Category Archives: News Updates

जेरुसलें नगरम् इस्रायेलस्य राजधानीं कर्तुम् उद्यमः, विरुध्य अरब् राष्ट्राणि यूरोपीयराष्ट्राणि च।

जरुसलें नगरम् इस्रायेलस्य राजधानीं कर्तुं तस्य राष्ट्रस्य अद्यमे तुर्की राष्ट्रपतिः रजब् त्वायिब् उरुदुगान् वर्यः विप्रतिपत्तिं प्राकटयत्। इस्लामिकलोकस्य रक्तरेखास्ति अयं निर्णय इति वदन् स इस्रायेलेन सह नयतन्त्रबन्धं समापयिष्यति इति भीषां च सूचितवान्। इस्लामीयानां तृतीयं विशुद्धकेन्द्रं मस्जिदुल् अख्सा जरुसलेमे अस्ति। तादृशं नगरम् इस्रायेलस्य राजधानीं कर्तुं कृतं निर्णयं विरुध्यैव विश्वव्यापकः प्रतिषेधः। अमेरिक्का नयतन्त्रकार्यालयं टेल् अवीव् तः जेरुसवें नगरं नेष्यति इति अमेरिक्का राष्ट्रपतिः डोणाल्ड् ट्रम्पः न्यगादीत्। ट्रम्पस्य प्रस्तावनां विरुध्य अरब् राष्ट्राणि यूरोपीय राष्ट्राणि च तिष्ठन्ति।

अम्बेद्कराय श्रद्धाञ्जलिः।

नवदिल्ली – कृतज्ञराष्ट्रम् अद्य डो. बीमाराव अम्बेद्करस्य पुण्यतिथौ तस्मै श्रद्धाञ्जलिः समर्पयति। दिवसोsयं महापरिनिर्वाणदिवसत्वेन समायोज्यते। अत्रावसरे सामाजिक-न्यायाधिकारिता-मन्त्रालयस्य तत्वावधाने डो. अम्बेद्करप्रतिष्ठानेन संसदः परिसरे मुख्यकार्यक्रमः समायोजयिष्यते। यस्मिन् जनाः अम्बेद्कराय श्रद्धाञ्जलिं समर्पयिष्यन्ति।

सामान्यविद्याभ्यास-संरक्षणयज्ञः अस्माभिः दृढयितव्यः – शिक्षामन्त्री।

आलुवा – अत्र प्रचलितायां अद्यतनीय- सामान्यविद्याभ्यास-संरक्षणयज्ञस्य समालोचनायां प्राध्यापकैः सह सम्भाषमाणः प्रोफ. सी रवीन्द्रनाथः अकथयत् यत् समाजे पार्श्वीकृतानां रक्षायै समतायै च सामान्यविद्याभ्यासस्य पन्थाः संरक्षणीयाः। पूर्वकाले या अध्यापककेन्द्रीकृता पठनप्रणाली आसीत् सा इदानीं छात्रकेन्द्रीकृता सञ्जाता। सामान्यविद्याभ्यास-संरक्षणे त्रयः स्तराः तेन स्मारिताः। प्रथमं तस्य दर्शनं, द्वितीया प्रवर्तनपद्धतिः, तृतीयस्तु कार्यक्रमाश्च। तस्मिन् संरक्षिते सत्येत सर्वं समाजं संरक्षितं भवेत्, शुचित्वयुक्ता पाकशाला-भोजनशाला, जैववैविद्ययुक्ताङ्कणः, शोचनालयादयश्च सर्वकारीयः तथा इतरविद्यालयेषु अवश्यं स्थापयितव्याः इति च स अस्मारयत्।

     एऱणाकुलं जिल्ला विद्याभ्यासाधिकारी अस्मिन् योगे आध्यक्ष्यम् आवहत्। श्री सुधीर् बेबि ऐ.ए.एस्, श्रीमती जया ऐ.ए.एस् च आशंसाः अर्पितवन्तौ।

बोलीवुड् चलच्चित्रलोके इतिहासतारकं शशिकपूर् वर्यः दिवंगतः।

मुम्बै – वरिष्ठः हिन्दी चलच्चित्रनटः शशिकपूर् दिवंगतः अभूत्। स ७९ वयस्कः आसीत्। वार्धक्येन अवशतामनुभूयमानः अयं मुम्बै कोकिल बेन् चिकित्सालये चिकित्सायामासीत्। सोमवासरे सायाह्ने एव अन्त्यो जातः।शताधिकेषु चलच्चित्रेषु अयं नायकः आसीत्। १९४० कालघट्टे बालतारत्वेन अभिनयरंगं प्राप्तः अयं १९६१ तमे वर्षे याष् चोप्रा वर्यस्य निदेशने धर्मपुत्र इति चलचित्रे प्रथमं नायकः अभवत्। १९८६ तमे वर्षे न्यूडेल्ही टैम्स् इति चित्रे अभिनीय राष्ट्रियपुरस्कारम् अवाप्तवान्। २०१५ तमे वर्षे चलचित्रमण्डलस्य परमोन्नतेन दादासाहेब् फाल्के पुरस्कारेणापि स समादृतो/भवत्।

