Category Archives: News Updates
संस्कृतप्रचारार्थं प्रामुख्यं दत्वा कालटी संस्कृत-विश्वविद्यालयस्य अर्थसङ्कल्पः।
कालटी- संस्कृतप्रचारः गवेषणविकासः अङ्कीयवत्करणं च लक्ष्यीकृत्य संस्कृतसर्वकलाशालायाः अर्थसङ्कल्पः। २०८.३९ कोटि रूप्यकाणाम् आयः २२२.१२ केटि रूप्यकाणां व्ययः १३.७८ कोटि रूप्यकाणां न्यूनतां च प्रतिफलन्तम् अर्थसङ्कल्पं कुलपतेः डो. धर्मराज अटाट् वर्यस्य आध्यक्ष्ये आयोजिते सिन्डिक्केट् अधिवेशने धनविनियोग-स्थिरसमित्यायोजिका डो. मिनी वर्या प्रास्तौत्।
संस्कृतं सर्वेषाम् इति सन्देशेन संस्कृतप्रचारणपरियोजनायाः कृते एककोटिरूप्यकाणि पृथक्कृतानि। केरलस्थेषु शिक्षोपमण्डलेषु प्रत्युपमण्डलं त्रीन् विद्यालयान् चित्वा तत्र शिक्षकान् नियोज्य कक्ष्यां प्रचालयिष्यति। विद्यालयीय छात्राणां कृते वैदुष्यवृत्तिं दास्यति। आदर्शविद्यालयानां प्रवर्तनानि विपुलीकरिष्यति। मण्डलास्थानेषु एकदिनसंस्कृतसंगोष्ठीं चालयिष्यति। अनन्तपुरीतः कासरगोड् पर्यन्तं संस्कृतसन्देशयात्रां च आयोजयिष्यति।
रजतजयन्तीमालक्ष्य भारतस्थान् संस्कृतसर्वकलाशाला कुलपतीन् समायोज्य संस्कृतशिक्षासम्मेलनं प्रचालयिष्यति संस्कृते संघिक-अन्तर्जाल-पाठ्यक्रमः अस्मिन्नेव वर्षे समायोक्ष्यते। विद्यालयीय-कलालयीय-अध्यापकेभ्य नवीकरणवर्गः प्रचाल्यते।
रजतजयन्तीवर्षे २५ पुस्तकानि तथा सर्वेषां पठनविभागानां सम्पुटानि च प्रसाधयिष्यति। एते अर्थसङ्कल्पस्य केचन निर्देशा एव।
राष्ट्रे सर्वाणि यानानि आधारपत्रेण बन्धितुं गृहमन्त्रालयस्य उद्यमः।
नवदिल्ली- वीथ्यां गच्छन्ती सर्वाणि यानानि तेषां स्वामिनाम् आधारपत्रेण योजनार्थं केन्द्रीय गृहमन्त्रालयस्योद्यमः। एतत्सम्बन्धि पठनं कृतवत्याः समितेः सूचनानुसारमेवायमुद्यमः। राष्ट्रस्थानांसर्वेषां यानानां विशदांशान् सञ्चेतुं केन्द्रीकृतां सज्जतामावश्यकमिति सूचना। अस्य पूर्णं प्रयोजं लभेत चेत् आधारसंयेजनमवश्यंभावि। अधुनायानानां विशदांशान् तत्तद्राज्ये एव लभते।
आवश्यकानि अवाप्तुम् आमरणं समरमिति अन्ना हसारे।
नवदिल्ली- आवश्यकानि अवाप्तुं मरणपर्यन्तं समरं करोमि इति अन्ना हसारे वर्यः। लोकपाल् देयकम् आयोजयितुं केन्द्रप्रशासनस्य तन्द्रा वाग्दानलङ्घनमेव, तद्वारा अत्याचारिणां साहाय्यं करोति केन्द्रप्रशासनमित्यपि स अवोचत्।दिल्ल्यां रामलीलाभूमिकायां सम्पत्स्यमाने समरे राजनैतिकदलानि भागं न भाजयति इति स उक्तवान्। राजनैतिकदलानि निर्वाचने प्रत्याशीकृतानि सङ्घानि च अस्यां वेदिकायां नाह्वयति।लोकपाल देयकस्य प्रायोगिकीकरणं कृषकसमस्यानां परिहारः इत्यादीनि आवश्यकानि उन्नीय रामलीला वेदिकायाम् अारब्धः अन्ना हसारे वर्यस्य उपवाससमरः अद्य द्वितीयदिनमुपगतः
विद्यालयेषु कलालयेषु वा मम पुस्तकानि न पाठनीयानि – एम.टी.
