काण्ग्रेस् दलस्य वरिष्ठनेता तथा भूतपूर्वमन्त्री वक्कं पुरुषोत्तमन् वर्यः दिवङ्गतः।

तिरुवनन्तपुरम्- बहुवारं केरलविधानसभायां सामाजिकः तथा त्रिवारं केरले मन्त्रिपदव्यामारूढः, लोकसभासदस्यत्वेन स्वप्रतिभां प्रकटितवान् च कोण्ग्रेस् दलीयः वरिष्ठनेता वक्कं पुरुषोत्तमन् वर्यः कालकबलितः अभूत्। अनन्तपुर्यां कुमारपुरे स्वकीये भवने आसीत् ९५ वयस्कस्य तस्य मृत्युः। केरलविधानसभायां द्विवारं स सभावक्ता आसीत्।
Leave a Reply