समरनायकः स्मृतिपथमगात्। वि एस् अच्युतानन्दः दिवंगतः।

अनन्तपुरी – केरलस्य भूतपूर्वमुख्यमन्त्री तथा भारतीयमार्किस्वादी साम्यवादीदलस्य समुन्नतनेता वि एस् अच्युतानन्दः अद्य दिवं गतः। स१०१ वयस्कः आसीत्। किञ्चित् कालम् अनन्तपुर्यां एस् यू टि चिकित्सलये परिचर्यायामासीत्।
भारते साम्यवादीदलस्य स्थापकनेतृषु अग्रेसरः आसीत् अयं महाशयः। केरलेषु मुख्यमन्त्रिपदे, विपक्षनेतृपदे, विधानसभासदस्यपदे च विराजितः अयं जनप्रियनेता इति स्थानमवाप। मार्क्स्वादीसाम्यवादीदलस्य पोलिट् ब्यूरो इति उन्नतसमित्याम् अङ्गत्वेन बहुवर्षं प्रवर्तितः। स्वातन्त्र्यसमरे, कृषकाणां समरे च तस्य योगदानं महत्तरमासीत्।

     बहुवर्षं यावत् कारागृहवासम् अनेन अनुभूतम्। सर् सि-पि वर्यस्य रक्षिभटैः अयं मृतप्रायं यावत् मर्दित‌ः। आपातस्थितेः घोषणेन स कारायां बद्धः बहुधा पीडितश्चासीत्।

       अस्य भौतिकं देहं सामाजिकान्त्योपचारार्थं ‘ए के जि मन्दिरम्’ इति दलास्थाने विन्यसितम्। तस्य अन्त्यदर्शनार्थं जनसहस्राणि तत्र प्रतीक्षन्ते। भौतिकसंस्कारकर्माणि बुधवासरे आलप्पुष़ायां स्वभवनाङ्कणे सम्पत्स्यन्ते। वि एस् वर्यं प्रति आदरसूचकेन श्वः सामाजिकविरामदिनत्वेन सर्वकारेण विज्ञापितम्।

Leave a Reply

Your email address will not be published. Required fields are marked *