Category Archives: Sanskrit Live
PRASNOTHARAM (भागः १३७) – 27-06-2020
EPISODE – 137
प्रश्नोत्तरम्।
- अभिज्ञानशाकुन्तलस्य कर्ता कः? (क) कालिदासः (ख) भासः (ग) भवभूतिः
- अधोदत्तेषु शकुन्तलायाः सखी का ? (क) गौतमी (ख) मालविका (ग) अनसूया
- का शकुन्तलया साकं दुष्यन्तराजधानीम् अगच्छत् ? (क) प्रियंवदा (ख) गौतमी (ग) अनसूया
- अभिज्ञानशाकुन्तले विदूषकः कः ? (क) माढव्यः (ख) वसन्तकः (ग) मैत्रेयः
- दुष्यन्तेन परित्यक्ता शकुन्तला कस्याश्रमे अवसत् ? (क) गौतमस्य (ख) मारीचस्य (ग) वसिष्ठस्य
- अभिज्ञानशाकुन्तले सर्वप्रधानः अङ्कः कः ? (क) ३ (ख) ४ (ग) ५
- शकुन्तलायाः अङ्गुलीयकं कुत्र अपतत् ? (क) शचीतीर्थे (ख) प्रभासतीर्थे (ग) आश्रमे
- शकुन्तलायाः पुत्रः कः ? (क) श्वेतकेतुः (ख) आरुणिः (ग) सर्वदमनः
- “यास्यत्यद्य शकुन्तलेति हृदयम् ” कस्य वचनमिदम् ? (क) कण्वस्य (ख) शार्ङ्गरवस्य (ग) शारद्वतस्य
- ” स्मरिष्यति त्वाम् न स बोधितोSपि सन् ” कस्य शापवचनमिदम् ? (क) दुष्यन्तस्य (ख) दुर्वाससः (ग) मारीचस्य
ഈയാഴ്ചയിലെ വിജയി
SUCHITHRA S
“അഭിനന്ദനങ്ങള്”
10 ശരിയുത്തരങ്ങള് അയച്ചവര്:
- Suchithra S
- Sanika P S
- Nima Davis
- Dawn Jose
- Adidev C S
“പങ്കെടുത്തവര്ക്കെല്ലാം അഭിനന്ദനങ്ങള്”
मुखावरणमुत्तमम् (भागः १३६) – 20-06-2020
EPISODE – 136
नूतना समस्या –
“मुखावरणमुत्तमम्”
ഒന്നാംസ്ഥാനം
“സംഭൂതേഷു ദുരന്തേഷു
കോവിദ്രോഗോSതിഭീകരഃ
രോഗബാധാനിരോധായ
മുഖാവരണമുത്തമം.”
Bhaskaran N K
“അഭിനന്ദനങ്ങള്”
PRASNOTHARAM (भागः १३६) – 20-06-2020
EPISODE – 136
प्रश्नोत्तरम्।
- मैत्रेयः कस्य नाटकस्य कथापात्रं भवति ? (क) दरिद्रचारुदत्तम् (ख) मालविकाग्निमित्रम् (ग) स्वप्नवासवदत्तम्
- बसन्तकः केन नाटकेन सम्बद्धः भवति ? (क) अभिज्ञानशाकुन्तलेन (ख) मालतीमाधवेन (ग) स्वप्नवासवदत्तेन
- स्वप्नवासवदत्ते स्वप्न अङ्कः कः ? (क) चतुर्थ (ख) पञ्चम (ग) षष्ठ
- ” दरिद्रचारुदत्तम् ” नाटके नायिका का ? (क) मदनिका (ख) उर्वशी (ग) वसन्तसेना
- ” दरिद्रचारुदत्तम् ” नाम नाटकस्य प्रणेता कः ? (क) भासः (ख) शूद्रकः (ग) विशाखदत्तः
- मध्यमव्यायोग नाटके मध्यमशब्देन सूचितः कः ? (क) अर्जुनः (ख) भीमः (ग) घटोत्कचः
- दूतवाक्यं नाटके दूतः कः ? (क) वासुदेवः (ख) विदुरः (ग) सञ्जयः
- अभिज्ञानशाकुन्तले कति अङ्काः सन्ति ? (क) ५ (ख) ६ (ग) ७
- शकुन्तलायाः माता का ? (क) मेनका (ख) गौतमी (ग) उर्वशी