तिरुवनन्तपुरम्- विद्यालयेषु कलालयेषु वा मम पुस्तकानि न पाठयेयुः इति विवादेन सह सुप्रसिद्धः कैरलीसाहित्यकारः ज्ञानपीठविजेता च एं.टी. वासुदेवन् नायर् वर्यः। पाठ्यपद्धतौ साहित्यपठनाय अवकाशः नास्तीत्यतः स एवमभिप्रैति स्म।
पाठ्यपद्धतीतः साहित्यस्य दूरीकरणमेव अधुना पश्यति। अद्यतने काले साहित्ये भाषायां च अवश्यं परिज्ञानं छात्राणां नास्ति। अस्मिन् विषये बालचन्द्रन् चुल्लिक्काट् इति कविवर्यस्याभिप्रायः सत्यमेवेति एं.टी. वर्यः विशदमकरोत्। स्वकीयां कवितां छात्रान् न पाठयेत्, स्वरचनासु गवेषणमपि नानुवदनीयमिति बालचन्द्रन् चुल्लिक्काट् वर्यः पूर्वम् अभिप्रैति स्म। अध्यापकनियुक्तौ धनदानं छात्रेभ्यः अधिकाङ्कदानं च विरुद्ध्यैव तस्येयं प्रस्तावना जाता।
अङ्कीय जीवनशैल्याः सार्वत्रिकीकरणमेव लक्ष्यम् – मुख्यमन्त्री।
कोच्ची- अङ्कीय-जीवनशैलीं प्रावर्तिकं कर्तुं तथा सूचनातन्त्रज्ञानरंगे केरलस्य साध्यतां परमावधि प्रयोजनं कर्तुं च सर्वकारः यतते इति मुख्यमन्त्री पिणरायि विजयः अवदत्। कोच्चीनगरे सम्पद्यमानां भाविनि गोलीय-सूचनातन्त्रज्ञान-उच्चकोटिम् (Future Globel IT Summit)उद्घाटयन्नासीत् सः।
विज्ञानमेव केरलस्य भविष्यः । बृहत् परिवर्तनमेव केरले सञ्जायते। अङ्कीयरङ्कस्य परिवर्तनानुसृतं यूनां वैदग्द्यमपि परिवर्तनीयं भवति। विश्व-गुणवत्तानुसृतं पश्चात्तलसौविध्यम् अत्रापि लभेत। ऐ.टी. पार्क् मध्ये/पि पश्चात्तलविकासः प्रचलन्नस्ति।
अन्तर्जालः प्रत्येकं पौरस्य अधिकारत्वेन प्रख्यापितः। गोलीय-सूचना-तन्त्रज्ञानस्य केन्द्रत्वेन केरलस्य परिवर्तनम् अावश्यकम् इत्येव अस्य मेलनस्य लक्ष्यम् इत्यपि स अवादीत्। एं केरला पब्लिक् वैफै मोबैल् आप् वेदिकायां तेन अनावृतम्।
गुरुप्रियपुरस्कारः बिजुमहोदयाय।
इरिङ्गालक्कुटा – विद्याभ्यासजिल्लायाः एतद्वर्षीयः गुरुप्रियपुरस्कारः विद्याभ्यासजिल्लास्तरीय-संस्कृतसमितेः कार्यदर्शी के.डि बिजुमहोदयाय घोषितः। अनेकवर्षाणि यावत् संस्कृतनाटकस्य संविधाने पाठने च भागमावहन् श्री बिजुः इरिङ्गालक्कुटायाः समीपस्थे परप्पूक्करा पि.वि.एस.एच्.एस् उच्चविद्यालये संस्कृताध्यापकः भवति। नववाणीसंरंभस्य प्रगत्यर्थं बहुप्रयत्नं कृतवानयं अध्यापकः। तस्य महोदयस्य कृते नववाणीसंघस्य सादरं अभिनन्दनानि।
संस्कृतं सूचनासाङ्केतिकविद्यां च संयोज्य गवेषणं कृताय करियात् अब्दुल् रषीद् वर्याय विद्यावारिधिबिरुदम्।
मलप्पुरम्- श्रीशङ्कराचार्यसंस्कृतसर्वकलाशालायाः व्याकरणविभागात् करियत् अब्दुल् रषीद् इति छात्रः विद्यावारिधिबिरुदं स्वायत्तीकृतवान्। Analysis of Tantrayukti in the light of Sanskrit Grammer इति विषये अनेन गवेषणं कृतम्।
