Category Archives: News Updates

मिखायेल् गोर्बच्चेव् वर्यः कालकबलितो अभवत्।

मोस्को- सोवियट् संघस्य अन्तिमाध्यक्षः मिखायेल् गोर्बच्चेव् वर्यः अन्तरितः। रूस् वार्ताहरसंघैरेव एषा सूचना दत्ता।

तस्यान्त्यमधिकृत्य अधिका सूचना न लब्धा तथापि स मोस्को नगरे कस्मिंश्चित् चिकित्सालये चिकित्सायामासीत् इति तस्य कार्यालयेन सूचितमासीत्।

अमेरिकया सह संजातं शीतसमरं रक्तरहितरूपेण समापयितुं स निर्णायकं योगदानम् अकरोत्। परन्तु १९९१ तमे वर्षे सोवियट् संघस्य शिथिलीकरणं प्रतिरोद्धुं स न सन्नद्धः आसीत्।

द्वितीय-विश्वमहायुद्धानन्तरं यूरोपीये प्रतिसन्धिनिवारण विषये तथा जर्मन्याः एकीकरणविषये च स नीतियुक्तं कार्यं व्यतनोत्।

पुरस्काराः समर्पिताःl

 

तृश्शिवपुरम् – संस्कृत अक्कादमी 2021-22 वर्षीयाः संस्कृतिपुरस्काराः समर्पिताः । पदमश्री पि के नारायणन् नम्र्ब्यार् प्रो कृष्णकुमार श्री हरिप्रसाद कटम्बूर च समुचितं पुरस्कृताः । तृश्शिवपुरे केरलसाहित्य अकादमी सभामन्दिरे आयोजितायां सभायाम् पुरस्कार समर्पणमभवत् । संस्कृत अक्कादम्याः २०२०-२१ वर्षीयेण संस्कृतिपुरस्कारेण पि के नारायणन् नम्ब्यारु २०२१ २२ वर्षीयेण पुरस्कारेण प्रो कृष्णकुमारश्च बहुमानितौ । संस्कृतप्रचारणप्रवर्तनाय श्री के टि माधवन् महोदयेन आयोजितेन रामप्रभा पुरस्कारेण हरिप्रसाद् कटम्बूर् च आदृत : ।
प्रो के ए रवीद्र : ( वित्त कोशाध्यक्षः संस्कृत अकादमी ) डो के टी माधवन् ( अध्यक्ष : संस्कृत अकादमी ) डो यम् वि नारायणन् उपाध्यक्षः संस्कृत सर्वकलाशाला )डो .वि के विजयन् ( कार्यदर्शी संस्कृत अकादमी ) प्रो सी जि विजयकुमार्  डो यम्  वि नटेशन् च भाषणमकुर्वन् । पुरस्कारेण समादृतेभ्यः सर्वेभ्यस्तथा पुरस्कारमायोजितायै संस्थायै च नववाण्याः  अभिनन्दनानि ।

केन्द्र साहित्य अक्कादमीपुरस्कारः विज्ञापितः।

नवदिल्ली- २०२२ तमवर्षस्य केन्द्र साहित्य अक्कादमीपुरस्कारः घोषितः। बालसाहित्यविभागे उत्कृष्टपुरस्काराय सेतुवर्यस्य चेक्कुट्टि इति ग्रन्थः अर्हः अभवत्।

युवसाहित्यकारपुरस्काराय अनघा जे कोलोत् अर्हा अभवत्। मेषुकुतिरिक्क् स्वन्तं तीप्पेट्टि इति कवितासमाहारायैव पुरस्कारः। ५०००० रूप्यकाणि फलकं च पुरस्कारे अन्तर्भवतः।

उत्तरभारते महाप्रलयः। पञ्चसु राज्येषु आहत्य ३५ मरणानि। हिमाचलप्रदेशे २२ जनाः मृताः।

नवदिल्ली- कठिना वृष्टिः प्रलयश्च दक्षिणभारते महानाशस्य कारणमभवताम्। हिमाचलप्रदेशमभिव्याप्य पञ्चसु राज्येषु आहत्य ३५ मरणानि जातानि। हिमाचले एकस्मिन् परिवारे अष्टजनाः मृताः। तत्र आहत्य २२ जनाः मृताः।

शुक्रवासरे आरब्धा वृष्टिः बहुषु स्थलेषु मृत्पातस्य़ कारणमभवत्।

उत्तराखण्डे मेघविस्फोटनमपि सञ्जातम्। तत्र चत्वारो जनाः मृताः।

दक्षिणभारत- योगप्रतियोगितायाम् अध्यापकः सम्मानितः।

आलूर्- चेन्नै गुम्मिडिप्पुण्डि स्थले समायोजितायां दक्षिणभारत-योगाप्रतियोगितायाम् आलूर् उच्चतरविद्यालयस्थः प्रशान्त् पि राजन् नामकः अध्यापकः तृतीयस्थानेन सम्मानितः।