- शकुन्तला केन पालिता भवति ? (क) गौतमेन (ख) कण्वेन (ग) विश्वामित्रेण
ഈയാഴ്ചയിലെ വിജയി
SUCHITHRA S
“അഭിനന്ദനങ്ങള്”
10 ശരിയുത്തരങ്ങള് അയച്ചവര്
- Suchithra S
- Balanandan M
- Dawn Jose
- Adidev C S
“അഭിനന്ദനങ്ങള്”
शुभचिन्तां भजाम्यहम् (भागः १३५) – 13-06-2020
EPISODE – 135
नूतना समस्या –
“शुभचिन्तां भजाम्यहम्”
ഒന്നാംസ്ഥാനം
“സർവ്വദാ സ്നേഹസമ്പന്നാം
ഗുരുഭക്തിസമന്വിതാം
അന്യോന്യാശ്രയശീലാം ച
ശുഭ ചിന്താം ഭജാമ്യഹം”
Harigovindan Namboothiri
“അഭിനന്ദനങ്ങള്”
PRASNOTHARAM (भागः १३५) – 13-06-2020
EPISODE- 135
प्रश्नोत्तरम्।
- “पुराणमित्येव न साधु सर्वं,न चापि काव्यं नवमित्यवद्यम्”।एतत् कस्मिन् काव्ये अन्तर्भवति ? (क) मालविकाग्निमित्रम् (ख) उत्तररामचरितम् (ग) मृच्छकटिकम्
- अधोदत्तेषु प्रकरणं लिखत ? (क) मुद्राराक्षसम् (ख) वेणीसंहारम् (ग) मालतीमाधवम्
- नाट्यशास्त्रस्य रचयिता कः ? (क) गौतमः (ख) भरतमुनिः (ग) कौटिल्यः
- भासस्य कति नाटकानि उपलब्धानि ? (क) १३ (ख) १४ (ग) १५
- भासस्य रामकथाश्रयानि नाटकानि कति सन्ति ? (क) १ (ख) २ (ग) ३
- दूतवाक्यं नाटकस्य आधारग्रन्थः कः? (क) रामायणम् (ख) लोककथा (ग) महाभारतम्
- एतेषु महाभारताश्रयनाटकं चित्वा लिखत ? (क) मध्यमव्यायोगः (ख) दरिद्रचारुदत्तम् (ग) अभिषेकनाटकम्
- प्रतिज्ञायौगन्धरायणं नाटके कति अङ्काः सन्ति ? (क) ३ (ख) ४ (ग) ५
- स्वप्नावासवदत्तं नाटके कति अङ्काः सन्ति ? (क) ६ (ख) ५ (ग) ४
- स्वप्नावासवदत्ते नायकः कः ? (क) अग्निमित्रः (ख) चारुदत्तः (ग) उदयनः
ഈയാഴ്ചയിലെ വിജയി
DAWN JOSE
“അഭിനന്ദനങ്ങള്”
स्वास्थ्यलाभाय प्रार्थये (भागः १३४) – 06-06-2020
EPISODE – 134
नूतना समस्या –
“स्वास्थ्यलाभाय प्रार्थये”
ഒന്നാംസ്ഥാനം
“വ്യാധിസംപീഡിതാ: ലോകാ:
മൃത്യുഭീത്യാ പ്രകമ്പിതാ:
ജനാനാമപി സർവ്വേഷാം
സ്വാസ്ഥ്യലാഭായ പ്രാർത്ഥയേ”
Harigovindan Namboothiri
“അഭിനന്ദനങ്ങള്”
PRASNOTHARAM (भागः १३४) – 06-06-2020
EPISODE – 134
प्रश्नोत्तरम्।
- प्रद्युम्नः कस्य पुत्रः भवति ? (क) श्रीकृष्णस्य (ख) बलरामस्य (ग) ययातेः
- ——– मुनिः परीक्षित्त् महाराजं शशाप । (क) शमीक (ख) शृङ्गी (ग) अगस्त्य
- परीक्षित्त् महाराजस्य अन्त्यं केन सर्पेण अभवत् ? (क) तक्षकेन (ख) वासुकिना (ग) कृष्णचूडेन
- शकुन्तला दुष्यन्तयोः कथा कस्मिन् पुराणे वर्तते ? (क) नारद (ख) वायु (ग) पद्म
