षसदस्याः नास्तीत्यतः अत्याचारान् प्रतिरोद्धुं काण्ग्रेस् दलं बुधवासरे रात्रौ सर्वोच्चन्यायालयं शरणम् अगच्छत्।

     निर्वाचने १०४ मण्डलेषु विजित्य भजपा दलं सभायां बृहद्दलमभवत्। परन्तु संसद्रचनार्थम् अवरतः ११२ सदस्याः आवश्यकाः। अस्मिन्नन्तरे काण्ग्रेस् जनतादल् -एस् दलयोः घटबन्धने ११६ सदस्यानां प्राभवं राज्यपालस्य पुरतः ते न्यवेदयन्। परन्तु राज्यपालः तन्नाङ्गीचकार। राज्यपालः भजपा दलस्य संसदीयनेतारं यदियूरप्पावर्यं संसद्रचनायै आमन्त्रितवान्। अपि च भूरिपक्षस्थापनार्थं १५ दिवसस्यावकाशो/पि अदात्। एतद्विरुध्यैव न्यायालये व्यवहारमदात्।

     परन्तु राज्यपालस्य निर्णयः सर्वोच्चन्यायालयेन न निरस्तः। शुक्रवासरे व्यवहारं पुनरपि परिगणनाविषये आयाति। अस्मिन्नन्तरे अद्य प्रातः ९.३० वादने  यदियूरप्पा वर्यः कर्णाटकस्य मुख्यमन्त्रित्वेन शपथं स्वीकरिष्यति।

कर्णाटके भ ज पा दलस्य प्रामुख्यम्, काण्ग्रेस् दलस्य महान् पराजयः

बङ्गलूरु- कर्णाटकविधानसभानिर्वाचने भा ज पा दलं भूरि स्थानेषु विजयपथं प्राप। मताकलितेषु २२२ मण्डलेषु भा ज पा दलं १११ स्थानेषु बहुत्वं प्राप। कर्णाटकस्थेषु षट्सु प्रान्तेषु पञ्चस्वपि भाजपा दलस्यैव प्रामुख्यम्।

     अधिकारे स्थितस्य काण्ग्रेस् दलस्य महान् पराजयः अभवत्। ते ६९मण्डलेष्वेव केवलं बहुत्वं प्रापुः। जनतादलस्य ४० स्थानेषु बहुत्वमस्ति। तीरदेश-मध्यप्रान्तयोः भाजपा दलं शक्तं पुरोगामित्वमविन्दत। मैसूरु प्रान्ते जनतादलस्यैव प्रामुख्यम्। हैदरबाद् कर्णाटके काण्ग्रेस् दलं पश्चादगच्छत्। लिङ्गायत् प्रान्ते अपि तेषां पराभव एव। अनेन कर्णाटके भजपा दलम् अधिकारस्थानं प्राप्स्यति इति निश्चितमेव।

छात्राणां कृते विशिष्टा सूचना।

निदाघविरामानन्तरं केरलस्थेषु विद्यालयेषु जूण् प्रथमे दिनाङ्के शुक्रवासरे एव कक्ष्या आरभ्यते। द्वितीये दिने शनिवासरे/कक्ष्या भविष्यति। एतत्सम्बन्धि औद्योगिकं प्रख्यापनम् अस्मिन् सप्ताहे एव भविता। नवीनं विद्याभ्यास नियममनुसृत्य मध्याह्नभोजनवितरणार्थं केन्द्रसर्वकारात् धनादेशं प्राप्तुं विद्यालयेषु २२० प्रवृत्तिदिनमावश्यकं भवति। अत एवायं निर्णय़ः। अस्मिन् अध्ययनवर्षे अधिकाः शनिवासराः प्रवृत्तिदिनत्वेन परिगणनीया भवेयुः।

चलचित्र-नाटकनटः कलाशाला बाबू दिवंगतः।

कोच्ची- चलचित्रेषु नाटकेषु दूरदर्शनधारावाहिकासु च अभिनयप्रतिभां प्रदर्शितः नटः कलाशाला बाबू दिवंगतः। मस्तिष्काघातकारणात् एरणाकुलस्थे निजीयचिकित्सालये आसीत् अस्यान्त्यम्। हृदयसम्बन्धेन आमयेन समीपकाले चिकित्सायामासीत्। चलचित्रेषु सहनटरूपेण प्रतिनायक रूपेण चास्य अभिनयपाटवम् अतुल्यमासीत्। नाटकरंगे स्वीयां प्रतिभां प्रकटयन्नयं चलचित्रलोकमागतः।

