Daily Archives: November 2, 2023

केरलं मनोहरम्|

केरलं मनोहरं
चारूवृक्षपूरितम्
हारकं चित्तपद्मनां
भूरिजननिवासिनाम्।

हरितशाद्वलैर्युतं
परित :सागरैर्भरम् ।
केरकेदा२सुन्दरं
वीरजनवर्धकम् ॥

‘ केरल ‘ नामैव सम्पन्नं
केरवृक्षकजालकैं : I
कार्यमेव वन्दनं तस्मै
केरलाय चाहर्निशम् ॥

वन्दनीयमुनिभिः
शङ्करैश्च कविभिः ।
सन्ततं सुसेवितं
सुन्दरं वर्णोद्यानम् ॥

 

Vijayan V Pattambi

२०२३ वर्षस्य केरलपुरस्कारान् अघोषयत्।

तिरुवनन्तपुरम्- विविधेषु रङ्गेषु समग्रयोगदानं कृतवतां महारथानां कृते राज्यसर्वकारेण दीयमानाः परमोन्नतपुरस्काराः भवन्ति केरलपुरस्काराः। अस्य वर्षस्य केरलपुरस्काराः घोषिताः।

अस्मिन् वर्षे *केरलज्योतिपुरस्कारं* साहित्यरङ्गस्य समग्रयोगदानमभिलक्ष्य टि पद्मनाभन् वर्याय दास्यति।

सामाजिकसेवा, गृहसेवा रङ्गे समग्रयोगदानार्थं दीयमानाय *केरलप्रभा* पुरस्काराय न्यायाधीश फात्तिमा बीवी तथा कलारङ्गे प्रसिद्धा सूर्या कृष्णमूर्ती च अर्हावभवताम्।

सामाजिकरङ्गेषु समग्रयोगदानाय पुनलूर् सोमराजन्, स्स्थ्यरङ्गे समग्रयोगदानाय डो- वी-पी- गङ्गाधरन्, वाणिज्यरङ्गे समग्रयोगदानाय रवि डि सि, गृहसेवा विभागे समग्रयोगदानाय के-एंृ चन्द्रशेखर्, सङ्गीकविभागे रमेश् नारायण् इत्येते *केरलश्री* पुरस्काराय अर्हाः अभवन्।

अडूर् गोपालकृष्णन्, के जयकुमार्, डो-जोर्ज् ओणक्कूर् इत्येते आसन् पुरस्कारनिर्णेतारः।