Category Archives: News Updates
ओखी दुरन्ते मृतानां संख्या ६४, प्रत्यभिज्ञां विना ३६ मतशरीराणि।
तिरुवनन्तपुरम् – ओखी दुरन्ते इतः पर्यन्तं ६४ कर्मकराः मृताः इति औद्योगिकी विज्ञप्तिः। बुधवासरे प्रातः विविधजिल्लासु सागरतीरेभ्यः सप्त मृतदेहाः लब्धाः। बेप्पूर् पोन्नानि चेल्लानं प्रभृतिभ्यः तीरेभ्यः एव एते लब्धाः। सागरे मत्स्यबन्धनार्थं गताः कर्मकराः एव मृतदेहान् दृष्टवन्तः। तेषां सूचनानुसारं तीरदेशरक्षिदलम् आगत्य मृतशरीराणि तीरमनयत्।
एतस्मिन्नन्तरे राज्यस्थेषु विविधेषु चिकित्सालयेषु विना प्रत्यभिज्ञानं ३६ मृतदेहाः सन्तीति अधिकृतैः विज्ञापितम्।
सौदि-अरबियाराज्ये चलचित्रनिरोधनस्य समाप्तिः।
पूर्वसंस्कृतिज्ञानं संस्कृते एव, शङ्कराचार्यः विज्ञानस्य प्रतीकम्, – मुख्यमन्त्री।
अस्माकं संस्कृतेः अधिष्ठानं संस्कृतभाषा एव तां भाषां न्यूनीकर्तुं य़ः परिश्रमः सः विज्ञानस्य पिधानसमः स्यात् इति केरलमुख्यमन्त्री श्री पिणरायि विजयःअवदत्। विज्ञानेन दिग्विजयमवाप्तवान् शङ्कराचार्यः। विज्ञानेन अन्धकारनिरासरूपी आसीत् तस्य दिग्विजययात्रा। शङ्राचार्यस्य नामधारिणः विश्वविद्यालयस्य लक्ष्यम् उत्तरदायित्वं च तादृश एव भवेत् इत्यपि स न्यगादीत्।कालटी सर्वकलाशालायाः रजतजयन्ती समारोहम् उद्घाटनं कुर्वन् भाषमाण आसीत् मुख्यमन्त्री। उपकुलपतिः डो. धर्मराज अटाट् अध्यक्षः आसीत्। भूतपूर्वाः उपकुलपतिवर्याः समारोहे समादृताः।
ओखी दुरन्ते फ्रान्सिस् मार्पापा अन्वशोचत्।
वत्तिक्कान् – ओखी दुरन्ते अनुशोचनम् आशङ्कां च सूचयन् क्रैस्तवानां परमाध्यक्षः फ्रान्सिस् मार्पापा। केरले तमिल् नाटु राज्ये च दुरितमनुभवद्भिः सहैव मम हृदयमपीति मार्पापा वर्यः वत्तिक्कान् नगरे अवोचत्। तिरोभूतानां मत्स्यबन्धनकर्मकराणां परिवारेभ्यः सः स्वकीयं साहाय्यम् आवेदयत्। सेय्न्ट् पीट्टेर्स् चत्वरे प्रार्थनायाः अनन्तरमेव मार्पापा ओखी दुरन्तबाधितान् अन्वस्मरत्।
राजभवनं प्रति मत्स्यबन्धनकर्मकराणां पथसञ्चलनं प्रारभत।
तिरुवनन्तपुरम् – ओखी दुरन्तनिवारणप्रवर्तनेषु केन्द्र-राज्य प्राशासनिकानां दायित्वं फलप्रदं नास्तीति संसूच्य मत्स्यबन्धनकर्मकराणां राजभवनपथसञ्चलनं आनन्तपुर्यां प्रारभत। प्रातः ११.३० वादने लत्तीन् क्रैस्तवीयानां सभाध्यक्षः डो.एं सूसैपाक्यं पथसञ्चलनम् उदघाटयत्। पथसञ्चलने ५०००० अधिकाः कर्मकराः भागं गृहीताः। दुरन्ते तिरोभूतान् कर्मकरान् सपदि गोचरान् कर्तुं सुविधा आयोजनीया, ओखी राष्ट्रियदुरन्तत्वेन परिगणनीया, नष्टमनुभूतान् पुनरधिवस्तुं पद्धतयः आसूत्रणीयाः इत्येवमादयः तेषां चोदनाः।
