Monthly Archives: April 2023

वन्दे भारत् समागतम् (भागः २८४) 29-04-2023

EPISODE – 284

नूतना समस्या –

“वन्दे भारत् समागतम्”

പ്രഥമസ്ഥാനം

“यात्राक्लेशस्य नाशय
केरलेषु विना भयम् ।
सर्वका२समानीतं
वन्दे भारत् समागतम्” ॥

Narayanan Namboothiri

“അഭിനന്ദനങ്ങൾ”

पाठ्यपुस्तकात् परिणामसिद्धान्तोपि निष्कासितः।

नवदिल्ली- राष्ट्रिय-शैक्षिकानुसन्धान-प्रशिक्षणपरिषदः(एन्-सि-इ-आर्-टि) पाठ्यक्रमपरिष्करणस्य भागत्वेन दशमकक्ष्यायाः शास्त्रपाठ्यपुस्तकात् डार्विनस्य परिणामसिद्धान्तः निष्कासितः इत्यतः शास्त्ररङ्गे महान् प्रतिषेधः सञ्जातः।

डार्विन् सिद्धान्तस्य निष्कासने ब्रेक् त्रू सयन्स् इत्यस्य नेतृत्वे शास्त्रज्ञाः अध्यापकाश्च प्रतिषेधम् आशङ्कां च सूचितवन्तः। राष्ट्रे शास्त्रज्ञाः अध्यापकाः शास्त्राध्यापकाः प्रभृतयः १८०० जनाः सर्वकाराय अनावृतं लेखं प्रेषितवन्तः। डार्विन् परिणामसिद्धान्तस्य पाठनम् अनुवर्तनीयम् इत्यपि ते असूचयन्।

स एवास्मत्सुहृज्जनः (भागः २८३) 22-04-2023

EPISODE – 283

नूतना समस्या –

“स एवास्मत्सुहृज्जनः”

പ്രഥമസ്ഥാനം

“ഫലേച്ഛാന്തു വിനാ യസ്തു
നിഷ്കാമകർമ കുർവതേ
സത്സങ്ഗം കാംക്ഷതേ നിത്യം
സ ഏവാസ്മത്സുഹൃജ്ജനഃ”

Swathi Kishore

“അഭിനന്ദനങ്ങൾ”

 

जनेभ्यो हि हितं हितम् (भागः २८२)

EPISODE – 282

नूतना समस्या –

“जनेभ्यो हि हितं हितम्”

പ്രഥമസ്ഥാനം

“न हितं तत् सर्वकारस्य
सदस्यानां च मन्त्रिणाम् ।
र्अधिकारिजनै : ज्ञेयं
जनेभ्यो हि हितं हितम्” ॥

Vijayan V Pattambi

“അഭിനന്ദനങ്ങൾ”

 

“सौरोष्णस्तु प्रवर्धते” (भागः २८१) 08-04-2023

EPISODE – 281

नूतना समस्या –

“सौरोष्णस्तु प्रवर्धते”

പ്രഥമസ്ഥാനം

“ജലാഭാവേന സർവത്ര
വിലാപധ്വനിരേവ ഹി
കേദാരാ: പരിശുഷ്കാശ്ച
സൗരോഷ്ണസ്തു പ്രവർധതേ”

Bhaskaran N K

 

केरलीय शिक्षा सङ्गमः समुद्घाटितः।

तिरुवनन्तपुरम्- केरलीय-सार्वजनीन-शिक्षाविभागस्य कृते राज्य -शैक्षिकानुसन्धान-प्रशिक्षणपरिषदा समायोज्यमानः प्रथमः केरलीय-शिक्षा-सङ्गमः(Kerala Education Congress) केरलीय शिक्षाविभागमन्त्रिणा वि शिवन् कुट्टि वर्येण समुद्घाटितः। राज्यसभासदस्यः ए ए रहिं वर्येः आघ्यक्ष्यं व्यतनोत्।

महाराष्ट्र शिक्षा विभागमन्त्री दीपक् वसन्त् केसार्कर्, राजस्थान शिक्षाविभागमन्त्री डा- बुलाकिदास् कल्ल इत्येतौ अतिथरूपेण भागम् अग्रहीताम्। तिरुवनन्तपुरं जिल्ला पञ्चायत् अध्यक्षः डी सुरेष् कुमारः, सार्वजनीन शिक्षा निदेशकः के जीवन् बाबू वर्यः एस्-सि-इ-आर्-टि निदेशकः डा- जयप्रकाश् आर् के वर्यः इत्येते भाषणमकुर्वन्।

विद्यालयीयशिक्षा रङ्गेण सम्बद्धः एतादृशः राष्ट्रीय शिक्ष-सङ्गमः केरलेषु प्रथमतया समायोज्यते। त्रिदिवसीये अस्मिन् समारोहे अनुसन्धानपद्धतिं प्रबन्धांश्च अवतारयितुं शिक्षकाणां गवेषकाणां छात्राणां शिक्षाप्रवर्तकानां च अवसरः अस्ति। प्रशस्तानां शिक्षाकोविदां प्रभाषणान्यपि समायोजितानि सन्ति।