     कथाकेलिमण्डले प्रसिद्धः आचार्यः कलामण्डलं कृष्णन् नायर् तथा मोहिनियाट्ट रंगे प्रसिद्धा नर्तकी कलामण्डलं कल्याणिक्कुट्टियम्मा चास्य पितरौ। नैकासु दूरदर्शनधारावाहिकासु चाभिनीय अयं स्वकीयामतुलां प्रतिभां प्राकटयत्।

कर्णाटकराज्ये विधानसभानिर्वाचनार्थं मतदानमारब्धम्। ४.९ कोटि मतदातारः विधिं निर्णेष्यन्ति।

बङ्गलूरु- कर्णाटकराज्ये मतदानमारब्धम्। प्रातः सप्तवादनादारभ्य सायं षट्वादनपर्यन्तं मतदानं भविष्यति। २०१९ लोकसभानिर्वाचनस्य प्राग्रूपत्वेन परिगण्यते इदं निर्वाचनम्। अत एव राष्ट्रिय- राजनैतिकस्य गतिनिर्णयरूपमपि भवेदिदं निर्वाचनम्। द्वयोः मण्डलयोः मतदानं परिवर्तितम्। शिष्टेषु २२२ मण्डलेषु अद्य मतदानं सम्पूर्णं भविष्यति।

     २०१३ निर्वाचनमपेक्ष्य १२ शतमितं मतदातारः अधिकमस्ति अस्मिन् निर्वाचने। आहत्य ५६६९५ मतदान केन्द्राणि सन्ति एषु ४५० केन्द्राणि स्त्रियः नयन्ति।

केरलेषु प्रावृट् समयात्पूर्वमागच्छतीति प्रवचनम्। मेय २५ प्रभृति वर्षा भविष्यति।

पूणे-केरलेषु अस्मिन्वर्षे प्रावृट् निश्चितसमयात् पूर्वमेवागमिष्यतीति वातावरणनिरीक्षणकेन्द्रस्य प्रवचनम्। मेय् २५ दिनाङ्कात् प्रभृति अत्र वृष्टिः भविता इति केन्द्रिय-वातावरणविभागस्य सूचना। अस्मिन् वर्षे वृष्टिः साधारणया रीत्या भविष्यतीति पूर्वमेव सूचना आसीत्।

साधारणतया जूण् प्रथमे तिथावेव प्रावृट् केरलानागच्छति। अस्मिन् वर्षे ततः पूर्वमेव आगमनं प्रवक्ति। यदि सूचिते समये एव वृष्टिः भविष्यति तर्हि २०१८ वर्षः निश्चितसमयात् पूर्वं वृष्टिलब्धः वर्षः जायेत। वातस्य गतिं निरीक्ष्यैव वृष्टेः प्रवचनं करोति।

भारतमुद्रा पुरस्कारः माटम्प् कुञ्ञुक्कुट्टन्वर्याय समर्पितः।

तृशूर्-अशोकन् पुरनाट्टुकरा अनुस्मरणसमितिः तथा भारतमुद्रा देयधर्मसंघश्च संयुक्ततया आयोजितः अशोकन् पुरनाट्टुकरा-भारतमुद्रा पुरस्कारः माटम्प् कुञ्ञुक्कुट्टवर्याय समर्पितः। साहित्य अक्कादमी वैलोप्पिळ्ळी शालायां सम्पन्नम् अधिवेशनं भूतपूर्वः विधानसभानेता तेरम्पिल् रामकृष्णन् वर्यः उदघाटयत्। पी.के. राजन् वर्यः अध्यक्षपदमलंचकार। आषा मेनोन् पुरस्कारं समर्पितवान्। डो. एस्.एन्. महेष् बाबू, वटक्कुम्पाट् नारायणन्, डो. वी.के. विजयन्, टी.वी. चन्द्रमोहन्, षाजू पुतूर्, सुरेन्द्रन् कटय्क्कोट् सी. अर्. सुकुमारन्, लिबी पुरनाट्टुकरा प्रभृतयः प्रभाषणमकुर्वन्।