Category Archives: News Updates

अक्षरपुण्यमनुभोक्तुं विद्यालयं जिगमिषूणां सर्वेषां छात्राणां कृते नववाणयाः शुभाशयाः।

नूतनस्यैकस्य अध्ययनवर्षस्य जूण् प्रथमदिनाङ्के शुभारम्भः भवति। अक्षरपुण्यमनुभोक्तुं विद्यालयं जिगमिषूणां सर्वेषां छात्राणां कृते नववाणयाः शुभाशयाः। केरलराज्ये सामान्यशिक्षायाः प्राधान्यं महत्तरं भवति। प्रथमतः द्वादशकक्ष्यापर्यन्तं निश्शुल्का शिक्षा अत्र सर्वेभ्यः छात्रेभ्य दीयते। अपि चात्र सर्वे बालाः विद्यालयं गच्छन्ति तेषु ९८ प्रतिशतं छात्राः दशमकक्ष्यायां विजयिनश्च भवन्ति। शिशु केन्द्रितशिक्षायाः गुणफलमेवेदम्। अधुना राज्यस्थाः ४५००० कक्ष्याः उच्चसाङ्केतिककक्ष्यारूपेण परिणताः वर्तन्ते। तत्र दृश्यश्राव्यसौविध्यसमेताः गुणवती शिक्षा लभ्यते। पाठासूत्रणाय अध्यापकानां साहाय्यार्थं समग्रा नामकस्य जालपुटस्य उद्घाटनमद्य सम्पन्नमभवत्।

समग्राजालपुटस्य उद्घाटनम्।

इदं जालपुटं न केवलमध्यापकानां किन्तु छात्राणां कृते अपि उपकारप्रदं भवति। तदर्थं अस्योपयोगं यथाविधि कर्तुं अध्यापकाः छात्राश्च प्रभवेयुः इत्याशास्ये। अस्योपयोगात् कदापि पश्चात् गच्छेयुः।

संस्कृतच्छात्राणां कृते ये ये पठनविभवाः आवश्यकाः ते सर्वे नववाणीमध्य उपलभ्यन्ते। तादृशं विभवसम्पन्नं भवति नववाणी मोबैल् अप् जालपुटं च। छात्राः अध्यापकाश्च अस्याप्युपयोगं यथाकालं कृत्वा स्वकीयमभिप्रायं सूचयन्तु। तद्वत् न्यूनता अस्ति चेत् सापि सूचयन्तु।

उच्चसाङ्केतिक कक्ष्यायाः कृते अङ्कीयविभवैः सह समग्रा जालपुटम्। उद्घाटनं श्वः।

तिरुवनन्तपुरम्- उच्चसाङ्केतिकरूपेण परिवर्तमानानां ४५००० कक्ष्याप्रकोष्ठानां कृते अङ्कीयसाधनानाम् उपयोगः अत्यावश्यकः। तदर्थं समग्रा जालपुटं मोबैल् आप् च सज्जमभवत्।www.samagra.itschool.gov.in इति सङ्केते उपलभ्यमानायाः समग्रायाः साङ्केतिकसाहाय्यं परिपालनं च कैट् इति संस्थया विधास्यते। अक्कादमिक-सहयोगः राज्यशैक्षिकानुसन्धानप्रशिक्षण परिषदः उत्तरदायित्वमस्ति। कक्ष्याप्रचालनावलोकनं शिक्षा निदेशकः निर्वक्ष्यति। एतत्सम्बन्धीनि सर्वकारीणविज्ञप्तिः प्रकाशिता। समग्रायाः उपगमरेखा राज्य-पाठ्यपद्धति समित्या अङ्गीकृता।

     समग्रा जालपुटस्य औपचारिकम् उद्घाटनं गुरुवासरे प्रातः ११.३० वादने अनन्तपुरी टागोर् दृश्यशालायां शिक्षामन्त्रिणः रवीन्द्रनाथवर्यस्य आध्यक्ष्ये मुख्यमन्त्री पिणरायि विजयवर्यः निर्वक्ष्यति।

     पाठासूत्रणानि सज्जीकर्तुं समग्रा उपयोक्तुं शक्यते। एतदर्थं अयुतपरिमितानि एककासूत्रणानि १५००० परिमितानि सूक्ष्मतलासूत्रणानि च समग्रामध्ये उपलभ्यन्ते। एतत्सौविध्यमुपलब्धुम् अध्यापकैः समग्रा जालपुटे अङ्गत्वं स्वीकरणीयम्। इतःपर्यन्तं ११०००० अध्यापकाः अङ्गत्वं स्वीचक्रुः। अङ्कीयपाठ्यपुस्तकानां प्रश्नसञ्चयानां चित्राणां चलनचित्राणां च समग्रम् उपलब्धिस्थानं भवति समग्रा जालपुटम्। एतत् शिक्षामण्डले परिवर्तनस्य निदानं भविष्यति।

