Category Archives: Sanskrit Live
PRASNOTHARAM (भागः १३२) – 23-05-2020
EPISODE – 132
प्रश्नोत्तरम्।
- “बुद्धचरितं ” कस्मिन् विभागे अन्तर्भवति ? (क) नाटके (ख) चरित्रकाव्ये (ग) महाकाव्ये
- बुद्धचरितस्य कर्ता कः ? (क) अश्वघोषः (ख) भासः (ग) भारविः
- बुद्धचरिते कति सर्गाः सन्ति ? (क) २७ (ख) २८ (ग) २९
- बुद्धचरितस्य मुख्यरसः कः ? (क) वीरः (ख) शृङ्गारः (ग) शान्तः
- बुद्धचरिते नायकः कः ? (क) शुद्धोधनः (ख) बिम्बिसारः (ग) श्रीबुद्धः
- श्रीबुद्धस्य पिता कः ? (क) शुद्धोधनः (ख) परमहंसः (ग) बिम्बिसारः
- श्रीबुद्धः कुत्र जनिम् अलभत ? (क) लुम्बिनी (ख) कुरुक्षेत्र (ग) मथुरा
- श्रीबुद्धस्य भार्या का ? (क) मायादेवी (ख) यशोधरा (ग) निवेदिता
- श्रीबुद्धस्य माता ——- भवति । (क) शारदा (ख) मायादेवी (ग) य़शोधरा
- ——–बुद्धस्य पुत्रः भवति । (क) राहुलः (ख) विवेकः (ग) भरतः
ഈയാഴ്ചയിലെ വിജയി
KISHORE KRISHNA SEVADAI
“അഭിനന്ദനങ്ങള്”
10 ശരിയുത്തരങ്ങള് അയച്ചവര്
- KISHORE KRISHNA SEVADAI
- Sreesha Vinod
- Adidev C S
“പങ്കെടുത്തവര്ക്കെല്ലാം അഭിനന്ദനങ്ങള്”
गमनं बहुदुष्करम् (भागः १३१) – 16-05-2020
EPISODE – 131
नूतना समस्या –
“गमनं बहुदुष्करम्”
ഒന്നാംസ്ഥാനം
“കൊറോണാവ്യാപനാത് രാജ്യേ
ഗതാഗതം ഹി നിശ്ചലം
ഏകസ്മാദന്യഭാഗാത്തു
ഗമനം ബഹുദുഷ്ക്കരം”
Narayanan N
PRASNOTHARAM (भागः १३१)- 16-05-2020
EPISODE – 131
प्रश्नोत्तरम्।
- एतेषु महाकाव्यं चित्वा लिखत। (क) मध्यमव्यायोगः (ख) कादम्बरी (ग) नैषधीयचरितम्
- नैषधीयचरितस्य कर्ता कः ? (क) कालिदासः (ख) श्रीहर्षः (ग) भारविः
- नैषधीयचरितमहाकाव्ये कति सर्गाः सन्ति ? (क) २० (ख) २१ (ग) २२
- दमयन्त्याः समीपं गत्वा कः नलस्य गुणकथनमकरोत् ? (क) शुकः (ख) मयूरः (ग) हंसः
- ” कृतमध्यबिलं विलोक्यते “। कां प्रति उक्तमिदं वाक्यम् ? (क) दमयन्तीं (ख) इन्दुमतीं (ग) जानकीम्
- ” सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च वंशानुचरितं चैव – ” कस्य लक्षणमिदम् ? (क) महाकाव्यस्य (ख) चम्पूकाव्यस्य (ग) पुराणस्य
- अधोदत्तेषु महापुराणं चित्वा लिखत । (क) नारद (ख) कपिल (ग) वारुण
- पुराणस्य कति लक्षणानि सन्ति ? (क) ४ (ख) ५ (ग) ६
- बुद्धं शरणं गच्छामि। अत्र कर्ता कः ? (क) अहं (ख) त्वं (ग) सः
- तत्वमसि । अत्र क्रियापदं किम् ? (क) तत् (ख) त्वम् (ग) असि
ഈയാഴ്ചയിലെ വിജയി
DIVYACHITHRAN N V
“അഭിനന്ദനങ്ങള്”
10 ശരിയുത്തരങ്ങള് അയച്ചവര്:
- Divyachithran N V