- विष्णुपुराणस्य श्रोता कः ? (क) मैत्रेयः (ख) याज्ञवल्क्यः (ग) परीक्षित्
- विष्णुपुराणस्य वक्ता कः ? (क) व्यासः (ख) पराशरः (ग) शुकः
- व्याकरणं,शास्त्रम् , आयुर्वेदः,ज्योतिषम् इत्यादयः कस्मिन् पुराणे विद्यन्ते ? (क) भागवत (ख) अग्नि (ग) ब्रह्म
- आदित्यहृदयस्तोत्रं कस्मिन् पुराणे भवति ? (क) भविष्य (ख) भागवत (ग) कूर्म
- पुराणेषु बृहत्तमं पुराणं किम् ? (क) भागवत (ख) स्कन्ध (ग) पद्म
- स्कन्ध पुराणे कति श्लोकाः सन्ति ? (क) ८१००० (ख) ८२००० (ग) ८३०००
ഈയാഴ്ചയിലെ വിജയി
RAMGOPAL V M
“അഭിനന്ദനങ്ങള്”
Last date: 06-06-2020
भीतिर्नैव भविष्यति (भागः १३३) – 30-05-2020
EPISODE – 133
नूतना समस्या-
“भीतिर्नैव भविष्यति”
ഒന്നാംസ്ഥാനം
“പ്രജാക്ഷേമേഷു സക്തേഷു
ശാസകേഷു, തഥാ ഗുരൗ
വിജ്ഞാനവാരിധൗ തുല്യം
ഭീതിർനൈവ ഭവിഷ്യതി”
Narayanan N
“അഭിനന്ദനങ്ങള്”
PRASNOTHARAM (भागः १३३) – 30-05-2020
EPISODE – 133
प्रश्नोत्तरम्।
- “विश्वसृष्टेरितिहासः पुराणम् ” इति कस्य वचनं भवति ? (क) आदिशङ्कराचार्यस्य (ख) मधुसूदनसरस्वत्याः (ग) दयानन्दसरस्वत्याः
- पुराणानां गणनामध्ये “भद्वयम् ” इति व्यवहृते पुराणे के ? (क) भागवती – भगवती (ख) भविष्य – भूत (ग) भविष्य – भागवत
- अधोदत्तेषु अकारारम्भनामयुक्तं महापुराणं किम् ?(क) अग्निपुराणम् (ख) अगस्त्यपुराणम् (ग) अनन्तपुराणम्
- भागवतपुराणे कति स्कन्धाः सन्ति ? (क) ११ (ख) १२ (ग) १३
- भागवतपुराणे श्लोकसंख्या का ? (क) १८००० (ख) २०००० (ग) २४०००
- भागवतपुराणे श्रीकृष्णस्य रासलीला कस्मिन् स्कन्धे वर्णितमस्ति ? (क) अष्टमे (ख) नवमे (ग) दशमे
- ” विद्यावतां भागवते परीक्षा “केन सम्बद्धमिदं वाक्यम् ? (क) भागवतपुराणेन (ख) भगवद्गीतया (ग) मार्कण्डेयपुराणेन
- भागवतपुराणानुसारं कपिलमुनिः कस्य अवतारः भवति ? (क) शिवस्य (ख) विष्णोः (ग) सूर्यस्य
- श्रीमद्भागवतपुराणस्य वक्ता कः ? (क) शुकमुनिः (ख) अगस्त्यः (ग) पराशरः
- श्रीमद्भागवतपुराणस्य श्रोता कः ? (क) जनमेजयः (ख) युधिष्ठिरः (ग) परीक्षित्
ഈയാഴ്ചയിലെ വിജയി
ADIDEV C S
“അഭിനന്ദനങ്ങള്”
9 ശരിയുത്തരങ്ങള് അയച്ചവര്:
- Sreesha Vinod
- Omana Padmanabhan
- Amrutha C J
कथं शान्तिर्भविष्यति (भागः १३२०) – 23-05-2020
EPISODE – 132
नूतना समस्या –
“कथं शान्तिर्भविष्यति”
ഒന്നാംസ്ഥാനം
ധനം കാമം മദം മദ്യം
വേഷം തോഷം വ്യഥാ ഭയം
ഏഷു സർവ്വേഷു സക്താനാം
കഥം ശാന്തിർഭവിഷ്യതി ?
Narayanan N
“അഭിനന്ദനങ്ങള്”