३६-४६- वयोविभागे केरलानां प्रतिनिधिरूपेणैव अयं संस्कृताध्यापकः मत्सरे भागं जग्राह। मातृभूमि सीड् संघे उत्कृष्टः समायोजकः इति पुरस्कारोपि अनेन समासादितः अभवत्।

पञ्चसप्तति श्लोकान् विलिखन् नारायणः ।

राष्ट्रस्य अमृताघोषकाले नववाणी समस्यालेखनस्पर्धायां पञ्चसप्ततिश्लोकान् विलिख्य मेप्पयूर् प्रदेशस्थो नारायणः सर्वान् विस्मापितः। “स्वतन्त्रं मम भारतम्” इत्यासीत् समस्या । नववाणी संस्कृत आप् इत्यस्य आभिमुख्ये प्रतिसप्ताहं प्रदत्तमाना समस्या एव नारायणाय कवितालेखने प्रचोदिका जाता ।

नारायणः 1953 तमे वर्षे आगस्त् मासस्य 15 तमे दिने मेप्पयूर न रोत्त् भवने भूजातोSभवत् । उक्कारन् नम्ब्यार् अम्मालु अम्मा चास्तां तस्य पितरौ । आविलकुट्टोत्त् प्राथमिकविद्यालयात् ए२वल्लूर् नारायणविलासमाध्यमिकविद्यालयात्तथा पेराम्ब्रा उच्चविद्यालयाच्च प्राप्तविद्यः सः संस्कृताध्यापकपरीक्षायामापि उत्तीर्णोfभवत् । ततः पेराम्ब्रास्थिते कल्पत्तूर् माध्यमिकविद्यालये 1995 तमे वर्षे संस्कृताघ्यापकत्वेन नियुक्तोfभवत्। तत्र चतुस्त्रिंशत् वर्षाणि छात्रान् पाठयन् समाराध्योfभवत् । तत्पुर्वमेव 1990 तमे वर्षे साक्षरताप्रवर्तनेषु निरतः सः तत्प्रवर्तनानां समायोजकत्वेन च प्राशोभत ।
2009 तमे वर्षे अध्यापनकर्मणः विरतोsपि सः अन्तर्जालीय संस्कृतपाठनप्रवर्तनेषु व्यापरन्नस्ति । नववाणीसंस्थया प्रतिसप्ताहं प्रचाल्यमानायां समस्यापूरणस्पर्धायां विना विलम्बं विनायासं नैकानि समस्यापूरणानि लिखन् विधिनिर्णयसमित्या पुरस्कृतश्चासीत्। राष्ट्रस्य स्वतन्त्रतायाः अमृतमहोत्सवस्य शुभदिने तस्यापि जन्मदिनमिति नैवात्र काकतालीयता। साक्षाज्जन्मदिनं स्वाधीनतादिने एव अभवदिति विशेषोfप्यस्ति । तस्मिन्नेवावसरे  ” स्वतन्त्रं मम भारत” मिति समस्यायाः उदयश्च ।  विना विलम्बं पञ्चसप्ततिश्लोकान् विलिख्य कृतार्थश्च सम्पन्नः । सकुटुम्बं पुत्रपौत्रैश्च साकं कृषिकर्मणि तथा संस्कृतसेवने च व्यामग्नः कुट्टोत्त्  मेप्पयू२ग्रामस्थिते नारोत्त्भवने जीवन्नस्ति । तस्मै आयुरारोग्यसौख्यमेव सदा भूयादिति प्रार्थयते नववाणी |

नववाणी समस्या, प्रश्नोत्तरम् इत्यादिभिः स्पर्घाभिः सहृदयान् संस्कृतानुरागिणश्च चोदयन्ती विराजते ।

केरल-संस्कृत-अक्कादमीपुरस्कारः घोषितः।

तृशूर्- केरल-संस्कृत-अक्कादमीपुरस्कारः घोषितः। नाट्यकलाक्षेत्रे सेवामभिलक्ष्य २०२० तमवर्षस्य संस्कृतिपुरस्कारः श्रीमते पी-के० नारायणन् नम्प्यार् वर्याय, संस्कृते भाषापाण्डित्यप्रचारणक्षेत्रे सेवामादृत्य २०२१ तमवर्षस्य पुरस्कारः श्रीमते प्रोफ-कृष्णकुमार् वर्याय च दास्यति।