मलप्पुरं मक्करप्परम्ब् कालाव् देशस्थस्य सेय्तलवी हाजिनः कुट्टश्शेरि जमीलायाश्च पुत्रः भवति। अब्दुल् रषीद्। व्याकरणविभागे सहयोगप्राध्यापकस्य डो. एं.वी. नटेशवर्यस्य मार्गनिर्देशने एव सः प्रबन्धं समर्पितवान्।
संस्कृतव्याकरणशास्त्रं तन्त्रयुक्तिं च संगणकसाहाय्येन विशकलनं कर्तुं विषयप्रबन्धनव्यवस्था(Content Management System) रूपस्य ओपाल् ओप्पण् सेर्स् इत्यस्य साहाय्येनैव उपकरणमायेजितम्।
संस्कृतव्याकरणस्य आधाररूपाणां ४००० पर्यन्तं पाणिनीयसूत्राणां पदच्छेदः अर्थः समासः उदाहरणम् इत्यादीनि इदं टूल् उपयुज्य विशकलनं कुर्यात्। संज्ञा- विधि-नियम-अतिदेश-अधिकार-परिभाषासूत्राणि कृत्यतया विभज्य विशकलनं कर्तुम् अनेन साध्यं भवति। अध्यायः पादः सूत्रम् इति क्रम एव लब्धसम्पर्कोपकरणे/पि लभ्यं भवति।
आगामिनः अध्ययनवर्षादारभ्य विद्यालयीययानेषु गोलीयस्थाननिर्धारणरीतिम् अवश्यं कारयति।
तिरुवनन्तपुरम्- केरले सर्वेषु विद्यालयीययानेषु गोलीय-स्थाननिर्धारणरीतिम् आयोजयितुं सर्वकारनिर्देशः। आगामिनः अध्ययनवर्षादारभ्य इयं रीतिः प्राबल्ये भविता इति राज्य परिवहणमन्त्री ए.के. शशीन्द्रवर्यः विधानसभायाम् अवदत्। विद्यालयीयवाहनानां पीतवर्ण लेपनरीतिम् अवश्यरूपेणानुवर्तते। नियमोल्लङ्घनमवगन्तुं रक्षिदलं यान्त्रिकयानविभागश्च संयुक्ततया निरीक्षणं करिष्यति। सहप्रान्तीयपरिवहणाधिकारिणः नेतृत्वे विद्यालयेषु अध्यापकान् नियन्त्रकान् कृत्वा समितयः आसूत्रिताः। कार्यमिदम् अनूप् जेक्कब् इति सदस्यस्य ध्यानामन्त्रणोपक्षेपस्य समाधानरूपेण मन्त्रिणा उकितम्।
भिन्नलिङ्गयुक्तानां छात्राणां प्रमाणपत्रे प्रत्येकं कोष्टकम्।
तिरुवनन्तपुरम् – केरलेषु इतः परं दशमकक्ष्या-प्रमाणपत्रेषु भिन्नलिङ्गयुक्तानां छात्राणां प्रत्येकं कोष्टकं भविष्यति। विद्यालयीयरेखासु पुरुष-स्त्री इत्यत्र भिन्नलिङ्ग इति नूतनं किमपि कोष्टकं योजयितुं निर्णयः सर्वकारेण कृतः। लिङ्गपरिणामशस्त्रक्रियाद्वारा लिङ्गपरिणामं प्राप्तानां जनानाम् अपेक्षां परिगणय्यैव सर्वकारेणायं निर्णयः कृतः।
पनसं केरलराज्यस्य राज्यफलम्, प्रख्यापनं २१ तमे दिनाङ्के।
कोट्टयम्- राज्यपशुः, राज्यपक्षी इत्यादिप्रख्यापनम् अस्माभिः सुस्वीकृतम्। अधुना राज्यफलमपि निर्णीतं भवति। पनसफलं केरलराज्यस्य राज्यफलत्वेन घोषितुम् उद्यमः आरब्धः। अस्य मासस्य २१ तमे दिनाङ्के आधिकारिकं प्रख्यापनं भविता इति कृषिमन्त्री वी.एस्. सुनिल् कुमार् वर्यः विधानसभायाम् अवदत्। विधानसभायामपि अस्य आधिकारिकी घोषणा भविता। राज्य कृषिविभागस्य आवेदनानुसारमेव प्रशासनस्यायं निर्णयः। राष्ट्रान्तरेष्वपि केरलानां पनसस्य चक्का इति मुद्रानाम स्वीकरिष्यति। अनेन १५००० कोटि रूप्यकाणाम् आयः भवेत्। एतस्य प्रारम्भरूपेण अधुना इयं घोषणा।