राज्यस्तरीय-विद्यालयकलोत्सवार्थं तृशिवपुरनगरं सज्जम्।
तृशूर्- ५८तमः केरलराज्यस्तरीयः विद्यालयकलोत्सवः जनुवरी मासे तृशूर् नगरे सम्पत्स्यते। कलोत्सवस्य मुख्यवेदिकायाः स्थूणारोहणं कृषिमन्त्री श्री सुनिल् कुमार् वर्यः निरवहत्। तृशूर् तेक्किन् काट् प्रदर्शिका स्थलमेव मुख्यवेदिका। तृशूर् जनपदीयानां सामाजिकानां सान्निध्ये आसीत् स्थूणारोहणम्। अत्रत्याः जनाः सन्तोषेण कलोत्सवं प्रतीक्षन्ते इति मन्त्री अवदत्।
डो. धर्मराज् अटाट् कालटिसर्वकलाशालायाः उपकुलपतिः।
श्रीशङ्कराचार्य संस्कृतसर्वकलाशालायाः उपकुलपतित्वेन डो. धर्मराज् अटाट् महाभागःस्थानारूढः। गतान् त्रिचतुरान् मासान् यावत् स उपकुलपतेः अतिरिक्तदायित्वे आसीत्। कालटि श्रीशङ्कराचार्यसंस्कृतसर्वकलाशालायाम् अध्यापकपदवीमलंकृतः अयं साहित्यविभागे अध्यक्षः, संस्कृतप्रचारणकार्यक्रमस्य निर्वहणाधिकारी इत्यादिषु पदवीषु स्वकर्तव्यं प्रशस्तरूपेण निरवहत्।अनन्तरम् अतिरिक्तोपकुलपतिरूपेण कर्तव्ये निरतः असीत्। संस्कृतपण्डित एव संस्कृतसर्वकलाशालायाः उपकुलपतिः जातः इत्येतत् संस्कृतप्रेमिणाम् अभिमानास्पदं भवति। श्रीमते धर्मराज् अटाट् वर्याय नववाण्याः हार्दिकाः शुभकामनाः।
गुजरातनिर्वाचनस्य प्रथमघट्टः।
अन्ताराष्ट्र चलचित्रोत्सवस्य अद्य शुभारम्भः।
अनन्तपुरी – अन्ताराष्ट्रिय चलचित्रोत्सवस्य अद्य अनन्तपुर्यां शुभारम्भः। सियाद् दौयिरी वर्यस्य निदेशने द इन्सल्ट् इति लेबनीस् चलच्चित्रं प्रदर्शयन् एव अष्टदिनात्मकस्य उत्सवस्य आरम्भः क्रियते। निशागन्धी वेदिकायाम् अद्य उद्घाटनानन्तरं सायं षट् वादने चित्राणि प्रदर्शयिष्यति। माधवी मुखर्जी प्रकाश् राज् प्रभृतयः भागं भजिष्यति।
१४ वेदिकायां ४४५ चित्राणि अस्मिन्नुत्सवे प्रदर्शयिष्यन्ति , तानि ६५ राष्ट्रेभ्यः आगतानि।दिदृक्षूणां कृते आरक्षणसुविधा आयोजिता।
ओखी चक्रवातेन बाधितानां कृते १५० कोटिमितसहायपद्धतिः प्रख्यापितः।
तिरुवनन्तपुरम् – ओखी चक्रवातेन मृतानां परिवाराय २०लक्षरूप्यकाणि एवम् दुराबाधितानां कृते च आहत्य १५० कोटिमिता साहाय्यपद्धतिः केरलसर्वकारेण प्रख्यापितः। तदन्तरे गुजरातस्य तटवर्तिक्षेत्रे अस्य प्रभावः नैव भविष्यतीति सम्भाव्यते। परं अहम्मदाबादस्थितेन ऋतुविज्ञानविभागेनोक्तं यत् दक्षिणगुजराते चक्रवातस्य किञ्चित् प्रभावः भवितुं शक्यते।