न्यायभूषणं पी- रामन् नम्प्यार् वर्यस्य नाम्नि तेषां शिष्यप्रवरेण के-टी- माधवन् वर्येण समायोजितः रामप्रभापुरस्कारः श्रीमते हरिप्रसाद् कटम्पूर् वर्याय दास्यति।
१०००० रूप्यकाणि, प्रशस्तिपत्रं फलकं च पुरस्कारे अन्तर्भवन्ति। अस्मिन् मासे २७ तमे दिनाङ्के तृशूर् साहित्य अक्कादमि-वैलोप्रिल्लि वेदिकायां पुरस्कारदानसमारोहः समायोक्ष्यते।

जग्दीप् धनकर् भारतस्य चतुर्दश‌तमः उपराष्ट्रपतिः

नवदिल्ली- भारतस्य चतुर्दशे उपराष्ट्रपतिपदे जग्दीप् धनकर् वर्यः चितः। स ५२८ मतेनैव चितः। विपक्षदलानां स्थानाशी मार्गरट्ट् आल्वा वर्या १८२ मतम् अलभत। १५ सदस्यानां मतम् असाधुरभवत्। ७८० सदस्येषु ७२५ सदस्याः मतदाने भागमगृह्णन्। आमयकारणेन भा ज पा दलस्य द्वौ सदस्यौ मतदानार्थं नागतौ। सण्णी डियोल्, तथा सञ्जय् दोग्रे च तौ सदस्यौ।

तृणमूल् काण्ग्रेस् दलस्य ३७ सदस्येषु केवलं द्वावेव मतदानार्थमागतौ। अन्यैः ३४ सदस्यैः मतदानं बहिष्कृतम्।

आगामिनि गुरुवासरे उपराष्ट्रपतेः सत्यशपथं भविता। जग्दीप् धनकरः अभिभाषकत्वेन संसत्सदस्यत्वेन च प्रथितयशाः भवति। स राजस्थानराज्ये कित्तान देशीयः अस्ति। इतः पूर्वमसौ पश्चिमबंगराज्ये राज्यपालः आसीत्।

चतुर्दिवसपर्यन्तं अतिशक्तां वष्टिं प्रतीक्षते। जागरूकता निर्देशः दत्तः। जलबन्धाः केचन उद्घाटिताः।

तिरुवनन्तपुरम्- राज्ये वर्षाः शक्ताः जाताः। आगामि दिनचतुष्टयं अतिशक्तां वृष्टिं प्रतीक्षते इति केन्द्रीय पर्यावरणनिरीक्षणकेन्द्रस्य सूचना। प्रथमं मध्य-दक्षिण केरलेषु वृष्टिः भविता। क्रमशः उत्तरकेरलेष्वपि वृष्टिः शक्तिं प्राप्स्यति। वयनाट् कासरगोण मण्डले अतिरिच्य अन्यत्र मण्डलेषु वृष्टिजागरूकता घोषिता। तत्रापि तिरुवनन्तपुरं, केल्लं पत्तनंतिट्ट, आलप्पुष इटुक्कि मण्डलेषु कुङ्कुमाङ्गजागरूकता, शिष्टेषु मण्डलेषु पीतजागरूकता च घोषिता।

ह्यस्तनरात्रेः आरभ्य गिरिप्रदेशेषु वृष्टिः अधिका दृश्यते। अतः तत्रत्यवास्तव्याः नितान्तजागरूकतां पालयेयुः इति दुपन्तनिवारण संघस्य सूचना।

वृष्टेः घटना अधिका चेत् केतन जलबन्धाः उद्घाटितव्याः भवेयुः अतः जनैः नितान्तदागरूकैः भाव्यम् इति सूचना अस्ति।

द्रौपदी मुर्मूवर्या भारतस्य राष्ट्रपतिः

नवदिल्ली- भारतस्य पञ्चदशतमे राष्ट्रपतिपदे द्रौपदी मुर्मू वर्या निर्वाचिता। अस्मिन् पदे चिता द्वितीया वनिता भवतीयम्। ओडीषाराज्ये मयूर् भञ्ज् मण्डले उपर् बेडायां सान्ताल् गोत्रविभागे भवति द्रौपदी मुर्मू वर्या।

पार्श्वीकृतदनसमाजात् इच्छाशक्तेः प्रतीकत्वेन भारतस्य परमोन्नतपदव्याम् आगता द्रौपदी मुर्मू वर्या नूतनम् इतिहासं रचितवती। अनुसूचितदनजातिविभागात् इगम्प्रथमतया एका परमोन्नतपदवीं प्राप्नोति।

भूतपूर्वः केन्द्रमन्त्री यश्वन्त् सिह्ना आसीत् अस्याः प्रतिद्वन्दी। द्रौपदी मुर्मू वर्यायाः राष्ट्रपतित्वेन सत्यशपथं आगामिनि सोमवासरे (जूलै २५ दिनाङ्के) भविष्यति।