Monthly Archives: October 2025

तुलादौ वर्धते निशा (भागः ४१५) – 01-11-2025

EPISODE – 415

नूतना समस्या –

“तुलादौ वर्धते निशा”

प्रथमस्थानम्

“मोदन्तां सर्वलोकस्था :
स्वापप्रणयिनो जनाः ।
तेषां स्वप्नस्य लाभाय
तुलादौ वर्धते निशा” ॥

Narayanan Namboothiri

“अभिनन्दनानि”

 

नववाणी प्रशोभताम् (भागः ४१४) 25-10-2025

EPISODE – 414

नूतना समस्या-

“नववाणी प्रशोभताम्”

प्रथमस्थानम्

“മാധ്യമാഃ നൂതനാ:ശക്താ:
വൈജ്ഞാനിക സമാർജനേ
ഗൈർവ്വാണീ പോഷണേ ലീനാ
നവവാണീ പ്രശോഭതാം”

Narayanan N I

“अभिनन्दनानि”

 

दीपानामावली शुभा (भागः ४१३) 18-10-2025

EPISODE – 413

नूतना समस्या –

“दीपानामावली शुभा”

प्रथमस्थानम्

“प्रभापूर्णानि गेहानि
दीपैश्च भूषितानि च ।
आगता च यथाकालं
दीपानामावली शुभा” ॥

Sridevi

“अभिनन्दनानि”

 

अद्यतन वार्ताःl

🪴🪴🪴🪴🪴🪴
क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य दश ओक्टोबर् २०२५ (पंचविशत्यधिक द्विसहस्रम्) शुक्रवासरः । वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
🪴🪴🪴🪴🪴🪴

🪴रेल्वेस्थानकातः मेट्रोस्थानकपर्यन्तं आकाशसेतोः निर्माणकार्यं प्रवृत्तम्।

🪴अर्बुदरोगिणः चिकित्सार्थं सुपरफास्ट्-यानेषु अपि निःशुल्कयात्रा इति मन्त्री के. बी. गणेशकुमारः उक्तवान्।

🪴एल्.पी., यू.पी. प्रमुखशिक्षकपदेषु अध्यापकाः अनासक्ताः भवन्ति।

🪴केरलविद्यालय-ओलिम्पिक्-
प्रतियोगितायाम् अधिकतम-अङ्कान् प्राप्तं जनपदं मुख्यमन्त्रिणः सुवर्णट्रोफी प्राप्स्यति।

🪴भारतीयसंपन्नानां अधिकृतसूचिं “फोब्स्” प्रकाशितवान्।
अत्यन्तं संपन्नः मलयाली भूत्वा मूकॆश् अम्बानी नामकः सूचीमध्ये प्रथमे स्थाने अस्ति।

🪴कोंकणमार्गेण गच्छतां रेलयानानां नवः समयसारिणी प्रकाशिता।

🪴सेर्जियो गोरी नामकस्य अमेरिकायाः भारतराज्यदूतपदे नियुक्तिः सेनट्-सदस्यैः अनुमोदिता।

🪴अन्तर्राष्ट्रीय-अन्तरिक्ष स्थानकस्य कक्षात् अधः एकः विशालः क्षुद्रग्रहः अतिवर्तमान इति वार्ता।

🪴राज्यस्थेषु विविधेषु सार्वजनिक संस्थासु पदानां कृते भर्तीबोर्डेन विज्ञापनं प्रकाशितम्।

🪴राज्ये आगामिपञ्चदिनेषु अतिवृष्टेः सम्भावना अस्ति।

धन्यवादःk
शुभदिनम्

पुण्यकोटिः – SANSKRIT CARTOON CINEMA

अद्यतन वार्ताः

क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य विंशतिः आगस्त् २०२५ (पंचविशत्यधिक द्विसहस्रम्) बुधवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।

* प्रधानमन्त्रिणा नरेन्द्रेण मोदिना देशे ५७ नूतनानि केन्द्रीयविद्यालयानि स्थापयितुं निर्णयः कृतः।

* केरले चलचित्रपुरस्काराः २०२४ इत्यस्य प्रदर्शनाः सोमवासरे आरम्भः भविष्यति।

* दार्जिलिङ्गप्रदेशे भू–स्खलनकारणात् मुख्यमन्त्रिणी ममता बनर्जी उत्तरबङ्गं सन्दर्शयिष्यति।

*  शिक्षायाः, कौशलविकासस्य, उद्यमित्वस्य च प्रोत्साहनार्थं प्रधानमन्त्रिणा विविधानि योजनानि आरब्धानि।

* हिमवृष्ट्याः कारणेन एवरेस्टपर्वते उद्धारकार्यं प्रवृत्तम् अस्ति।

* २०२५–२६ अध्ययनवर्षे महाराष्ट्रराज्यस्य ३९४ विद्यालयेषु छात्राः न सन्तीति प्रतिवेदनम्।

* क्षेत्रीय रेलविभागेषु तथा उत्पादन एककेषु रेलनियुक्तिबोर्डेन नियुक्तिप्रक्रिया प्रवर्त्यते।