सी.बी.एस्.ई. दशमकक्ष्या परीक्षाफलम्, कोच्ची देशीया ४९९/५०० अङ्कैः अग्रे तिष्ठति।

दिल्ली- सी.बी.एस्.ई. संस्थया दशमकक्ष्या परीक्षाफलं प्रकाशितम्। चत्वारः ४९९/५०० अङ्कैः प्रथमश्रेणीं प्रापुः। कोच्ची वेण्णला देशस्था श्रीलक्ष्मी तेष्वेका केरलीया भवति। प्रकाश् मित्तल्, रिंसिन् अगर्वाल्, नन्दिनी गार्ग् इत्येते च समानश्रेणीं प्राप्तवन्तः। राष्ट्रे तिरुवनन्तपुरप्रान्तः विजयगणनासु आग्रे तिष्ठति।

केविन् वधम् – त्रयः आरक्षिबन्धने।

कोट्टयम् – नवदम्पत्योः पतिः केविनस्य वधविषये आरोपिताः त्रयः आरक्षिदलेन बन्धिताः। त्रिवर्षदीर्घप्रणयस्यानन्तरं विवाहितयोः दम्पत्योः विवाहानन्तरं केवलं दिनान्येव अतीतानि। केविन् अतितीव्रमर्द्दनेन मृत इति सूचनाः उपलभ्यन्ते। तस्य नेत्रद्वयं वधोन्मत्तैः निर्गलितमिति वार्ताहराः वदन्ति। तदन्तरे आरक्षिदलस्य अलंभावः अस्मिन् विषये अस्तीति दलस्य प्रमुखानां स्थानचलनं सूचयति।

केरलराज्यात् प्रापणीयानां फलानां शाकानां च समुद्रकुक्षिराष्ट्रेषु निरोधः।

तिरुवनन्तपुरम्- केरलराज्ये केषुचित् जनपदेषु निपा विषाणुबाधा निर्धारिता तद्वारा १४ जनाः मृताश्च। अस्मिन् साहचर्ये केरलराज्यात् प्रापितानां फलानां शाकानां च समुद्रकुक्षिराष्ट्रेषु निरोधः सञ्जातः। यावत्सूचनं केरलात् एतानि न आनीतानि इति यू.ए.इ. बहरिन् प्रभृतीनि राष्ट्राणि केन्द्रसर्वकारं प्रति सूचनामदुः। चर्मचटकभुक्तांशानां फलानां खादनेनैव निपा विषाणुः सम्क्रमिता इति प्रचारणमेव निरोधस्य हेतुः।

     कोच्ची देशात् प्रतिदिनं १५० टणमितानि शाकानि गल्फ् राष्ट्राणि नेष्यन्ति। कृषिशास्त्रज्ञाः परिशोध्य साक्ष्यपत्रमपि दत्वा एतानि कुवैट्, खतर्, य़ू.ए.ई. सौदी, ओमान्, बहरिन् प्रभृतीनि राष्ट्राणि नीयन्ते। अयं निरोधः केरलीयशाकवाणिज्यरङ्गे मान्द्यस्य हेतुः भविष्यतीति वणिजाः वदन्ति।

सी.बी.एस्.ई. द्वादशकक्ष्या परीक्षाफलं प्रकाशितम्। मेघ्ना श्रीवास्तवा प्रथमस्थानीया, तया प्राप्ता अङ्काः ४९९/५००. तिरुवनन्तपुरं दिल्ली चेन्नै प्रान्तेषु अधिकाः विजयिनः।

नवदिल्ली- सी.बी.एस्.ई. द्वादशकक्ष्या परीक्षाफलं प्रकाशितम्। विजयः आहत्य ८३.०१ शतमितम्। गसियाबाद् देशीया मेघ्ना श्रीवास्तवा प्रथमस्थानमवाप। ५०० अंङ्केषु ४९९ लब्ध्वा एव सा प्रथमा जाता। ५९८ अङ्केन गसियाबादस्था अनुष्का चन्द्रा द्वितीया अभवत्।

तिरुवनन्तपुरं ,चेन्नै, दिल्ली प्रान्तेष्वेव अधिकाः विजयिनः सन्ति। तिरिवनन्तपुरे ९८.३२, चेन्नै प्रान्ते ९३.८७, दिल्ल्यां ८९ शतमितं विजयिनः सन्ति। आहत्य ११८६३०६ छात्राः परीक्षां लिखितवन्तः। अर्थशास्त्रपरीक्षायाः प्रश्नपत्रं स्खलितमित्यतः पुनःपरीक्षा जाता आसीत्।

