राष्ट्रिय उपलब्धिसर्वेक्षणे (National Achievement Survey) केरलस्य उत्कृष्टता।

तिरुवनन्तपुरम्- केन्द्रीय शिक्षामन्त्रालयेन गतवर्षे आयोजिते राष्ट्रिय-उपलब्धिसर्वेक्षणे देशीयतले केरलम् उत्कृष्टं स्थानमलभत। एतदस्माकं सार्वजनीनशिक्षामण्डलस्य औत्कृष्ट्यं तथा शिक्षकाणां छात्राणां च अर्पणबोधं च सूचयति इति केरलीयशिक्षाविभागमन्त्री श्री वि शिवन् कुट्टि वर्यः अवोचत्।

इतः पूर्वं २०२१ तमे वर्षे एव एतादशम् अधिगमसर्वेक्षणं प्राचलत्। तदानीं तृतीय-पञ्चम-अष्टमकक्ष्यासु एव सर्वेक्षणमभवत्। २०२४ तमे वर्षे तृतीय-षष्ट-नवमकक्ष्यासु छात्राणाम् अधिगमस्य मूल्याङ्कनं कर्तुं भाषा, गणितम् पर्यावरणपठनम्, शास्त्रम्, सामूह्यशास्त्रम् इत्यादिषु विषयेषु सर्वेक्षणम् आयोजितम्। एतस्मिन् सर्वेक्षणे एव केरलस्य औत्कृष्ट्यम् प्रकाशितम्।

Leave a Reply

Your email address will not be published. Required fields are marked *