प्रश्नोत्तरम् (भागः २३६) 21-05-2022
EPISODE – 236
प्रश्नोत्तरम्।
- शिल्पा – भोः!भवान् सङ्गणकज्ञानं ——-प्राप्तवान् ? (क) कुतः (ख) कुत्र (ग) किम्
- नरेन्द्रः – अहम् अमेरिकायाम् सङ्गणकज्ञानं ———। (क) प्राप्तवती (ख) प्राप्तवन्तः (ग) प्राप्तवान्
- शिल्पा – भवान् —–भारतम् आगतवान् ? (क) किम् (ख) किमर्थम् (ग) कुत्र
- भवतः जननीजनकौ कुत्र ——-। (क) अस्ति (ख) सन्ति (ग) स्तः
- नरेन्द्रः – मम जननीजनकौ ——–स्तः। (क)अमेरिकादेशः (ख) अमेरिकादेशे (ग) अमेरिकादेशस्य
- ——–संस्कृतशास्त्राणाम् अध्ययनार्थम् भारतम् आगतवान्। (क) अहम् (ख) त्वम् (ग) वयम्
- नरेन्द्रः – ——–किम् अधीतवती। (क) भवान् (ख) भवती (ग) भवतः
- शिल्पा – अहं संस्कृतसाहित्यम् ———। (क) अधीतवती (ख) अधीतवान् (ग) अधीतवन्तः
- नरेन्द्रः – भवती अत्र कति वर्षेभ्यः कार्यम् ——। (क) कुर्वन्ति (ख) करोति (ग) कुरुतः
- शिल्पा – अहं त्रयोदशवर्षेभ्यः संस्कृतकार्यम् ——। (क) करोमि (ख) करोति (ग) करोषि
Last date: 21-05-2022
Leave a Reply