Daily Archives: June 24, 2018

सामान्य विद्यालयेषु छात्रसंख्यायां महती वृद्धिः।

कोच्ची- राज्ये सर्वकारीय-निजीयविद्यालयेषु अस्मिन्नध्ययनवर्षे प्रविष्टानां छात्राणां संख्यायां महती वृद्धिः। गतवर्षापेक्षया ३२३४९ छात्राः अस्मिन् वर्षे अधिकतया प्रविष्टाः। विश्वोत्तरमहिमायुक्ता शिक्षा सर्वेषां कृते दातव्या इति लक्ष्यमेव सर्वकारस्यास्ति। अयमुत्कर्षः विद्याभ्याससंरक्षणयज्ञे निरतानां सर्वेषाम् अधिकार एवेति मुख्यमन्त्री पिणरायि विजयः अवदत्।
अस्मिन् वर्षे सामान्यविद्यालयाः इतिहासस्य भागत्वेन परिणताः। २५ वर्षेभ्यः अनुवर्तमाना छात्रन्यूनता इति रीतिः अवसिता। सामान्यविद्यालयेषु अस्मिन् वर्षे १८५९७१ छात्राः नूतनतया प्रविष्टाः। गतवर्षे १४८२०५ छात्राः प्रविष्टाः आसन्। सर्वेषु विद्यालयेषु प्रथमकक्ष्यायां छात्राः अधिका जाताः। सर्वकारीयविद्यालयेषु सर्वासु कक्ष्यासु छात्राः अधिकाः सन्ति। एष उत्कर्षः अभिमानकर एव।

PRASNOTHARAM – 30-06-2018

 

प्रश्नोत्तरम्।

 

 

 

 

  1. जननी ———स्निह्यति।(क) पुत्रीषु (ख) पुत्र्यः (ग) पुत्रैः
  2. रुग्णः  ——- विश्वासं करोति। (क) वैद्यस्य (ख) वैद्येन (ग) वैद्ये
  3.  अम्बायाः ——– प्रीतिः अस्ति। (क) पुत्रः (ख) पुत्रे (ग) पुत्रस्य
  4. पाचकः ——– निपुणः । (क) पाककार्ये (ख) पाककार्यस्य (ग) पाककार्याय
  5. प्रजानां ——— अादरः ।(क) नृपेषु (ख) नृपाः (ग) नृपैः
  6. ——— पुरतः उद्यानम् अस्ति । (क) ग़ृहे (ख) गृहस्य (ग) गृहात्
  7.  ——— पृष्ठतः  आसन्दः । (क) उत्पीठिकायाः (ख) उत्पीठिकातः (ग) उत्पीठिकायाम्
  8.  ——- अन्तः धनम् अस्ति। (क) स्यूते (ख) स्यूतस्य (ग) स्यूतेन
  9. कंसः  ——– क्रुध्यति। (क) कृष्णेन (ख) कृष्णात् (ग) कृष्णाय
  10. भिक्षुकः ———-  असूयति। (क) धनिकेभ्यः (ख) धनिकैः (ग) धनिकाः

ഈയാഴ്ചയിലെ വിജയി

K.S.Leena, Pandalam,Pathanamthitta.

“അഭിനന്ദനങ്ങള്‍”

10ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • K.S.Leena, Pandalam,Pathanamthitta
  • Sneha K HSS Sreekrishnapuram
  • Rajakrishnan Sreekrishnapuram
  • Remadevi A
  • Rajalakshmi A
  • Vijayan V Pattambi

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

कोपः सर्वविनाशकः – 30-06-2018

 

नूतना समस्या –

” कोपः सर्वविनाशकः”

ഒന്നാംസ്ഥാനം

शमादिषट्कविध्वंसात्
कोपो हरति वासनाः।
कोपो निहन्ति संस्कारं
कोपः सर्वविनाशकः।।

Prof. V. Madhavan Pillai

“അഭിനന്ദനങ്ങള്‍”