Monthly Archives: January 2026
शैत्यं तु क्षणिकं गतम् (भागः ४२८) – 01-02-2026
EPISODE – 428
नूतना समस्या-
“शैत्यं तु क्षणिकं गतम्”
प्रथमस्थानम्
“पौषमासस्य मध्ये तु
सोष्णं जातं नभस्तलम् ।
केरलतीरदेशेभ्यः
शैत्यं तु क्षणिकं गतम्” ॥
Sridevi
“अभिनन्दनानि”
सुवर्णं राजतेतराम् (भागः ४२७) 24-01-2026
EPISODE – 427
नूतना समस्या –
“सुवर्णं राजतेतराम्”
प्रथमस्थानम्
“ലോക സമ്പദ് വ്യവസ്ഥായാം
കനകം ഹി നിയാമകം
നിതാന്തമധികം മൂല്യം
സുവർണം രാജതേതരാം“
Narayanan N
“अभिनन्दनानि”
सी वी जोस् वर्यस्य” डोपमैन्” प्रकाशितम् ।
इरिङ्ङालक्कुटा: माप्राणं होलिक्रोस् विद्यालयस्य अध्यापकेन श्रीमता सी वी जोस् वर्येण रचितं कथासमाहरं डोपमैन् प्रकाशितम्।विद्यालयस्य वार्षिकदिने समायोजिते सम्मेलने प्रशस्तः साहित्यकारः श्री के वी मणिकण्ठः कथासमाहारं प्राकाशयत्। डोपमैन् त्रयोदश कथानां समाहारं भवति । तृश्शूर् साहिती बुक्स् एव पुस्तकस्य प्रसाधकः भवति ।
इरिङ्ङालकुटा रूपतायाः बिषप् पोली कण्णूक्काटन् सम्मेलनस्य उद्घाटनमकरोत् । विद्यालयस्य प्रबन्धकः जोणी मेनाच्चेरी आध्यक्ष्यमावहत् ।
संस्कृतक्षेत्रे सङ्कणकस्य स्थानसंस्थापने यतमानेषु अन्यतमो भवति सी वी जोस् वर्यः। नववाणी इति संस्कृत वेब् पोर्डल् संस्थापयन् सः संस्कृताघ्यापकानां तथा छात्राणां सहायकः प्रियङ्करः च अभवत् । विश्वे सप्तलक्षमितो जनाः नववाणी सन्दर्शकाः विद्यन्ते । विद्यालये साङ्केतिकविद्यायाः साहाय्येन ग्रन्थालयस्य परिष्कारः तेन कृत : ।
इरिङ्ङालक्कुटा जिल्लाया :”गुरुप्रिय “पुरस्कारेण अयं आदृतश्च । 2025 तमे वर्षे के२ल सर्वकारस्य शिक्षाविभागेनापि महानुभावोयं समादृतः आसीत् ।
संस्कृत भाषापाठने प्रचारणे च संलग्नः श्री सी वी जोस् 2026 मार्च् मासे अध्यापकवृत्तितः विरतो भविष्यति । वृत्तिविरोतोपि स संस्कृतमण्डले सदा यतमान : स्यादिति चिन्तयति ।
विद्यालयीय संस्कृतोत्सवः सम्पन्नः।
केरले राज्यस्तरीयः विद्यालयीयसंस्कृतोत्सवः तृश्शूर् नगरे सम्पन्नः। 2026 जनुवरि मासस्य 14 दिनाङकात् आरभ्य 18 पर्यन्तं नगर हृदयस्थेषु विविध सभामण्डपेषु उत्सवोयं प्रचालितः । संस्कृतोत्सवे संस्कृतं पठतां छात्राणां विविधाः कलास्पर्धाः समायोजिताश्च । विजयिभ्यः पतकानि धनपुरस्काराश्च दीयन्ते।