भोपाल् दुरन्तस्य त्रयस्त्रिंशत्तमं वार्षिकं, क्षतिपूर्तिमलभमानाः बहवः।

भोपाल् वातकदुरन्तानन्तरं ३३ वर्षेषु अतीतेषु न्याय्यां निष्कृतिं तथा उत्तमां चिरित्सां च अलभमानाः दुरन्तबाधिताः नीतिलब्धये संग्रामं कुर्वन्ति।

     आमेरिक्कायाः रासायनिकौद्योगिकसंस्थाभूतस्य यूणियन् कार्बैड् निगमस्य भोपालस्थायां कीटनाशकनिर्माणशालायां संजातः दुरन्त एव भोपाल् दुरन्तः।

     प्रवर्तनमारभ्य अष्टमे वर्षे १९८४ दिसम्बर् २ दिनाङ्के मीथैल् ऐसो सयनेट् वातकपूरितायां सम्भरण्यां जलसान्निध्येन सञ्जातस्य रासप्रवर्तनस्य अनन्तरफलत्वेव सम्भरण्यां तापमानं २०० ड्ग्रि सेल्ष्यस् अधिकं जातम्। अपि च हैड्रजन् सयनेट् कार्बण् मोणोक्सैड् प्रभृतीनि वातकमिश्राणि मीथैल् ऐसो सयनेड् च अन्तरिक्षे व्यापृतानि। वातस्य दिशागत्यनुसारं वातकं भोपाल् नगरम् आसमन्तात् व्याप्तमभवत्। प्रायः ३०००० जनाः मारिताः। द्विलक्षाधिकं जनाः नित्यरोगिणश्च सञ्जाताः। कासः अर्बुदं तिमिरं बालान्धता क्षयरोगः विषादरोगः ज्वरः इत्येतैः रोगैः अभिभूताः दुरन्तबाधिताः तस्यानन्तरफलं परम्परया अद्यापि अनुभूयन्ते।

     विश्वस्य सर्वोच्चः औद्योगिकदुरन्त एव भोपाल् नगरे सञ्जातः। अमेरिक्कायाम् आस्थानभूतः यूणियन् कार्बैड् निगमः अद्यावधि केवलं ७१५ कोटि रूप्यकाणि एव क्षतिपूर्तये अदात्। १००० कोटि रूप्यकाण्यपि दातव्यानि इत्यावश्यमुन्नीय दुरन्तबाधिताः सर्वोच्चन्यायालये व्यवहारं कुर्वन्तः सन्ति।

ओखी दुरन्तः, रक्षामन्त्री निर्मला सीताराम् वर्या अद्य अनन्तपुरीं प्राप्नोति।

अनन्तपुरी- ओखी चक्रवातः दक्षिणकेरले महान्तं दुरन्तमवपत्। अस्मिन् प्रकरणे अत्र सञ्जातानि कष्टनष्टानि अवलोकयितुं केन्द्र-रक्षामन्त्री निर्मला सीताराम महाभागा अद्य अनन्तपुरीं प्राप्नोति। अनन्तपुर्यां व्योमसेना विमानपत्तने सायं त्रिवादने सा आगमिष्यति। अद्य अत्र सञ्जातानि नष्टानि पर्यालोच्य सा कन्याकुमारीं गमिष्यति इति सूचना।

केरलवेलासु भीमोर्मिप्रभावः, तीरदेशवासिनः सावधानाः भवेयुः इति जाग्रतानिर्देशः।

ओखी चक्रवातस्यानुबन्धेन केरलसमुद्रवेलासु १० कि.मी. दूरं यावत् भीमाकाराः कल्लोलाः भविष्यन्तीति वातावरणनिरीक्षणकेन्द्रं तथा भारतीय सामुद्रिकसूचनाकेन्द्रं च सूचयामासतुः। आतीरं शक्तः अवधाननिर्देशश्च दत्तः। वृष्टिः शक्ता भविता, नदीषु जलस्तरम् ऊर्ध्वं गच्छेत् इत्यपि सूचना अस्ति। दक्षिणकेरलस्थासु नदीष्वेव जलोपप्लवः भवेत्। समुद्रोर्मिनाम् उन्नतिः ४.४ मीट्टर् तः ६.१ मीट्टर् पर्यन्तं भवेत्। लक्षद्वीपे दक्षिण तमिल्नाटुक्षेत्रे च समाना स्थितिगतिः भविता इत्यपि सूचनायां व्यक्तं भवति। यद्यपि चक्रवातः लक्षद्वीपं प्रति गतः तथापि केरलतीरे आगामिषु २४होरासु शक्तः कल्लोलः भविष्यति एवं समन्तात् अतिवृष्टिरपि भविष्यति। धीवरैः तीरवासिभिश्च सावधानैः भाव्यम्।

