पद्मपुरस्काराः प्रख्यापिताः। केरलात् चत्वारः पुरस्कृताः।

नवदिल्ली – २०१८ वर्षस्य पद्मपुरस्काराः प्रख्यापिताः। केरलराज्यात् पद्मपुरस्काराय चत्वारः चिताः। वितुरा देशीया लक्ष्मिक्कुट्टियम्मा ग्रामीणवैद्यविभागे पद्मश्री पुरस्कारेण आदृता, तथा सान्त्वनचिकित्सायां एम्. आर्. राजगोपालश्च पद्मश्रीपुरस्कृतः।

     पद्मभूषण् पुरस्काराय डो. फिलिप्पोस् मोर् क्रिस्टोस्टं वर्यः चितः मार् तोमा क्रिस्तीयसभायाः वरिष्ठः मेत्रापोलीता भवत्ययम्। भारते बहुकालम्  अधिपौरोहित्ये स्थितः अयं १०१ वयस्कःभवति।

     पद्मविभूषण् पुरस्काराय भारतीयनिचारकेन्द्रं स्थापकः श्री. पी. परमेश्वरः चितः। अधुना अस्य केन्द्रस्य निदेशकः भवत्ययम्।

Leave a Reply

Your email address will not be published. Required fields are marked *