Daily Archives: October 4, 2023

सूक्ष्मप्रकाशस्पन्दनं संस्रष्टुं पन्थानमवगच्छतां त्रीणां भौतिकशास्त्रज्ञानां कृते नोबल् पुरस्कारः।

स्टोक् होम्- इलक्ट्रोण् विषये सूक्ष्मपठनं कृतवन्तः त्रयः शास्त्रज्ञाः नोबल् पुरस्काराय अर्हाः अभवन्। पियर् अगस्टिनि(अमेरिका) फेरन् क्रौस्(जर्मनी) आन् लूयर्(स्वीडन्) इत्येतेभ्यः एव पुरस्कारं प्रददाति। प्रकाशस्य सूक्ष्मस्पन्दनं संस्रष्टुं सहायकानि परीक्षणानि रूपवत्कृतवन्तः इत्यतः एते पुरस्काराय अर्हतामवापुः।

अणोरन्तरस्थान् सूक्ष्मकणानधिकृत्य एतेषामनुसन्धानं इलक्ट्रोण्लोकमवगन्तुं नूतनसङ्केतरूपेण मानवराशेः सहायकं भविता इति कुजवासरे समायोजिते पुरस्कारप्रख्यापने रोयल् स्वीडिष् अक्कादमि आफ् सयन्सस् असूचयत्। आट्टोफिसिक्स् इति पठनशाखायाम् अनुसन्धानमिदं निर्णायकं स्यात्।