- Sreesha Vinod
“പങ്കെടുത്തവര്ക്കെല്ലാം അഭിനന്ദനങ്ങള്”
सुखदं गृहबन्धनम् (भागः-१३०) – ०९-०५-२०२०
EPISODE – 130
नूतना समस्या –
“सुखदं गृहबन्धनम्”
ഒന്നാംസ്ഥാനം
സ്വകീയജീവരക്ഷായൈ
തഥാ ച പൗരവാസിനാം
പൗരബോധം പുരസ്ക്കൃത്യ
സുഖദം ഗൃഹബന്ധനം
Narayanan N
“അഭിനന്ദനങ്ങള്”
PRASNOTHARAM (भागः १३०) – 09-05-2020
EPISODE – 130
प्रश्नोत्तरम्।
- अधोदत्तेषु महाकाव्यं भवति ——।(क)शिशुपालवधम् (ख) उत्तररामचरितम् (ग) मृच्छकटिकम्
- ” क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीयतायाः ” केन काव्येन सम्बद्धः भवति ? (क) रघुवंशेन (ख) किरातार्जुनीयेन (ग) शिशुपालवधेन
- उपमा,अर्थगौरवं,पदलालित्यम् एतानि कस्य काव्ये भवन्ति ? (क) कालिदासस्य (ख) माघस्य (ग) भारवेः
- शिशुपालवधस्य कर्ता कः ? (क) माघः (ख) कालिदासः (ग) श्रीहर्षः
- शिशुपालवधे कति सर्गाः सन्ति ? (क) १८ (ख) १९ (ग) २०
- शिशुपालवधमहाकाव्ये प्रथमसर्गे द्वारकायां कः आगतवान् ? (क) शिशुपालः (ख) युधिष्ठिरः (ग) नारदः
- युधिष्ठिरस्य कस्मिन् यज्ञे शिशुपाल श्रीकृष्णयोः युद्धः समजायत ? (क) अश्वमेधे (ख) राजसूये (ग) अग्निहोत्रे
- शिशुपालः कस्य राज्यस्य राजा भवति ? (क) छेदिः (ख) अयोध्या (ग) मगधा
- नवसर्गगते —— नवशब्दो न विद्यते।(क) दासे (ख) हर्षे (ग) माघे
- “माघे सन्ति त्रयो गुणाः”। अत्र माघे इत्यस्य विभक्तिः का ? (क) सप्तमी (ख) षष्ठी (ग) पञ्चमी
ഈയാഴ്ചയിലെ വിജയി
SREESHA VINOD
“അഭിനന്ദനങ്ങള്”
10 ശരിയുത്തരങ്ങള് അയച്ചവര്:
- SREESHA VINOD
- Vinod Paul
- Adidev C S
- Neha sudheeran
- Dawn Jose
“പങ്കെടുത്തവര്ക്കെല്ലാം അഭിനന്ദനങ്ങള്”
पुस्तकं साधु नामकम् (भागः १२९) – 02-05-2020
EPISODE – 129
नूतना समस्या –
“पुस्तकं साधु नामकम्”
ഒന്നാംസ്ഥാനം
“അജ്ഞാനതിമിരാന്ധത്വം
യേന ലോകേഷു നശ്യതേ
വിജ്ഞാനജ്യോതിഷാ ശക്തം
പുസ്തകം സാധുനാമകം”
Narayanan N
“അഭിനന്ദനങ്ങള്”
PRASNOTHARAM (भागः १२९) – 02-05-2020
EPISODE – 129
प्रश्नोत्तरम्।
- अधोदत्तेषु भिन्नमेकं चित्वा लिखत। (क) अभिज्ञानशाकुन्तलम् (ख) किरातार्जुनीयम् (ग) विक्रमोर्वशीयम्
- किरातार्जुनीयं ——– विरचितं भवति। (क) भारविना (ख) कालिदासेन (ग) श्रीहर्षेण
- किरातार्जुनीये ——- सर्गाः सन्ति । (क) १६ (ख) १७ (ग) १८
- किरातार्जुनीयस्य इतिवृत्तं कस्मात् ग्रन्थात् स्वीकृतं भवति ? (क) रामायणात् (ख) महाभारतात् (ग) भागवतात्
- किरातार्जुनीये किरातः कः? (क) विष्णुः (ख) शिवः (ग) ब्रह्मा
