Daily Archives: December 22, 2023

भारतीय-मल्लयुद्धसङ्घस्य अध्यक्षः ब्रिज्भूषणस्य विश्वस्तः, साक्षी मालिक् मल्लयुद्धात् विरम्य सास्रं प्रतिनिवृत्ता।

नवदिल्ली- ओलिम्पिक्स् क्रीडायां पतकजेत्री साक्षी मालिक् वर्या मल्लयुद्धक्रीडाम् अत्यजत्। दिल्ल्यां वार्ताहरसम्मेलने एव सा एनं वैकारिकप्रख्यापनम् अकरोत्। ब्रिज् भूषण् शरण् सिंहस्य विश्वस्तः तथा तस्य व्यवसायसहयोगी च सञ्जयसिंहः गतदिने भारतीय मल्लयुद्धसङ्घस्य अध्यक्षरूपेण चितः आसीत्। अस्यां घटनायां निराशां सूचयन्ती सा मल्लयुद्धात् विरमणम् असूचयत्। वार्ताहरसम्मेलनानन्तरं स्वकीयां पादरक्षां निष्कास्य सा सास्रं प्रतिनिवृत्ता।

४० दिनानि यावत् वीथ्यामेव वयम् अस्वपिम। राष्ट्रस्य विविधेभ्यः भागेभ्यः जनाः अस्मान् प्राचोदयन्।ब्रिज्भूषणस्य पारिवारिकान् विश्वस्तान् वा सङ्घाध्यक्षपदव्यां न परिगणयिष्यतीति कायिकक्रीडा-मन्त्रालयः सूचयति स्म। परन्तु अधुना सा सूचना न पालिता। अतः विरम्यते इति साक्षी मालिक् उक्तवती।