कुम्मनं राजशेखरः मिसोरामराज्यपालः।

तिरुवन्तपुरम् – भाजपा दलस्य केरलाध्यक्षः श्री कुम्मनं राजशेखरवर्यः मिसोरामराज्यस्य राज्यपालत्वेन नियुक्तः। इदं नियमनमधिकृत्य राष्ट्रपतेः अनुशासनम् अद्य राष्ट्रपतिकार्यालयेन प्रसिद्धीकृतम्। इदानीन्तन मिसोरामराज्यपालः निर्भय् शर्मा मेय् मासस्य २८ तमे विरामं प्राप्स्यति।

एकस्मिन् वर्षे एकं निर्वाचनम्, केन्द्रसर्वकाराय निर्वाचनायोगः विकल्पं निरदिशत्।

नवदिल्ली- विधानसभा लोकसभानिर्वाचनानि एकीभूय कर्तव्यानि इति निर्देशस्य विकल्परूपेण एकस्मिन् वर्षे एकं निर्वाचनमिति निर्देशं निर्वाचनायोगः उदनमयत्। सम्भूय निर्वाचनमित्याशयः राष्ट्रियनियमायोगेन निर्वाचनायोगः परिपृष्टः आसीत्। अस्य प्रतिवचनरूपेणैव निर्वाचनायोगस्य निर्देशः

    सर्वाणि निर्वाचनानि एकीभूय प्रचालनीयानि इत्याशयः निर्वाचनायोगः अनुसरति। परन्तु एतदर्थम् आर्थिकं नियमपरं च परिरक्षा केन्द्रेण देया। अधुना प्रत्येकं राज्ये विधानसभायाः कालपरिधिमनुसृत्यैव निर्वाचनमायोज्यते। कालपरिधिमवसीय षण्मासाभ्यन्तरे निर्वाचनं करणीयम् इति प्रजाप्रातिनिध्य नियमस्य १५ तमः खण्डः अनुशास्ति। अत्र परिवर्तनं कृत्वा एकस्मिन् वर्षे कालपरिधिमागतानां विधानसभानां निर्वाचनम् एकीभूय कर्तव्यमिति निर्वाचनायोगस्याशयः।

तूत्तुक्कुटिपत्तने पुनरपि भुषुण्डिप्रयोगः, एकः मृतः, अनेन मृतानां संख्या आहत्य १२ जाता।

तूत्तुक्कुटी- तूत्तुक्कुटी तीरनगरे स्टार्लैट् कोप्पर् प्लान्ट् संस्थां विरुध्य जनपदालयं प्रति पथसञ्चलनं कृतवतः ग्रामवासिनः प्रति रक्षिदलेन कृते भुषुण्डिप्रयोगे मृतानां संख्या १२ जाता। कुजवासरे कृते भुषुण्डिप्रयोगे ११ जनाः मारिताः आसन्। एषां मरणे प्रतिषिद्धान् ग्रामीणान् प्रति अद्य अण्णा नगरे पुनरपि भुषुण्डिप्रयोगे एकः मारितः पञ्च व्रणिताश्च अभवन्।व्रणितेषु त्रयः रक्षिपुरुषाः सन्ति।कालियप्पः इति २४वयस्कः युवा एव मारितः। अद्यत्वे भुषुण्डिप्रयोगे क्षुभिताः ग्रामीणाः पुलीस् यानद्वयम् अग्निसादकुर्वन्। एतस्यां घटनायां  महानटः कमलहासः प्रतिषेधेन समं रङ्गमागतः।

निपा विषाणुबाधा- राज्यस्थाः स्थितिगतयः नियन्त्रणविधेया। नवमाध्यमेषु कुप्रचारणम्, तत्र आशङ्का मास्तु- केन्द्रीय स्वास्थ्यमन्त्री।

कोषिक्कोट्- निपा विषाणुबाधा नाशङ्काविषयः इति केन्द्रीय स्वास्थ्यमन्त्री जे.पी. नद्दावर्यः। राज्यस्थाः स्थितिगतयः नियन्त्रणविधेया एव। केन्द्र-राज्य स्वास्थ्य विदग्दाः विशिष्टं सेवनं ददति इत्यपि स अवोचत्। केन्द्र- स्वास्थ्यमन्त्रालयसचिवः प्रवर्तनानि एकोपनीयानि। नवमाध्यमद्वारा प्रचलितानि कुप्रचारणानि निरसनीयानि।

     केरलराज्ये १२ जनानां निपा विषाणुबाधा सञ्जाता इति निर्धारितम्। तदन्तरे रोगबाधितेषु द्वौ जनावपि अद्य मृत्युमुपगतौ। अनेन इतः पर्यन्तम् अस्यां विषाणुबाधायां मृतानां संख्या अष्टौ जाता। रोगसंक्रमणं प्रतिरोद्धुं अतीव जाग्रतया निर्देशाः दत्ताः इति केरल स्वास्थ्यमन्त्री के.के. शैलजावर्या न्यगादीत्।