* जेईई, नीट इत्यादि प्रवेशनपरीक्षाणां कठिनतामानं केन्द्रसत्ता परीक्षिष्यते।

* भारतस्य सूचना तन्त्रक्षेत्रे रोजगारकर्षणं दृश्यते।

* २०२६ विश्वक्रीडायाः स्थानं सुरक्षा–संकटयुक्तनगरेभ्यः परिवर्त्येत” इति ग्रन्थस्य वक्तव्यं फिफा संस्थया निरस्तम्।

* नारी क्रिकेट् विश्वक्रीडायां भारतदेशः पाकिस्तानं पराजितवान्।

* औद्योगिकप्रशिक्षणविभागस्य आईटी–कोष्ठके डाटा–प्रवेशक–सञ्चालकः भवितुम् शक्यते।

धन्यवादः
शुभदिनम्

त्यक्तं शैत्यं हि रात्रिणा (भागः ४१२) 11-10-2025

EPISODE – 412

नूतना समस्या –

“त्यक्तं शैत्यं हि रात्रिणा”

प्रथमस्थानम्

“ജനാനാബാലവൃദ്ധം ഹാ!
ശീതോ നു ബാധതേ നനു
പരിക്രാമതി കാലേ തു
ത്യക്തം ശൈത്യം ഹി രാത്രിണാ”

Radhakrishnan

“അഭിനന്ദനങ്ങൾ”

 

 

स्तवविंशति:

विद्या चारभ्यते ह्यत्र दिनेस्मिन् मङ्गले शुभे।
वाणीस्तुतिपरै : कैश्चित् श्लोका मृतपल्लवैः ॥

श्वेतपद्मासने देवि ! सरस्वति नमोस्तुते ।
शुभ्रवस्रावृते धन्ये वन्दे त्वां कामरूपिणीम् ॥

कुन्देन्दुधवले दीप्ते पूर्णचन्द्रानने शुभे ।
कामाक्षि करुणापूर्णे वाणि !तुभ्यं नमो नमः ॥

वीणावादनसंलग्ने चारुशीले मनोहरे ।
सर्वसिद्धिप्रदे धन्ये वाणि तुभ्यं नमोस्तु ते ॥

सर्वपापहरे देवि सर्वदे ! करुणा परे ।
शब्दार्थसुखबोधाय देवि तुभ्यं नमो नमः ॥

हिमशैलसुते पुण्ये सर्वहृदय वासिनि !
साहित्यामृतकल्लोले ज्ञानवारिधि सन्निभे ॥

कामदे करुणानेत्रे कामरूपे च शैलजे ।
महाशक्ते महापुण्ये जयतात् वरवर्णिनि ॥

सत्यकण्ठप्रदानाय शीलस्य पालनाय च
सौम्ये देवि सदा रक्ष भद्रे पालय पाहि माम् ॥

चरन्तं चन्द्रिकास्वद्य पामरं कुक्कुटोपमम् ।
विज्ञानदीपसाह्येन मां रक्ष भुवनेश्वरि !!

सौवर्णभूषिते देवि सर्वरत्न प्रभूषिते ।
सर्वज्ञे मङ्गले धन्ये रक्ष मां जगदीश्वरि ॥

तिमिरान्धस्य नेत्रस्य यथा शस्त्र क्रिया वरा
तथा सरस्वती पूजा सूक्ष्मशब्दार्थ दर्शिका ॥

नवरात्रेषु तत्पूजा मुख्या च फल दायिका ।
सारस्वतस्य बोधाय पूजेयं कीर्तिता बुधैः ॥

कर्मसाफल्यलामाय . शब्दार्थ बोधनाय च
वन्दे त्वां वरदे धन्ये सुन्दरे हिम शैलेजे ॥

साहित्यरसिके देवि सङ्गीतप्रवरे शुभे
जगताञ्च समस्तानां कुरुतात् मङ्गलं शुभे ॥

देव्यानुग्रहमात्रेण पामर : पण्डिता यते
उन्मीलयति चक्षूंषि देवी भक्त परायणा ॥

साहित्यं चाथ सङ्गीतं वाणीदेण्याः स्तनद्वयम् ।
चिन्तामधुरञ्चैकं चान्यच्छ्रवण चोदकम् ॥

दुष्टनिग्रहलाभाय दुर्गारूप मुपाश्रिते ।
दुष्टान् सर्वांश्च संहत्य शिष्टान् रक्ष महाभुजे ॥

अधर्मस्य निरासाय ह्युग्ररूपं समाश्रिते
धर्मसंस्थापिके देवि ! वन्दे त्वामुग्र मूर्त्तिके ॥

मकुटाभे महामन्त्रे नवलावण्य संयुते ।
साकारे करुणानेत्रे सर्वपापहरे शुभे ॥

कर्मसाफल्यलाभाय सर्वमर्त्य हिताय च
देवि तुभ्यं नमस्कृत्य विद्या चारभ्यते मया ॥

Vijayan V  Pattambi