Daily Archives: March 1, 2023

अमेरिक्कीयगणितशास्त्रज्ञैः संगमग्राममाधवः अङ्गीकृतः।

तृशूर्- चतुर्दशशताब्दौ केरलेषु इरिङ्ङालक्कुटा देशे जिवितः संगमग्राममाधवः इति भारतीयगणितशास्त्रज्ञः अमेरिक्कीयगणितशास्त्रसमाजेन अङ्गीकृतः। अमेरिक्कायां प्रसिद्धे कोर्णल् विश्वविद्यालये प्रवाचकः प्रो- स्टीवन् स्ट्रोगाट्स् वर्येण ट्विट्टर् द्वारा सूचितः अयं विषयः।

ऐसक् न्यूट्टन् वर्यात् शताब्देःप्रागेव त्रिकोणमितेः सैन् धारा केरलीयेन संगमग्राममाधवेनैव अनावृता इति ट्विट्टर् द्वारा सूचितवान् स्टीवन् वर्यः तत्सम्बन्धि वीडियो चित्रमपि तत्रैव स्थापितवान्। अमेरिक्कीयाः गणितशास्त्रज्ञाः अद्भुतेनैतत् अङ्गीकृतवन्तः।

इरिङ्ङालक्कुटा समीपे कल्लेट्टुंकरा देशे इरिङ्ङाटप्पिल्लि गेहे लब्धजन्मा माधवः एव संगमग्राममाधवः इति प्रसिद्धः भारतीयगणितशास्त्रज्ञः। अनन्तश्रेणी इत्याशयः प्रथमतया अनेनैव आविष्कृतः। तद्वारा वृत्तपरिधिनिर्णयः सुकरः अभवत्।