असम-राज्यस्य प्रकृष्टशिल्पी जुबीन गर्गः सिङ्गापुर-नगरे स्कूबा डैविङ्ग-दुर्घटनायाः कारणात् मृतः
तत्र १९ सितम्बर, २०२५ आङ्ग्ले दिनाङ्के असमराज्यस्य उज्ज्वलनक्षत्रं, प्रकृष्टशिल्पी सांस्कृतिकप्रतीकः, सर्वाकृष्टगुणैर्मुग्धः, विश्वप्रसिद्धः, सर्वजनहृदयजेता, निरहङ्कारः , अद्वितीयः सुकण्ठालङ्कृतः च जुबीन गर्ग इत्येषः सिङ्गापुर-नगरे स्कूबा डैविङ्ग दुर्घटनायाः कारणान्मृतः। प्रतिवेदनानुसारं
ज्ञायते यत् सिङ्गापुर्-देशस्य आरक्षकाः अचेतनावस्थायां समुद्रात् तं महानुभवं निष्कासितवन्तः, ततः स्थानीयचिकित्सालयं प्रति नीतवन्तः। परन्तु परिचर्यायां सत्यपि न जीवयितुं समर्थाः चिकित्सकाः। जुबीन गार्ग इत्येषः असमीयासमाजजीवनोत्सर्गः नार्थ ईस्ट् फ़ेस्टिवल् इत्यस्मिन् भागं ग्रहणाय सिङ्गापुर्-देशं गतवान् , यत्र पूर्वोत्तरभारतवर्षं प्रतिस्थापयितुं बद्धपरिपक्क आसीत्।असमीयाभाषायां असमीयासमाजजीवनोत्कर्षणाय प्रत्येकपरिस्थितिमूलकानि गीतानि गीतवान् लिखितवान् च। न केवलं तावदेव असौ चत्वारिंशत्भाषासु प्रायशः अष्टात्रिंशदधिकसहस्रं गीतं गीतवन्तः । षडाधिकद्विसहस्र तमे वर्षे गैंग्स्टर इति चलचित्रस्य “या अली” इति गीतेन जुबीन गर्ग इत्येषः बालिवुड मध्ये प्रसिद्धिम् अवाप्नोत् ।संस्कृतभाषायामपि अनेन “मधुदानवदारणदेववरं….” इत्यादीनां गीतानां कण्ठदानमकरोत्। अद्य सर्वेऽपि असमवासिनः सहैव भारतवर्षस्य प्रधानमन्त्रिणः, असमप्रदेशस्य मुख्यमन्त्रिणः, अन्ये सर्वे राजनेतारः, भारतवर्षस्य संगीतज्ञाश्च सर्वेऽपि तेभ्यः श्रद्धाञ्जलीं प्रदाय शोकेन पीडिताः जाताः।भाषाभावो वर्तते तस्य गुणवर्णने- असमस्य संवेगः, सत्ता च आसीदेषः महानुभवः ‘जुबीन दा’ ।
*वार्तावाहकः-*
धरणी शर्मा
शोधच्छात्रः, संस्कृतवेदाध्ययनविभागः,
कुमारभास्करवर्मसंस्कृत-पुरातनाध्ययनविश्वविद्यालयः
दिनाङ्कः- २१-०९-२०२५













Leave a Reply