Daily Archives: February 17, 2025

स्वकीयान् अर्भकान् स्वाश्रय-निजीयविद्यालये पाठयतां सार्वजनीनविद्यालयाध्यापकानाम् अनुसूचीं प्रकाशयिष्यति- वि शिवन् कुट्टि रlज्यशिक्षामन्त्री।

काञ्ञङ्ङाट्- सार्वजनीनविद्यालयं विहाय आङ्गलमाध्यमस्वाश्रय-निजीयविद्यालये स्वकीयान् अर्भकान् पाठयतां सार्वजनीनविद्यालयाध्यापकानाम् अनुसूचीं कृत्वा प्रकाशयिष्यति इति केरलीय-शिक्षामन्त्री वि शिवन् कुट्टिवर्यः प्रास्तौत्। ए-के-एस-टि-यु इति शिक्षकसंघस्य राज्यस्तरीये अधिवेशने विद्याभ्यासविचारसत्रम् उद्घाटयन् भाषमाणः आसीत् मन्त्रिवर्यः।

सार्वजनीनविद्यालयाः राज्यस्य सम्पदः भवन्ति। तेषां संरक्षणं समाजस्येव सर्वकारीणकर्मकराणां विशिष्य सार्वजनीनविद्यालयीयशिक्षकाणां दायित्वमस्ति। ते एव सार्वजनीनविद्यालयानां संरक्षकभटाः। केरलेषु बहवः अध्यापकाः स्वकीयान् अर्भकान् निजीयविद्यालयं नीत्वा पाठयन्ति। एषा प्रवृत्तिः सार्वजनीनविद्यालयान् प्रति समाजस्य विश्वासं शोषयति। एतादृशाः शिक्षकाः स्वयं विमृश्य तेषां पूर्वनिर्णयः परिवर्तयितुं यत्नं कुर्युः इत्यपि मन्त्री अवदत्।