Monthly Archives: July 2025
अद्यतन वार्ताः 11-07-2025
🎀🎀🎀🎀🎀🎀🎀
क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य एकादश जूलाइ २०२५ (पंचविशत्यधिक द्विसहस्रम्) शुक्रवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
🎀🎀🎀🎀🎀🎀🎀
🕚भारतीयः बहिराकाश-सञ्चारी शुम्भांशु शुक्लः सम्मिल्य आक्सियम्-४ बहिराकाश-दौत्यं समापितम्।
🕚ओणविपननाय यः नारिकेलः कोप्रा च सञ्चयनम् अस्ति, तस्य लाभः कृषकानां लघुव्यापाऱिणां च न लभ्यते इति शिकायत्।
🕚 तैलस्य मूल्ये उत्क्रान्ते सति, बी.पी.एल्. कार्डधारिणां कृते केरफेड् नाम संस्थया अनुदानरूपेण सहाय्यं चिन्त्यते।
🕚एतस्य वर्षस्य अन्ते भारतस्य केचन दूरवाणी सेवाप्रदातारः चलदूरवाणी-शुल्कवृद्धिं करिष्यन्ति इति वार्ताः।
🕚 सउदी एअर्-लाइन्स् तथा आकाश एअर् विमानकम्पन्यौ कोषिक्कोट-विमाननिस्थानकं प्रति सेवां प्रारब्धे।
🕚 कोषिक्कोट्–पालक्काट्-जङ्क्शन् विशेष-एक्स्प्रेस्, पालक्काट्-जङ्क्शन्–कण्णूर् विशेष-एक्स्प्रेस् इत्येतौ रेलयानौ अद्य आरभ्य प्रतिदिनं गमिष्यतः।
🕚श्रेणीसूची प्रॉस्पेक्टसस्य परिष्करणं च उच्चन्यायालयेन रद्दं कृतम्, येन अभियान्त्रिकी प्रवेशप्रक्रियायाः अनिश्चिता जाता।
🕚ब्रिक्स्-देशेषु डोनाल्ड् ट्रम्पस्य अधिकभीषणां निराकृत्य ब्रसील्-राष्ट्रपतिना प्रत्युत्तरं दत्तम्।
🕚कोषिक्कोट्-देशीयः अब्दुल्रहीमः इत्यस्य विषये अपील्-न्यायालयेन विंशति-वर्षपर्यन्तं कारावासदण्डः दत्तः।
धन्यवादः
शुभदिनम्
कालो गच्छति गच्छति (भागः ४००) 12-07-2025
EPISODE – 400
नूतना समस्या –
“कालो गच्छति गच्छति”
प्रथमस्थानम्
“लालयन् पवनैः शीतैः
जलवर्षैश्च स्नापयन् ।
भोजयन् सुफलैर्नित्यं
कालो गच्छति गच्छति ॥“
Vijayan V Pattambi
“अभिनन्दनानि”
Std-5 – Video classes
राष्ट्रिय उपलब्धिसर्वेक्षणे (National Achievement Survey) केरलस्य उत्कृष्टता।
तिरुवनन्तपुरम्- केन्द्रीय शिक्षामन्त्रालयेन गतवर्षे आयोजिते राष्ट्रिय-उपलब्धिसर्वेक्षणे देशीयतले केरलम् उत्कृष्टं स्थानमलभत। एतदस्माकं सार्वजनीनशिक्षामण्डलस्य औत्कृष्ट्यं तथा शिक्षकाणां छात्राणां च अर्पणबोधं च सूचयति इति केरलीयशिक्षाविभागमन्त्री श्री वि शिवन् कुट्टि वर्यः अवोचत्।
इतः पूर्वं २०२१ तमे वर्षे एव एतादशम् अधिगमसर्वेक्षणं प्राचलत्। तदानीं तृतीय-पञ्चम-अष्टमकक्ष्यासु एव सर्वेक्षणमभवत्। २०२४ तमे वर्षे तृतीय-षष्ट-नवमकक्ष्यासु छात्राणाम् अधिगमस्य मूल्याङ्कनं कर्तुं भाषा, गणितम् पर्यावरणपठनम्, शास्त्रम्, सामूह्यशास्त्रम् इत्यादिषु विषयेषु सर्वेक्षणम् आयोजितम्। एतस्मिन् सर्वेक्षणे एव केरलस्य औत्कृष्ट्यम् प्रकाशितम्।
नृत्तमेतन्मनोहरम् (भागः ३९९) 05-07-2025
EPISODE – 399
नूतना समस्या –
“नृत्तमेतन्मनोहरम्”
പ്രഥമസ്ഥാനം
“ഛാത്രാംസ്തു സുപഥം നേതും
പാഠശാലാസു കേരളേ
സുംബാഖ്യം ഹാ! സുവിഖ്യാതം
നൃത്തമേതന്മനോഹരം”
Aparna
“അഭിനന്ദനങ്ങൾ”