ओखी चक्रवातः शक्तिं प्राप्य लक्षद्वीपं प्रति, राज्ये २४ होराः अवधाननिर्देशः।

अनन्तपुरी-  केरलेषु कोलाहलं विधाय ओखी नामकः चक्रवातः अतिशक्तो भूत्वा लक्षद्वीपं प्रति याति। अद्य प्रातः वातः लक्षद्वीपं प्राप्नोति इत्यनुमन्यते। द्वीपे ४८ होराः जाग्रतानिर्देशो दत्तः। केरलस्य दक्षिणमणडलेषु तीरदेशे २४ होराः जाग्रत्वनिर्देशः अस्ति। धीवराः समुद्रं न गच्छेयुः इति निर्दिष्टाः। कन्याकुमार्यां केरलेषु च इतःपर्यन्तम् अष्टौ मरणानि आवेदितानि।

     ओखी चक्रवातस्य वेगः प्रतिहोरं १३० कि.मी. पर्यन्तं भवेत् इत्यवधाननिर्देशः। आगामिषु होरासु शक्ता वृष्टिः सागरक्षोभश्च भविष्यतीति सूचना अस्ति।

   वंगसमुद्रे रूपवत्कृतं तीव्रं न्यूनमर्दं चक्रवातरूपेण परिणमदासीत्। अनन्तपुरीतः मत्स्यबन्धनार्थं गताः १५० नौकाः न प्रत्यायाताः। साहाय्यार्थं नौसेना सन्नह्यति। तीरदेशात् धीवरान् पुनरावासयतीति  मन्त्रिणी जे मेय्सिक्कुट्टियम्मा महाभागा अवदत्।

देशीय-संस्कृत-विचारसभा।

सामान्यशिक्षाविभागस्य निर्देशानुसारं राज्य-संस्कृतशिक्षकसमितेः आभिमुख्ये एकदिनात्मिका राष्ट्रिय-संस्कृतसागोष्ठी अनन्तपुर्यां सुसम्पन्ना अभवत्। वी.जे.टी.हाल् मध्ये प्रचलितायाः सङ्गोष्ठ्याः उद्घाटनं भूतपूर्वः मुख्यसचिवः तथा संस्कृतविश्वविद्यालयस्य प्रथमः उपकुलपतिश्च डो. आर्. रामचनंद्रन् नायर् वर्यः निरवहत्। राज्य- शैक्षिकानुसन्धानप्रशिक्षणपरिषदः निदेशकः डो. जे. प्रसादः अध्यक्षः आसीत्। सामान्य-शिक्षा विभागस्य अतिरिक्तनिदेशकः जिम्मी.के.जोस् सर्वेभ्यो स्वागतम् अशशंसत्। संस्कृतविशिष्ठाधिकारिणी डो. टी.डी. सुनीतीदेवी महाभागा कृतज्ञतां च व्याहरत्। तिरुवनन्तपुरं शिक्षा उपनिदेशिका रमणी, संस्कृतं रिसर्च् आफीसर् वी. श्रीकण्ठः संस्कृतसमितेः कार्यदर्शी डो. सुनिल्कुमार् कोरोत् प्रभृतयः आशंसाम् अर्पितवन्तः।

अनन्तरं विचारसभा सम्पन्ना। डो.पी. नारायणन् नम्पूतिरी प्रोफ. वी. माधवन् पिल्ला महोदयौ प्रबन्धौ प्रास्तौताम्। केरलकलामणडलस्य रजिस्ट्रार् डो. के.के. सुन्दरेशः चर्चामनयत्।
मध्याह्नात् परं कोट्टण् हिल् विद्यालयीयैः छात्रैः मध्यमव्यायोगं रूपकं वेदिकायाम् अवतारितम्।

गोविक्रयनिरोधः- विवादविज्ञापनं प्रतिगृह्णाति।

नवदिल्ली – मांसार्थं गवां विक्रयणस्य निरोधपूर्वकं प्राशासनिकविज्ञापनं केन्द्रसर्वकारः प्रतिगृह्णाति। विविधानां राज्यसर्वकाराणाम् अभिप्रायं परिगणय्यैव विवादं विज्ञापनं प्रतिग्रहीतुं केन्द्रसर्वकारः निरणयत्। एनं निर्णयं केन्द्र-वनं- परिस्थितिमन्त्रालयः नियममन्त्रालयं व्यजिज्ञपत्।

नवीनां भेदगतिमन्तर्भूय इतरं विज्ञापनं प्रसारयितुमेव सर्वकारः प्रयतते। गते जूलै मासे विवादं विज्ञापनं सर्वोच्चन्यायालयेन स्थगितमासीत्। तदनन्तरमेव राज्यसर्वकाराणाम् अभिप्रायं केन्द्रसर्वकारः आमन्त्रयत्।