कैरलीचलच्चित्रनिदेशकः सिद्दीक् वर्यः निरगात्।

कोच्ची- विख्यातः कैरलीचलच्चित्रनिदेशकः सिद्दीक् वर्यः निर्यातः। कोच्ची अमृता चिकित्सालये आसीत्तस्य मृत्युः। यकृत् पीडया दूयमानः सः हृदयाघातकारणेन गतदिने चिकित्सालयं प्रवेशितःआसीत्।
कैरलीचलच्चित्ररंगे हास्यरसस्य किमपि गौरवतरं स्थानम् अनेन कल्पितम्। चलच्चित्रस्य कृते कथा, पटकथा, सम्भाषणं निदेशनं च अनेनैकेनैव विहितमासीत्। न केवलं कैरलीचलचित्रे अपि तु तमिल् हिन्दी चलचित्रमण्डलेष्व अस्य योगदानमस्ति। पूर्वं लाल् महोदयेन सहैव निदेशनरंगे प्रावर्तयत्। पश्चत् तौ पृथक् निदेशनं अवहताम्।
अभिवादन