Category Archives: News Updates
आङ् सान् स्यूची वर्यायाः ओक्स्फोर्ड पुरस्कारं प्रत्यपाययत्।
म्यान्मर् देशे ऱोहिङ्ग्यवंशीयान् प्रति सञ्जातानि आक्रमणानि निरोद्धुं परिश्रमः न कृतः इति कारणेन आङ् सान् स्यूची वर्यया प्राप्तः ओक्सफोर्ड् पुरस्कारः प्रतिगृह्यते। ओक्स्फोर्ड महानगरसमित्याम् ऐककण्ठ्येन जातः निर्णयो भवत्ययम्। १९९७ तमे वर्षे आसीत् तस्याः समाधानपुरस्कारप्राप्तिः।
भीकरां वंशहत्यामेव म्यानमर् देशे प्रचलतिॆ। षड्लक्षाधिकाः रोहिङ्ग्याभयार्थिनः बंग्लादेशंप्रति पलायिताः। राष्ट्राधिपतिः सत्यपि स्यूची तस्मिन् विषये निस्सङ्गा आसीत्, सा एतामवस्थां न दृष्टवती इति महानगरसमितिः प्रास्तावयत्। रोहिङ्ग्यानां मानवाधिकारसंग्रामे अनेन निर्णयेन समितिरपि भागभग्भवतीति महानगरसमित्या व्यक्तीकृतम्।
ओक्स्फोर्ड् मध्ये विद्यार्थी आसीत् स्यूची। तत्र तस्याः छायाचित्राणि नाम च आलेखितानि आसन्। तानि पूर्वमेव निष्कासितानि अभवन्।
संस्कृतविचारसभा श्वः सम्पत्स्यते ।
संस्कृतभाषां जनकीयां कृत्वा भाषां साहित्यं च नवीनपरम्पराभ्यः संक्रामयेत् इत्युद्देश्येन केरलीय सामान्यशिक्षाविभागेन आयोज्यमाना राष्ट्रियसंगोष्ठी श्वः अनन्तपुर्यां विक्टोरिया जूबिली तिय्येट्टर् नामिकायां वेदिकायाम् प्रचलिष्यति।
प्रातः १० वादने सामाजिकस्य वि.एस्. शिवकुमार् वर्यस्य आध्यक्ष्ये विद्याभ्यासमन्त्री प्रोफ. सी. रवीन्द्रनाथवर्यः संगोष्ठ्याः उद्घाटनं निर्वक्ष्यति। नगरपालः वी.के.प्रशान्तः मुख्यातिथिः भविता। भूतपूर्वः मुख्यसचिवः आर् रामचन्द्रन् नायर् मुख्यभाषणं च विधास्यति। संस्कृतसंगोष्ठीनाम् आमुखभाषणं राज्य शैक्षिकानुसन्धानप्रशिक्षणपरिषदः निदेशकः डो. जे. प्रसादः कर्ता। भाषाशास्त्रनियमाः इति विषये डो. पी. नारायणन् नम्पूतिरिवर्यः तथा संस्कृतभाषायाः समकालीना प्रसक्तिः इति विषये प्रो. वी. माधवन् पिल्लावर्यः च प्रबन्धौ प्रस्तोष्यतः।
पद्मावती चलच्चित्राय ऐक्यदार्ढ्यं विना कैरली चलचित्रमण्डलम्, कल्मषदिनाचरणात् व्यत्यचलत्।
कोच्ची- पद्मावती इति चलचित्रं तस्य निदेशकं लीला बन्साली वर्यं च विरुद्ध्य क्रियमाणेन प्रतिषेधेन आविष्कारस्वातन्त्र्यं हन्यते इति वादमुदीर्य आराष्ट्रं चलचित्रमण्डलं ह्यस्तने १५ निमेष पर्यन्तं चित्रीकरणं स्थगयन् प्रतिषेधं प्राकटयत्। परन्तु तस्मात् प्रतिषेधात् मलयालचलचित्रप्रवर्तकाः व्यतिचक्रमिरे। पञ्च चलचित्राणां चित्रीकरणानि अत्र प्रचलन्ति आसन्। क्वचिदपि प्रतिषेधशब्दं न श्रुतमित्येतत् अत्रत्यानां प्रतिषेधः केवलं वाचिमात्रमेवेति दृढमभवत्।
