Monthly Archives: November 2023

अभिगेल् सारा रेजि नामिकां बालिकाम् अन्ववागच्छत्। कोल्लम् आश्रामं वेदिकायाम् परित्यक्तरूपेण सा दृष्टा।

कोल्लम्- निद्रां त्यक्त्वा केरलेन प्रतिपालिता सा वार्ता समागता। कोल्लम् आयूर् प्रदेशात् विद्रोहिभिः अपनीता अभिगेल् सारा रेजी नामिका बालिका कोल्लम् आश्रामं वेदिकातः संदृष्टा। कुजवासरे मध्याह्ने एव सा परित्यक्तरूपेण तत्र दृष्टा। आरक्षिभिः सा गृहं नीता। २० होरापर्यन्तं मार्गणस्य शुभान्त्यमासीदयं प्रक्रमः।

कामार्तो दुःखमश्नुते (भागः ३१५) 02-12-2023

EPISODE – 315

नूतना समस्या –

“कामार्तो दुःखमश्नुते”

പ്രഥമസ്ഥാനം

“കാമേനൈവ മനുഷ്യാണാം
മനസ്ഥൈര്യം വിനശ്യതി
സ്ഥൈര്യശോഷണഹേതുത്വാത്
കാമാർതോ ദുഃഖമശ്നുതേ”

Bhaskaran N K

“അഭിനന്ദനങ്ങൾ”

 

 

केरलेषु कुसाट् इति अभियान्त्रिकविश्वविद्यालये दुर्घटना- चत्वारः मृताः।

कोच्ची- कलमश्शेरिदेशे कुसाट् परिसरे अभियान्त्रिकमहेत्सववेलायां दुर्घटना सञ्जाता। अभियान्त्रिकपठनविभागेन आयोजितस्य संगीतकार्यक्रमस्य चालनवेलायां वृष्टिः सञ्जाता। तदानीं बहिः सन्तिष्ठमानाः छात्राः सम्भूय सभागारं प्रवेष्टुमुद्यताः आभवन्। तस्मिन् महासम्मर्दे एव दुर्घटना जाता।

अपधाते चत्वारः छात्राः मृता। तेषु द्वे छात्रे भवतः। मृताः सर्वे तत्रैव अभियान्त्रिकविभागे अध्येतारः भवन्ति।

क्षमायुक्तस्सदा जयेत् (भागः ३१४) 25-11-2023

EPISODE – 314

नूतना समस्या –

“क्षमायुक्तस्सदा जयेत्”

പ്രഥമസ്ഥാനം

“വിദ്വേഷ വിഷ സർപംതം
സമീപേതു സമാഗതം
തരസാ ശമനം കൃത്വാ
ക്ഷമാ യുക്തസ്സദാ ജയേത്

Narayanan N

“അഭിനന്ദനങ്ങൾ”

 

शिशवः चित्तहारकाः (भागः ३१३) 18-11-2023

EPISODE – 113

नूतना समस्या –

“शिशवः चित्तहारकाः”

പ്രഥമസ്ഥാനം

“നിർമലേന ച ചിത്തേന
നിഷ്കളങ്കസ്മിതേന ച
നിർവ്യാജവചസാ ചൈവ
ശിശവശ്ചിത്ത ഹാരകാः”

Atheetha

“അഭിനന്ദനങ്ങൾ”

 

 

‘केरलीयं’ मनोहरम् (भागः २१२) 11-11-2023

EPISODE – 211

नूतना समस्या –

‘केरलीयं’ मनोहरम्

प्रथमस्थानम्।

“कमनीयैः कलारूपै :
चलच्चित्रैर्मनोहरै : ।
सर्वकारप्रयुक्तं तत्
‘केरलीयं ‘ मनोहरम् “॥

Sridevi

“അഭിനന്ദനങ്ങൾ”

केरलं मनोहरम्|

केरलं मनोहरं
चारूवृक्षपूरितम्
हारकं चित्तपद्मनां
भूरिजननिवासिनाम्।

हरितशाद्वलैर्युतं
परित :सागरैर्भरम् ।
केरकेदा२सुन्दरं
वीरजनवर्धकम् ॥

‘ केरल ‘ नामैव सम्पन्नं
केरवृक्षकजालकैं : I
कार्यमेव वन्दनं तस्मै
केरलाय चाहर्निशम् ॥

वन्दनीयमुनिभिः
शङ्करैश्च कविभिः ।
सन्ततं सुसेवितं
सुन्दरं वर्णोद्यानम् ॥

 

Vijayan V Pattambi

२०२३ वर्षस्य केरलपुरस्कारान् अघोषयत्।

तिरुवनन्तपुरम्- विविधेषु रङ्गेषु समग्रयोगदानं कृतवतां महारथानां कृते राज्यसर्वकारेण दीयमानाः परमोन्नतपुरस्काराः भवन्ति केरलपुरस्काराः। अस्य वर्षस्य केरलपुरस्काराः घोषिताः।

अस्मिन् वर्षे *केरलज्योतिपुरस्कारं* साहित्यरङ्गस्य समग्रयोगदानमभिलक्ष्य टि पद्मनाभन् वर्याय दास्यति।

सामाजिकसेवा, गृहसेवा रङ्गे समग्रयोगदानार्थं दीयमानाय *केरलप्रभा* पुरस्काराय न्यायाधीश फात्तिमा बीवी तथा कलारङ्गे प्रसिद्धा सूर्या कृष्णमूर्ती च अर्हावभवताम्।

सामाजिकरङ्गेषु समग्रयोगदानाय पुनलूर् सोमराजन्, स्स्थ्यरङ्गे समग्रयोगदानाय डो- वी-पी- गङ्गाधरन्, वाणिज्यरङ्गे समग्रयोगदानाय रवि डि सि, गृहसेवा विभागे समग्रयोगदानाय के-एंृ चन्द्रशेखर्, सङ्गीकविभागे रमेश् नारायण् इत्येते *केरलश्री* पुरस्काराय अर्हाः अभवन्।

अडूर् गोपालकृष्णन्, के जयकुमार्, डो-जोर्ज् ओणक्कूर् इत्येते आसन् पुरस्कारनिर्णेतारः।

धन्यं मामककेरलम् (भागः ३११) 04-11-2023

EPISODE – 311

नूतना समस्या –

“धन्यं मामककेरलम्”

പ്രഥമസ്ഥാനം

“നിബിഡം കേരവൃക്ഷേൈശ്ച
സസ്യശ്യാമളകോമളം
ലാളിതം ഹാ നിളാനദ്യാ
ധന്യം മാമകകേരളം”

Bhaskaran N K

“അഭിനന്ദനങ്ങൾ”