Category Archives: News Updates
कथाकारः एम्. सुकुमारन् दिवंगतः।
तिरुवनन्तपुरम्- स्वसाहित्यरचनासु विप्लवराजनैतिकमूल्यानां स्थानं दत्तवान् कथाकारः तथा नोवल् कारश्च एम्. सुकुमारन् वर्यः कालयवनिकान्तर्गतः। स ७५ वययस्कः आसीत्। तीव्रज्वरसन्निपातेन श्रीचित्रा चिकित्सालये चिकित्सायामासीत्। ह्य रात्रौ सपादनववादने आसीदन्त्यम्। गतसप्ताहे हृदयसम्बन्धिशल्यचिकित्सायाः परं विश्रमं कुर्वन्नासीत्।
राज्यस्तरीयः कथापुरस्कारं,केरल साहित्य अक्कादमी पुरस्कारं, केन्द्रसाहित्य अक्कादमीपुरस्कारं च प्राप्तवान्।
पाठ्यपुस्तकानि मोबैल् आप् द्वारा, सेल्फी मोबैल् आप् इति नूतनपरियोजनया सह शिक्षाविभागः।
तिरुवनन्तपुरम्- सेल्फी मोबैल् आप् परियोजनया सह केरलीय शिक्षाविभागस्य नूतनपदविन्यासः। प्रथमतः द्वादशपर्यन्तं कक्ष्यायाः पाठपुस्तकानि आप् मध्ये लभ्स्यन्ते। छात्राः अध्यापकाश्च संयुज्य मोबैल् प्रयुक्तिं याथार्थ्यमकुर्वन्। आधुनिकपठनसङ्केतानि छात्रेभ्यः लभेरन् इति बुद्ध्यैव इदं मोबैल् आप् इति शिक्षामन्त्री प्रोफ. सी. रवीन्द्रनाथवर्यः अवोचत्।
राज्यस्थाः प्रथमतः द्वादशपर्यन्तं कक्ष्याः उच्चसाङ्केतिकरूपेण परिवर्तयन्ति। जीवनस्य सर्वेषु तलेषु आधुनिकीकरणं संजायमानं वर्तते। तस्य भागत्वेन छात्रेष्वपि तत् प्रापयत् इत्येव सेल्फी मोबैल् आप् दर्शयति। आप् शिक्षामन्त्री अनन्तपुर्यां प्राकाशयत्।
प्रथमघट्टे SSLC परीक्षायाः अन्तिमसज्जतायै सहायकरूपेण इदं निर्मितम्। ततः प्रथमतः द्वादशकक्ष्या पर्यन्तं सर्वान् विषयान् आप् मध्ये योजयिष्यति।
भारते पीडनं, पाकिस्तानः भारतात् स्थानपतिम् अन्वाह्वयत्।
इस्लामबाद्- भारतीयाधिकृताः पीडयन्तीति आरोपणमुन्नीय पाकिस्तानः भारतात् स्वस्थानपतिम् अन्वाह्वयत्। पाकिस्तानस्य स्थानपतिं सोहियल् मुहम्मद् वर्यमेव एवम् अन्वाह्वयति स्म। सेवकानां सुरक्षाकार्ये भारतस्य अवधानता जाग्रता वा नास्तीति पाकिस्तानस्य विदेशकार्यवक्ता मुहम्मद् फैसल् अन्वारोपयत्। पाक् सेवकाः तेषां परिवाराश्च गतसप्ताहे बहुवारं पीडिताः इति तेन सूचितम्। पाकिस्तान् उपस्थानपतेः यानं केचन अनुगताः चालकं व्यनिन्दयन् चेति पाकिस्तान् प्रवक्ता अवदत्।
परन्तु भारते कर्म कुर्वतां पाक् सेवकानां सुरक्षा नियता इति भारतप्रतिनिधयः अवदन्। परं भारतप्रतिनिधयः पाकिस्तानेन पीडिताः भवन्ति इति भारतमपि आरोपणम् अकरोत्।
विख्यातः शास्त्रज्ञः स्टीफन् होक्किङ् दिवंगतः।
