डाः नारायणः गुरुवायूर् वेदपठनकेन्द्रस्य निदेशकत्वेन नियोजितः ।

गुरुवायूर् देवस्वेन समारब्धस्य वेद संस्कारपठनकेन्द्रस्य निदेश कत्वेन प्रमुख: संस्कृत पण्डितः अनुसन्धाननिपुणश्च डा नारायण ननम्पूतिरि वर्यः अवरोधितः। कोषिकोट सर्वकलाशालातः संस्कृतविभागस्य अध्यक्षपदात् विरतः वैय्याकरणः भवत्ययम् ।

विशत्यधिकासु अन्ताराष्ट्रसङ्गोष्ठीषु तथा सार्धशताधिकासु देशीयगोष्ठीषु च अनेन प्रबन्धाः अवतारिताः वर्तन्ते । मलयालं तथा कलामण्डलं सर्वकला शालयोः अतिथिरूपेण अध्यापकवृत्तिमाचरदयम् महानुभावः।
इदानीं कालटि श्री शङ्कराचार्य संस्कृत सर्वकलाशालायां डीन रूपेण एष प्रवर्तमानः विराजते । पण्डितेन अनेन नैके ग्रन्थाः विरचिताः सन्ति । शाकटायनीयप्रक्रिया, प्रवेशकम् , निबन्ध कुसुमाञ्जलिः’ Perspectives on Astadhyayi and other frontiers of Learming इत्याद्याः तेषु केचन भवन्ति । भट्टि काव्यस्य अनुवादने इदानीमपि व्यापृतस्य तस्य एषा स्थानलब्धि : संस्कृत प्रणयिनां सर्वेषां मोदाय अलम् ।

वित्तकोशात् विरता श्रीमती गीता भवति तस्य पत्नी । अभया पुत्री अभिजित् पुत्रश्च गुरपवनपुरेशस्य अनुग्रहादेव एषा स्थानलब्धिरिति चिन्तयन्नास्ते अयं विनयान्वितः पण्डित 😐

Leave a Reply

Your email address will not be published. Required fields are marked *