कर्णाटका संसद्रचनाविषये सर्वोच्चन्यायालये अर्धरात्रव्यवहारः।

दिल्ली- अर्धरात्रानन्तरमपि न्यायवादानुन्नीय सर्वोच्चन्यायालयः बुधवासरे निद्राविहीनः अभवत्। अयुतसंख्यकाः राजनैतिकनेतारः निद्रां त्यक्त्वा निर्णयं प्रतिपालयामासुः। कर्णाटकराज्ये संसद्रचनाविषये कस्यापि दलस्य भूरिपक्षसदस्याः नास्तीत्यतः अत्याचारान् प्रतिरोद्धुं काण्ग्रेस् दलं बुधवासरे रात्रौ सर्वोच्चन्यायालयं शरणम् अगच्छत्।

     निर्वाचने १०४ मण्डलेषु विजित्य भजपा दलं सभायां बृहद्दलमभवत्। परन्तु संसद्रचनार्थम् अवरतः ११२ सदस्याः आवश्यकाः। अस्मिन्नन्तरे काण्ग्रेस् जनतादल् -एस् दलयोः घटबन्धने ११६ सदस्यानां प्राभवं राज्यपालस्य पुरतः ते न्यवेदयन्। परन्तु राज्यपालः तन्नाङ्गीचकार। राज्यपालः भजपा दलस्य संसदीयनेतारं यदियूरप्पावर्यं संसद्रचनायै आमन्त्रितवान्। अपि च भूरिपक्षस्थापनार्थं १५ दिवसस्यावकाशो/पि अदात्। एतद्विरुध्यैव न्यायालये व्यवहारमदात्।

     परन्तु राज्यपालस्य निर्णयः सर्वोच्चन्यायालयेन न निरस्तः। शुक्रवासरे व्यवहारं पुनरपि परिगणनाविषये आयाति। अस्मिन्नन्तरे अद्य प्रातः ९.३० वादने  यदियूरप्पा वर्यः कर्णाटकस्य मुख्यमन्त्रित्वेन शपथं स्वीकरिष्यति।

Leave a Reply

Your email address will not be published. Required fields are marked *