लण्टन् – विख्यातः शास्त्रज्ञः तथा विश्वप्रसिद्धः प्रपञ्चगवेषकश्च स्टीफन् होक्किङ् वर्यः दिवंगतः। स ७६ वयस्कः आसीत्।
शरीरशोषकरूपस्यापूर्वस्यामयस्य पीडा आसीच्चेदपि दैहिकावशतां विगणय्य प्रपञ्चरहस्यसम्बन्धिनः निरीक्षण- गवेषणादयः तेन कृताः। आविश्वं शास्त्रनिरीक्षकाणां गवेषकाणाञ्च प्रचोदकमासीदस्य जीवनम्। तमोगर्तं कथं रूपवत्करोति इति शास्त्रीयविशकलनं होक्किङ् वर्यं विश्वप्रसिद्धमकारयत्। हिस्टरी आफ् टैम्स् इति अस्य ग्रन्थेषु मुख्यं भवति।
लक्षद्वीपं प्रति जलयानसौविध्यं निरुद्धम्, मत्स्यबन्धननौकाः कूलं नीताः।
तिरुवनन्तपुरम्- बेप्पूर् नौानिस्थानात् लक्षद्वीपं प्रति आयोजितं जलयानं निरोद्धुं निर्देशः। केरलतीरे न्यूनमर्दं शक्तमभवदिति कारणेन जाग्रतारूपेणायं निर्देशःकल्पितः। महतीवृष्टिः तथा सागरक्षोभश्च भविता इत्यतः मत्स्यबन्धनार्थं गताः नौकाः लक्षद्वीपतीरं प्रापयत्। जाग्रतानिर्देशानुसारमेवेदं कर्म। केरलतीरे शक्तः चक्रवातः भविष्यतीति वातावरणनिरीक्षणकेन्द्रस्य जाग्रतानिर्देशः अस्ति। चक्रवातस्य वेगः प्रतिहोरं ६५ कि.मी. मितं भविष्यतीति निरीक्षणकेन्द्रस्य सूचना।
इरिङ्गालक्कुटायां समादरणं, प्रमाणपत्रवितरणञ्च।
इरिङ्गालक्कुटा – विद्याभ्यासजिल्ला-अक्कादमिक-समितेः आभिमुख्ये सामान्यविद्याभ्यासविभागस्य धिषणावृत्तिपरीक्षायां विद्याभ्यासजिल्लास्तरीयाणां विजेतृृणां छात्राणां कृते प्रमाणपत्रवितरणं, नववाण्याः स्थापकस्य श्री जोस् महोदयस्य कृते समादरणं, सेवनात् विरामं प्राप्तस्य संस्कृताध्यापकस्य गोपालकृष्णस्य कृते पुरस्कारसमर्परणं च संयुक्ततया अत्र बि.आर्.सि. हाल् मध्ये आयोजितायां घटनायामद्य सुसम्पन्नम्। घटनायामस्यां इरिङ्गालक्कुटा विद्याभ्यासजिल्लाधिकारिणी श्रीमती उषाराणी महाभागा आध्यक्ष्यमावहत्। भागवतश्री वि.बि. माधवन् नम्पूतिरिः अधिवेशनस्य उद्घाटनं विशिष्टातिथीनां समादरणं च कृतवान्। कौण़्सिल् कार्यदर्शी के.डि. बिजुः स्वागतभाषणं कृतवान् श्री टि.टि.के भरतः सुरेष् बाबुः, रामचन्द्रः, हिविन् राज्, एं.बि. अशोकः प्रभृतयः भाषणमकुर्वन्।
अभियाचनाः अङ्गीकृताः, महाराष्ट्रायां कृषकप्रक्षोभः प्रत्याकृष्टः।
मुम्बै- कृषकाणाम् अभियाचनाः अवश्यं परिगणनीयाः इति सर्वकारस्य वाग्दानात् पश्चात् महाराष्ट्रायां कृषकैरायोजितः प्रक्षोभः समापितः। मुख्यमन्त्रिणा देवेन्द्रफट्नाविस् वर्येण सह कृषकाणां प्रतिनिधयः चर्चायां भागं गृहीताः। चर्चानन्तरं रूपवत्कृतायाः समयायाः आधारेणैव प्रक्षोभः प्रत्याकृष्टः। कृषकैरुन्नीतानि आवश्यकानि प्रायः सर्वाणि अङ्गीकृतानि इति मुख्यमन्त्री देवेन्द्र फट्नाविस् वर्यः अवोचत्।