केरलसर्वकारस्य शिक्षा विभागःएव उत्सवस्यस्य सङ्घाटकः । तदनुबन्धत्वेन संस्कृतसङ्गोष्ठी पण्डितसमादरणं च प्रचालितम्। कार्यक्रमस्यास्य उद्घाटनं केरलीय विद्याभ्यासमन्त्रिणा . श्रीमता वि . शिवन् कुट्टीवर्येण कृतम्।राजस्व- भवननिर्माण मन्त्री श्री के राजन् आध्यक्ष्यमावहत् । श्री . टि आर् .हिरण् मुख्याथिति रूपेण सन्निहित : आसीत् । श्री आर .एस् षिबु(अतिरिक्तशिक्षानिदेशकः) हारिस् टि पीश्री सनल् चन्द्रः च भाषणमकुर्वन्।
तदनुबन्धत्वेन कृतं संस्कृत पण्डितसमादरणं सन्तोषप्रदमेव । संस्कृतमण्डले कृतश्रमाः अध्यापकाः डाः एम् वी नटेशः डो .के के षैन श्रीमती शैलजा श्री पी वि सन्तोष् कुमार् श्री पि एन् मधुसूदनन् श्री प्रदीप् कुमार् रसना पत्रिकायाः मुख्य प्रसाधकः श्री के एम् जनादन : च आदृताः ।
संस्कृतभाषायाः अक्षर शास्त्रम् इत्यासीत् सङ्गोष्ठी विषयः। श्रीशङ्कराचार्य संस्कृत सर्वकलाशालायाः पय्यन्नूर् परिसरे निदेशकचरः डो ई श्रीधरन् विषयस्य अवतारणं कृतवान् । श्री सुरेष्कुमार् सङ्गोष्ठ्याः क्रमीकारकः आसीत्। सङ्गोष्ठी दिनस्य आरम्भे सङ्गमग्राममाधवस्य जन्मगृहात् समारब्धं दीपशिखाप्रयाणम् नगरं प्राप्तम् । ततः चतुषष्षष्टिः संख्याकैः अध्यापकैः आलपितं स्वागतगानं असुलभसङ्गीतसुधाभ रञ्चासीत्।
श्रीमती सिन्धू वार्यर् वर्यया प्रार्थना कृता । संस्कृतोत्सवस्य समायोजकः डो विवेक् एम वी स्वागतम् तथा श्रीमती प्रभा वी कृतज्ञतां च व्याहृतौ । राज्यस्तरीयसङ्गोष्ठी सभायां राज्यस्य नानाप्रान्तेभ्यः सहस्र परिमिताः संस्कृताध्यापकाः संस्कृतानुरागिणश्च सन्निहिताः आसन् ।
सौशील्यं सर्वथा वरम् (४२६) 17-01-2026
EPISODE 426
नूतना समस्या –
“सौशील्यं सर्वथा वरम्”
प्रथमस्थानम्
“വിദ്യാ വിത്തം കുലഞ്ചൈവ
ക്ഷീയതേ കാലപര്യയാത്
സുസ്മർത്തവ്യമിദം വാക്യം
സൗശീല്യം സർവഥാ വരം“
Radhakrishnan
“अभिनन्दनानि”
वह्निस्तु सर्वनाशकः (भागः ४२५)
EPISODE – 425
नूतना समस्या –
“वह्निस्तु सर्वनाशकः”
प्रथमस्थानम्
“वह्निना नश्यते वायुः
वह्निना नश्यते गृहम् ।
वह्निना नश्यते वृक्षः
वह्निस्तु सर्वनाशकः”॥
Vijayan V Pattambi
“अभिनन्दनानि”
वर्षं नूतनमागतम् (भागः ४२४) 03-01-2026
EPISODE – 424
नूतना समस्या –
“वर्षं नूतनमागतम्”
प्रथमस्थानम्
“कालचक्रप्रवाहेण
यथाकालं यथोचितम् ।
सुखदुःखैश्च सम्मिश्रं
वर्षं नूतनमागतम्” ॥
Narayanan Namboothiri
“अभिनन्दनानि”













