Daily Archives: September 20, 2025

दादा साहेब फाल्के पुरस्कारः मोहन् लाल् वर्याय समर्प्यते।

नवदिल्ली- २०२३ तमवर्षस्य दादा साहेब फाल्के पुरस्कारः कैरल्याः मोहन लाल् वर्याय दीयते। भारतीयचलनचित्रमण्डले दीयमानः परमोन्नतपुरस्कारो भवति फाल्के पुरस्कारः।

अभिनयः, चलच्चित्रनिर्माणम्, इत्यादिषु क्षेत्रेषु मोहन लालेन कृतं समग्रं योगदानं पुरस्कृत्य एव पुरस्कारप्राप्तिरिति वार्तावितरणमन्त्रालयेन सूचितम्। भरतपुरस्कारेणापि समादृतः अस्ति मोहनलालः। सैप्टम्बर् २५ तमे दिनाङ्के आयोज्यमाने राष्ट्रियपुरस्कारदानवेदिकायां फाल्के पुरस्कारमपि प्रदास्यति।