नूतना समस्या –
“एवं रोदिति केरलम्”
ഒന്നാംസ്ഥാനം
ദുര്ജ്ജനാഃ മത്സരഗ്രസ്താഃ ജന്മലബ്ധാഃ മമോദരേ പീഡാം കുുര്വന്തി മേ നിത്യ- മേവം രോദിതി കേരളം
ഹരിപ്രസാദ് വി.ടി. കടമ്പൂര്
“അഭിനന്ദനങ്ങള്”
अकृत्यमखिलं कृत्वा सन्तुष्यन्ति नराधमाः। निषीदन्ति च तत्वज्ञाः एवं रोदिति केरलम्।।
ऋतुषट्कं द्विधा व्यस्त- माग्नेयं वारुणं तथा। प्रथमेfग्निर्जलञ्चान्ये एवं रोदिति केरलम्।।
श्रावणमागतं पश्य नष्टं गेहं धनं तथा। जलान्मां रक्ष रक्षेति एवं रोदिति केरलम्।।
आधिदैविकदुःखान्मे रक्ष रक्षेति निस्त्रपम्। हस्तौ प्रसार्य सोत्कण्ठ- मेवं रोदिति केरलम्।।
लोकशास्त्राणि शक्तानि साह्यं कुरुत साम्प्रतम्। जलक्लिन्नं भयाक्रान्त- मेवं रोदिति केरलम्
नष्टं मे वसतिर्धान्यं जनजन्तुलताः तथा। भवेद्वा मामिका मुक्तिः एवं रोदिति केरलम्।।
മൂന്നാംസ്ഥാനം
जलयानानि सञ्चित्य शीघ्रमानय धीवर! परिपालय मत्पुत्र! एवं रोदिति केरलम्।।
प्रकृतिम् चूषयति चेत् जलोपप्लवं भवेयुः । प्राणान् रक्षिष्येतीति एवं रोदिति केरलम् ।।
जलबिन्दुनिपातेन सर्वत्रास्ति जलोप्लवः । अलमलं वृष्टिरिति एवं रोदिति केरलम् ।।
संपीडा बहुधा लोके पीडनाःबहुधा तथा । पीडापीडनसंदग्ध – मेवं रोदिति केरळम् ।।
निदाघेन ज्वलत्येव – मेवमेव जलप्लवात् । द्रव्यैर्द्वितीयतृतीयै – रेवं रोदिति केरळम्॥
बालिका वनिताश्चैव शिशवो निरुपद्रवाः । पीड्यन्ते निर्दयं देशे एवं रोदिति के२ळम्” ॥
രണ്ടാംസ്ഥാനം
दुर्भिक्षान्मरणं देशे गोत्रजेष्वादिवासिषु । सम्पदामव्यवस्थाना – -देवं रोदिति केरळम्” ॥
वर्षाधिक्यप्रवाहेन भूछेदोअतिमारुतैः सर्वं च नष्टमित्युक्त्वा एवं रोदिति केरलम्
Your email address will not be published. Required fields are marked *
Comment
Name *
Email *
Website
More >>
अकृत्यमखिलं कृत्वा
सन्तुष्यन्ति नराधमाः।
निषीदन्ति च तत्वज्ञाः
एवं रोदिति केरलम्।।
ഒന്നാംസ്ഥാനം
ദുര്ജ്ജനാഃ മത്സരഗ്രസ്താഃ
ജന്മലബ്ധാഃ മമോദരേ
പീഡാം കുുര്വന്തി മേ നിത്യ-
മേവം രോദിതി കേരളം
ऋतुषट्कं द्विधा व्यस्त-
माग्नेयं वारुणं तथा।
प्रथमेfग्निर्जलञ्चान्ये
एवं रोदिति केरलम्।।
श्रावणमागतं पश्य
नष्टं गेहं धनं तथा।
जलान्मां रक्ष रक्षेति
एवं रोदिति केरलम्।।
आधिदैविकदुःखान्मे
रक्ष रक्षेति निस्त्रपम्।
हस्तौ प्रसार्य सोत्कण्ठ-
मेवं रोदिति केरलम्।।
लोकशास्त्राणि शक्तानि
साह्यं कुरुत साम्प्रतम्।
जलक्लिन्नं भयाक्रान्त-
मेवं रोदिति केरलम्
नष्टं मे वसतिर्धान्यं
जनजन्तुलताः तथा।
भवेद्वा मामिका मुक्तिः
एवं रोदिति केरलम्।।
മൂന്നാംസ്ഥാനം
जलयानानि सञ्चित्य
शीघ्रमानय धीवर!
परिपालय मत्पुत्र!
एवं रोदिति केरलम्।।
प्रकृतिम् चूषयति चेत्
जलोपप्लवं भवेयुः ।
प्राणान् रक्षिष्येतीति
एवं रोदिति केरलम् ।।
जलबिन्दुनिपातेन
सर्वत्रास्ति जलोप्लवः ।
अलमलं वृष्टिरिति
एवं रोदिति केरलम् ।।
संपीडा बहुधा लोके
पीडनाःबहुधा तथा ।
पीडापीडनसंदग्ध –
मेवं रोदिति केरळम् ।।
निदाघेन ज्वलत्येव –
मेवमेव जलप्लवात् ।
द्रव्यैर्द्वितीयतृतीयै –
रेवं रोदिति केरळम्॥
बालिका वनिताश्चैव
शिशवो निरुपद्रवाः ।
पीड्यन्ते निर्दयं देशे
एवं रोदिति के२ळम्” ॥
രണ്ടാംസ്ഥാനം
दुर्भिक्षान्मरणं देशे
गोत्रजेष्वादिवासिषु ।
सम्पदामव्यवस्थाना –
-देवं रोदिति केरळम्” ॥
वर्षाधिक्यप्रवाहेन
भूछेदोअतिमारुतैः
सर्वं च नष्टमित्युक्त्वा
एवं रोदिति केरलम्