महाराष्ट्रायां नासिक् देशात् षष्ठे दिनाङ्के आरभ्य १८० किलोमीट्टर् दूरं पथसञ्चलनं कृत्वैव कृषकाः मुम्बैमहानगरं प्राप्ताः। समरस्य आलम्बः अङ्गबलं च वर्धमानम् अनुपश्यैव कर्षकनेतारः चर्चार्थमाहुताः। कर्षकसभायाः आबालवृद्धं जनाः प्रक्षोभे भागं गृहीताः आसन्।
तमिल् नाटु तेनी प्रदेशे दावाग्निबाधा, छात्रसंघः काननमध्ये स्थगितः।
वातावरणव्यतियानं प्रतिरोद्धुमुपायाः वेदेषु सन्ति। – प्रधानमन्त्री।
नवदिल्ली- वातावरणव्यतियानं प्रति आयोधनं कर्तुं मार्गः वेदेष्वस्तीति प्रधानमन्त्री नरेन्द्रमोदी अवदत्। अन्ताराष्ट्र सौरोर्जसख्यस्य स्थापकाधिवेशने भाषमाण आसीत् प्रधानमन्त्री। राष्ट्रपतिभवने सम्पन्ने अधिवेशने फ्रान्स् प्रधानमन्त्री इम्मानुवल् मार्षिण् वर्यः अपि वेदिकाय़ाम् उपस्थितः आसीत्।
वेदाः सूर्यं लोकस्यात्मरूपेण पश्यन्ति। सूर्य एव जीवान् परिपालयति।वातावरणव्यतियानस्य दूष्याणि अनुभूयमाने अस्मिन् साहचर्ये परिहारत्वेन वेदनिर्देशाः परिगणनीयाः इति प्रधानमन्त्री सूचितवान्। सौरोर्जोपभोगवर्धनाय पद्धतयः आसूत्रणीयाः। तदर्थं सूचनासाङ्केतिकविद्या उपयोक्तव्या। ततः नूतनः उपगमः लभेत इत्यपि प्रधान मन्त्री अब्रवीत्। ऐक्यपाष्ट्रसभा मुख्यसचिवः अन्टोणियो गुट्टेरस्, वेनिस्वला राष्ट्रपतिः निकोलस् मदूरा, विदेशकार्य मन्त्री सुषमा स्वराजः प्रभृतयः भागमभजन्। अन्ताराष्ट्र- सौरोर्ज-सख्यस्य(ISA) प्रथमसम्मेलने ५० राष्ट्रेभ्यः प्रतिनिधयः समागताः आसन्।
उत्तरप्रदेशे अम्बेद्कर् प्रतिमां प्रति पुनरपि आक्रमणम्।
लखनौ- उत्तरप्रदेशे पुनरपि प्रतिमाभञ्जनम्। असंगड् देशस्थाम् अम्बेद्कर् प्रतिमामेव भग्नामपश्यत्। अम्बेद्कर् प्रतिमां प्रति द्वितीयवारमेव आक्रमणं सञ्जातम्। पूर्वं मीरट् देशे प्रतिमां विकृतां करोति स्म।
त्रिपुरा राज्ये निर्वाचनानन्तरमेव राष्ट्रे प्रतिमां प्रति आक्रमणं जातम्। प्रथमं त्रिपुरायां केचन लेनिन् प्रतिमाम् अभञ्जयन्नासीत्। पुनः तमिल् नाटु राज्ये पेरियार् इति ई.वी.रामस्वामी वर्यस्य तथा कोल्कत्तायां श्यामप्रसादमुखर्जिनश्च प्रतिमा भञ्जिता आसीत्। केरले अपि कण्णूर् देशे महात्मागान्धिनः प्रतिमां प्रति आक्रमणं जातम्।