पेरुम्पटवं श्रीधरस्य ‘ओरु सङ्कीर्तनं पोले’ इत्याख्यायिका शततमं मुद्रणं याति।
अनन्तपुरी – कैरलीसाहित्ये अतिविख्याता ओरु सङ्कीर्तनं पोले इत्याख्यायिका शततमं मुद्रणं याति। चत्वारिंशत् वर्षाभ्यन्तरे एतावत्पर्यन्तं मुद्रणं भारतीयसाहित्यमण्डले अपूर्वमेव भवति। इतःपर्यन्तं लक्षद्वयम् अनुकृतयः प्रसिद्धीकृताः इत्येतेन करलीनोबल् मध्ये इदं उत्तमविकेतृपदं प्राप। पादशतकाभ्यन्तरे अस्य स्थानं केनापि नोबलेन नातिक्रान्तम्।
अस्याः आख्यायिकायाः शततमस्य मुद्रणस्य प्रकाशनं दिसम्बर् १० दिनाङ्के मुख्यमन्त्री पिणरायि विजयः तिरुवनन्तपुरं मुद्रणसमाजालये निर्वक्ष्यति।
अद्य संस्थापनादिनम्। विश्वविद्यालयेषु विशेषकार्यक्रमान् आयोजयिष्यति।
नवदिल्ली – रविवासरे भारतं संस्थापनादिनम् आचरति। अस्य भागत्वेन आराष्ट्रं विश्वविद्यालयेषु विशेषकार्यक्रमाणाम् आयोजनाय विश्वविद्यालयानुदानायोगः निरदिशत्। प्राशासनिककार्यालयेषु विद्यालयेषु च गुरुवासरे प्रातः संविधानस्य उपोद्घातं पठितुमपि निरदिशत्। सर्वेषु विद्यालयेषु आधारभूतानि कर्तव्यानि इति विषये कक्ष्यामपि चालयिष्यति। एतत् सूचनाफलके प्रदर्शयिष्यति च।
राज्ये मीसिल्स्-रूबेल्ला निवारकौषधानां प्रदानाय कालपरिधिः दीर्घिता।
अनन्तपुरी – मीसिल्स्-रूबल्ला रोगयोः निवारणार्थं दीयमानं सूच्यौषधं प्रदातुं समयपरिधिः डिसम्बर् प्रथमदिनं यावत् दीर्घिता। पूर्वं द्विवारम् एवं दीर्घिता आसीत्। परन्तु सर्वकारस्य लक्ष्यं सफलं न जातमित्यतः निवारकसूच्यौषधप्रदानाय समयपरिधिः पुनरपि दीर्घिता।
नवमासादारभ्य पञ्चदशवर्षं यावत् वयस्काः ७६ लक्षं आर्भकाः राज्ये सन्ति। तेषां सर्वेषां सूच्यौषधदानमासीत् प्राशासनिकं लक्ष्यम्। परन्तु ६१ लक्षम् अर्भकेभ्य एव इतः पर्यन्तम् अौषधं दत्तम्। एतत् लक्ष्यस्य ८३ शतमितमेव।
इस्रायेल् प्रधानमन्त्री चतुर्दिवसीयसन्दर्शनार्थं भारतमायाति।
जेरुसलेम्- इस्रायेल् प्रधानमन्त्री बेञ्चमिन् नेतन्याहू वर्यः भारतसन्दर्शनार्थं सज्जः भवति। चतुर्दिवसीयसन्दर्शनार्थं स जनुवरिमासस्य १४ तमे दिनाङ्के भारतं प्राप्स्यति। भारतप्रधानमन्त्रिणः नरेन्द्रमोदी वर्यस्य इस्रायेल् सन्दर्शनात् परं मासषड्कमतीते सति इस्रायेल् प्रधानमन्त्री भारतसन्दर्शनार्थं यतते।
२००३ तमे वर्षे तदानीन्तनः प्रधानमन्त्री एरियल् षारोण् महाभागः भारतपर्यटनं कृतवानासीत्। ततः १५ वर्षात् परमेव अधुनातनः प्रधानमन्त्री भारतमायाति। १९९२ तमे वर्षे नयतन्त्रबन्धस्थापनात् परं भारतं संदृश्यमानः द्वितीयः प्रधानमन्त्री भवति बेञ्चमिन् नेतन्याहू।
