Daily Archives: October 21, 2023

गगनयान्- क्रू एस्केप् परीक्षणं विजयमभवत्, पेटकं सुरक्षितरूपेण सागरे अवतारितम्।

श्रीहरिक्कोट्टा-मानवं बहिराकाशं प्रेषयितुं भारतस्य गगनयान् दौत्यस्य भागत्वेन क्रू एस्केप् परीक्षणविक्षेपणं विजयकरमभवत्। श्रीहरिक्कोट्टा सतीष् धवान् विक्षेपणकेन्द्रात् ओक्टोबर् २१ तमे दिनाङ्के प्रातः दशवादने आसीत् विक्षेपणम्।

प्रातः अष्टवादने निश्चितमासीद् विक्षेपणम्। परन्तु पर्यावरणस्थितिः प्रतिकूला जाता। पुनः ४-४५ वादने निश्चितमपि प्रश्नपरिहाराभावात् उपेक्षितम्। अन्ते दशवादने विक्षेपणं जातम्।

विक्षेपणानन्तरं १-६६ निमेषान्तरे १७ किलोमीट्टर् उन्नतं प्राप्तात् विक्षेपणपेटकात् क्रू मोड्यूल् पृथक् भूय पारच्यूट् साहाय्येन वंगसमुद्रे पतितम्।

गगनयान् दौत्ये अतिप्रधानं परीक्षणमेवैतत्। पराजयमपहातुं प्रथमं परीक्षणघट्टं भवतीदम्। यदि दौत्यं पराजयते तर्हि रक्षाप्रवर्तनं कथमिति अवगन्तुम् परीक्षणमिदम् उपकरोति।