- शिवः अर्जुनाय ——– दत्तवान्। (क) ब्रह्मास्त्रम् (ख) पाशुपतास्त्रम् (ग) नारायणास्त्रम्
- “अर्थगौरवम् ” केन सम्बद्धः भवति ? (क) कालिदासेन (ख) माघेन (ग) भारविना
- दुर्योधनस्य शासनां ज्ञातुं पाण्डवैः प्रेषितः गूढचरः कः ? (क) अर्जुनः (ख) वनेचरः (ग) भीमः
- “नारिकेलफलसमन्वितं वचः ” कस्य ? (क) भारवेः (ख) माघस्य (ग) कालिदासस्य
- “हितं मनोहारि च दुर्लभं वचः ” कस्य ? (क) वनेचरस्य (ख) युधिष्ठिरस्य (ग) भीमस्य
ഈയാഴ്ചയിലെ വിജയി
KISHORE KRISHRA SEVADAI
“അഭിനന്ദനങ്ങള്”
10 ശരിയുത്തരങ്ങള് അയച്ചവര്
- KISHORE KRISHRA SEVADAI
- LIjina K M
- Sreesha Vinod
“പങ്കെടുത്തവര്ക്കെല്ലാം അഭിനന്ദനങ്ങള്”
गृहे स्वस्थाः महाजनाः (भागः १२८) – 25-04-2020
EPISODE – 128
नूतना समस्या –
“गृहे स्वस्थाः महाजनाः”
ഒന്നാംസ്ഥാനം
“വിപദിധൈര്യമാർജിത്യ
രാജ്യസംരക്ഷണായ ഹി
ക്ഷമയാപൗരധർമൈശ്ച
ഗൃഹേ സ്വസ്ഥാ:മഹാജനാ:”
Narayanan N
“അഭിനന്ദനങ്ങള്”
PRASNOTHARAM (भागः १२८) – 25-04-2020
EPISODE- 128
प्रश्नोत्तरम्।
- अधोदत्तेष्वेकं महाकाव्यं चित्वा लिखत।(क) रामायणम् (ख) महाभारतम् (ग) कुमारसम्भवम्
- कुमारसम्भवस्य कर्ता कः ? (क) दण्डी (ख) कालिदासः (ग) भारविः
- कुमारसम्भवे ——-सर्गाः सन्ति । (क) १७ (ख) १८ (ग) १९
- कुमारसम्भवस्य ——–सर्गे रतिविलापः वर्णयति।(क) चतुर्थे (ख) पञ्चमे (ग) षष्ठे
- ” शरीरमाद्यं खलु धर्म साधनम् ” इति कस्य वचनम् ? (क) पार्वत्याः (ख) कामदेवस्य (ग) ब्रह्मचारिणः
- ——–इति श्लोकेन कुमारसम्भवस्य समारम्भः भवति। (क) वागर्थाविव (ख) अस्त्युत्तरस्यां दिशि (ग) कश्चित्कान्ता
- पार्वत्याः पिता कः ? (क) ब्रह्मा (ख) शिवः (ग) हिमवान्
- अस्त्युत्तरस्याम् = ——— + ———- । (क) अस्ति + उत्तरस्याम् (ख) अस्त्यु + उत्तरस्याम् (ग) अस्त + उत्तरस्याम्
- कुमारसम्भवमहाकाव्ये अङ्गी रसः कः ? (क) करुणा (ख) वीरः (ग) शृङ्गारः
- अत्र ” कुमार ” नाम्ना प्रसिद्धः कः ? (क) शिवः (ख) षण्मुखः (ग) गणेशः
ഈയാഴ്ചയിലെ വിജയി
SREESHA VINOD
“അഭിനന്ദനങ്ങള്”
10 ശരിയുത്തരങ്ങള് അയച്ചവര്:
- SREESHA VINOD
- Adidev C S
- Ashiq Bijoy
- Dawn Jose
- Lijina K M
“പങ്കെടുത്തവര്ക്കെല്ലാം അഭിനന്ദനങ്ങള്”
कर्णिकारास्तु पुष्पिताः (भागः १२७) – 18-04-2020
EPISODE – 127
नूतना समस्या –
“कर्णिकारास्तु पुष्पिताः”
ഒന്നാംസ്ഥാനം
“ഔദ്യോഗികംമഹത്സ്ഥാന-
മംഗീകൃത്യ ദ്രുമേഷു ഹാ!
വിഖ്യാതൗന്നത്യമേത്യേതേ
കർണികാരാസ്തു പുഷ്പിതാ:”
Narayanan N
“അഭിനന്ദനങ്ങള്”