राष्ट्रपतिभवने सामान्यजनानामपि प्रवेशानुमतिः।
नवदिल्ली – भारतराष्ट्रपतेः औद्योगिकवसतौ राष्ट्रपतिभवने इतःपरं सामान्यजनानामपि सन्दर्शनानुमतिः। अनेन सामान्यजनाः राष्ट्रपतिभवनस्यान्तः प्रवेष्टुं शक्नुवन्ति। प्रतिवारं गुरुवासरादारभ्य रविवासरपर्यन्तं चतुर्षु दिनेषु सन्दर्शनं साध्यं भवति। तदर्थं प्रतिशीर्षं ५०रूप्यकाणां चीटिका स्वीकर्तव्या। बालानां कृते अवमोकः वर्तते। प्रातः ९ वादनतः सायं ५ वादनपर्यन्तं सन्दर्शनं कर्तुं शक्यते। प्रवेशार्थं भारतीयाः प्रतिच्छायायुक्तम् अभिज्ञापत्रं समर्पयेयुः। वैदेशिकानां कृते पारपत्रम् (Passport) आवश्यकम्।
“सैबर्-स्पेस्” द्विदिवसीयं विश्वसम्मेलनं नवदिल्ल्याम्।
नवदिल्ली – सैबर् स्पेस् इति संगणक-संजालमधिकृत्य द्विदिवसीयं वैश्विकसम्मेलनम् अद्य नवदिल्लयां समारभते। प्रधानमन्त्री श्री नरेन्द्रमोदी एतत्सम्मेलनस्य समुद्घाटनं विधास्यति। सम्मेलनमिदं इदम्प्रथमतया भारते समायोज्यते। सम्मेलनस्य मुख्यविचारबिन्दुरस्ति “स्थायि-प्रगतेभ्यः सर्वेभ्यः सुरक्षितं सौगणिक-संजाल-सौविध्यम्” इति। सम्मेलने∫स्मिन् सपादशतदेशेभ्यः दशसहस्राधिकाः विश्वनेतारः नीतिनिर्मातारः, उद्योगपतयः, चिन्तकाः, संगणकविशेषज्ञाः च विभिन्नान् विषयबिन्दून् अधिकृत्य स्वीयमुद्गारं प्रकाशयिष्यन्ति।
भविष्यनिधिं विना ३०८८ भाषाध्यापकाः|
तृशूर् – प्राशासनिकविद्यालयीयाः ३०८८ अध्यापकाःभविष्यनिधौ अङ्गत्वमलभमानाः क्लेशमनुभवन्ति। माध्यमिकस्तरे हिन्दी, संस्कृतम्, अरबी,उर्दू, तमिल् कन्नट भाषाणाम् अध्यापकाः एव भविष्यनिधेः आनुकूल्यात् बहिष्कृताः। पी.एस्.सी. संस्थया सर्वकारीण विद्यालयेषु नियुक्ताः अर्धसमयिकाः पूर्णसमयानुकूल्ययुक्ताश्च भाषाध्यापकाः विद्यालयेषु वर्षाणि यावत् कर्म कुर्वन्तः भवन्ति। परम् सर्वकारसाहाय्यक वैयक्तिकविद्यालये समकाले नियुक्ताः अध्यापकाः भविष्यनिधेः आनुकुल्यं लभन्ते। सर्वकारविद्यालयस्थानाम् अध्यापकानामपि भविष्यनिधिमायोजयितुं नियमस्य परिवर्तनार्थं आर्थिकविभागेन चतुर्वारं पत्रं प्रेषितम्। तथापि शिक्षाविभागेन इतः पर्यन्तं निर्णयो न स्वीकृतः।
अर्धसमयरूपेण पञ्चवर्षाणि कर्म कुर्वन्तः अध्यापकाः पूर्णसमयानुकूल्यानि लभेरन्। परन्तु एकादशवर्षाणि यावत् एतदानुकूल्यम् अलभमानाः बहवः सन्ति अध्यापकाः। इतरकर्मकरेभ्यः सामयिककर्मकरेभ्यश्च एतदानुकूल्यं दीयते, परन्तु अध्यापकेभ्यः न दीयते। कार्यमेतत् परिगणनार्हमिति शिक्षा मन्त्री प्रोफ. सी. रवीन्द्रनाथः अवोचत्।












