Daily Archives: July 29, 2025

मासो∫यं शोभतेतराम् (भागः ४०३) 02-08-2025

EPISODE – 403

नूतना समस्या –

“मासो∫यं शोभतेतराम्”

പ്രഥമസ്ഥാനം

“ആർദ്രതാം യാന്തി കേദാരാഃ
കൂപാശ്ച ജലനിർഭരാഃ
ഹരിതാഭാ ച സർവത്ര
മാസോഽയം ശോഭതേതരാം

Atheetha

“അഭിനന്ദനങ്ങൾ”

 

अद्यतन वार्ताःl

♦️♦️♦️♦️♦️♦️♦️
क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य नवविंशतिः जूलाइ २०२५ (पंचविशत्यधिक द्विसहस्रम्) मंगलवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
♦️♦️♦️♦️♦️♦️♦️

♦️आरोग्यमन्त्री श्रीमती वीणा जॉर्ज् उक्तवती यत् इ-स्वास्थ्य-व्यवस्थया पङ्क्तिं विना स्थित्वा ओपी-पत्रं प्राप्यते।

♦️ गर्भाशय-अर्बुद-रोग-प्रतिबन्धाय राज्ये प्लस्-वन्, प्लस्-टू पठन्तीनां विद्यार्थिनीनां कृते एच्.पी.वी. वाक्सिनेषन् आरभ्यते इति स्वास्थ्य-मन्त्री उक्तवती।

♦️पञ्चायत्-सभापतिपदं वहन्तः महाविद्यालय-शिक्षकाः वेतनं विना विशेष-अवकाशं , वृद्धिवेतनं च लब्धुं अर्हाः सन्ति इति उच्चन्यायालयेन निश्चितम्।

♦️ तत्काल-टिकट्-बुकिङ् जनप्रियं जातम् इति रेलयात्रायाः विषये वक्तव्यम्।

♦️प्रवृत्तिदिनेषु याः पी.एस्.सी. परीक्षाः सम्पद्यन्ते, तासां समय-क्रमणम् सप्तम्बर्-मासस्य प्रथम-दिनाङ्कतः प्रवर्तिष्यते।

♦️ तैलमूल्यं तीव्रं जातम्, अनेन कारणेन केरलीयाः चिंतिताः सन्ति।

♦️सौर्य-ऊर्जाया: प्रोत्साहनं केन्द्र-राज्यसर्वकाराभ्यां यदा प्रदत्तं, तदा के.एस्.ई.बी. तेन नाम्ना विद्युत्शुल्कं वर्धयितुं यत्नं करोति।

♦️ विंशतिःसहस्रम् रूप्यकाणाम् अतीत्य ये व्यवहाराः सन्ति, ते खातापथेनैव करणीयाः इति उच्चन्यायालयः निर्णीतवान्।

♦️केरल-केन्द्र-विश्वविद्यालये कासरगोड् इत्यस्मिन् संयुक्त-शिक्षक-शिक्षण-कार्यक्रमस्य पञ्जीकरणम् एकत्रिंशतितम-दिनाङ्कपर्यन्तं स्यातिति निर्दिष्टम्।

♦️विदेशीजनाः स्थावर-संपत्तिं प्रत्यक्षतः क्रेतुं शक्नुवन्ति वा इति विषये सौदी-प्राधिकरणेन विवरणं प्रकाशितम्।

♦️ प्रवासीजनानाम् अहितकरं विधाय स्वदेशीकरणं सौदी-अरबिया राष्ट्रे कठिनं जातम्।

धन्यवादः
शुभदिनम्