युडयस् प्लस् प्रतिवेदने केरलम् अग्रिमस्थाने – शिक्षामन्त्री शिवन् कुट्टिवर्यः।

तिरुवनन्तपुरम्- केन्द्रीयशिक्षामन्त्रालयस्य युडयस् प्लस् प्रतिवेदने केरलस्य अग्रिमस्थानम् इति राज्य शिक्षाविभागमन्त्री वि शिवन् कुट्टि वर्यः असूचयत्। समग्रशिक्षा इति केन्द्रीयाविष्कृतपद्धत्याः सौविध्यमुपयुज्य केन्द्रसर्वकारस्य अधितान्त्रिकवार्ताहरण- संविधानरूपे युडयस्प्लस् इति पोर्टल् मध्ये प्रकाशिते वार्षिके प्रतिवेदने २०२४-२५ तमे वर्षे शिक्षायाः विविधासु मेखलासु देशीयमाध्यादपि उत्कृष्टं प्रकटनमेव केरलेन प्रदर्शितम्।

अकादमिकावस्था, छात्राणाम् अध्ययनानुस्यूतता आधारसौविध्यम्, लिङ्गनीतिः इत्यादिमेखलास्वेव केरलस्य प्रथमस्थानम्। प्रथमे वर्गे प्रविष्टेष छात्रेषु ९९.५ प्रतिशतं छात्राः दशमवर्गं यावत् अध्ययनं कुर्वन्ति। ९० प्रतिशतं छात्राः उच्चतरविद्यालयेष्वपि दृश्यन्ते।

देशीयस्तरे प्रथमवर्गे प्रविष्टेषु छात्रेषु ६२.९ प्रतिशतं छात्राः एव दशमवर्गं यावत् अध्ययनं कुर्वन्ति। एषु केवलं ४७ प्रतिशतं छात्राः एव उच्चतरवर्गं प्रविशन्ति।

अकागमिकरंगे अपि इतराणि राज्यान्यपेक्ष्य केरलमेव अग्रे सरन्ति। संगणकमुपयुज्य अध्ययने केरलम् इतराणि राज्यानि बहुदूरं पश्चात्करोति।

Leave a Reply

Your email address will not be published. Required fields are marked *