Monthly Archives: December 2022

पादकन्दुकक्रीडाप्रकाण्डं पेले वर्यः कालकबलितः अभूत्।

सावोपोलोः- ब्रसील पादकन्दुकक्रीडायाम् इतिहासं रचितवान् पेलेवर्यः दिवङ्गतः। सावोपोलो स्थले आल्बर्ट् ऐन्स्टिन् चिकित्सालये आसीत् अस्य अन्त्यम्। सः 82 वयस्कः आसीत्। स्वास्थ्यावस्थाां परिगणय्य एकमासावधिकं कालं चिकित्सालये आसीत्। अर्बुधबाधितः स रासायनिकचिकित्सया अपि विमुक्त्यभावात् सान्त्वनपरिचरविभागे चिकित्सायामासीत्। विश्वपादकन्दुकक्रीडायां ब्रसील् राष्ट्रस्य कृते सर्वाधिकं लक्ष्यकन्दुकम् अनेन सम्पादित्म्। 1958, 1962, 1970 वर्षेषु ब्रसीलस्य विश्वचषकविजये नायकत्वं पेले वर्यस्य आसीत्। आहत्य 92 मत्सरेषु 77 लक्ष्यकन्दुकानि अनेन सम्पादितानि।
1940ओक्टेबर् 13 तमे दिने सावोपोलो स्थले एकस्मिन् निर्धनपरिवारे आसीत् एड्सण् अरान्टेस् दो नासिमेन्टो इति यथार्थनामकस्य पेलेवर्यस्य जन्म। पादकन्दुकक्रीडातः विरतः अयं पादकन्दुकस्थानपतिरूपेण प्रवर्तितवान्।

दुष्टशीलो विनश्यति (भागः २६७) 31-12-2022

EPISODE – 367

नूतना समस्या –

“दुष्टशीलो विनश्यति”

പ്രഥമസ്ഥാനം

“കിം ധനേന പ്രഭൂതേന
ശീലമേവ മഹാധനം
ശിഷ്ടാത്മാ ഭൂതിമാപ്നോതി
ദുഷ്ടശീലോ വിനശ്യതി”

Radhakrishnan

“അഭിനന്ദനങ്ങൾ”

 

पादक्रीडेयमुत्तमा (भागः २६६) 24-12-2022

EPISODE – 266

नूतना समस्या –

“पादक्रीडेयमुत्तमा”

പ്രഥമസ്ഥാനം

“स्वास्थ्यस्य वर्धिका क्रीडा
काचित्तु स्वास्थ्यहानिका ।
स्वास्थ्यस्य वर्धनादेव
पादक्रीडेयमुत्तमा”॥

Sanskaranarayanan

“അഭിനന്ദനങ്ങൾ”

 

विश्वचषक पादकन्दुकक्रीडायाम् अर्जन्टीना विजयमवाप।

दोहा- खत्तर् राष्ट्रे प्रचलितायाः विश्वचषक पादकन्दुकक्रीडायाः अन्तिमचरणे फ्रान्स् क्रीडकसंघं ४-२ क्रीडाङ्कैः अभिभावयन् अर्जन्टीना क्रीडकसंघः विजयकिरीटं प्राप। क्रीडार्थं निश्चिते समये संघद्वयमपि द्वौ द्वौ क्रीडाङ्कौ अवाप्य तुल्यतां प्राप्तम्। पुनः अधिकसमयेपि एकैकं क्रीडाङ्कं सम्पाद्य पुनरपि द्वौ संघौ समावस्थां प्रापतुः। अनन्तरं षूट् औट् इति निर्णयरीतिमवलम्ब्य मत्सरः अनुवर्तितः। षूट् औट् क्रीडायाम् अर्जन्टीन चत्वारः क्रीडाङ्कः फ्रान्स् द्वौ क्रीडाङ्कौ च समासादितौ। एवम् अर्जन्टीना मत्सरेस्मिन् विजयपदमवाप।

अर्जन्टीना संघस्य लयणल् मेस्सी उत्कृष्टक्रीडकत्वेन चितः। तस्मै सुवर्णकन्दुकमदात्। विश्वचषकक्रीडायाम् २६ मत्सरे क्रीडितवान् इति ख्यातिरपि मेस्सी स्वायत्तीकृतवान्। अस्मिन् चरणे स सप्त क्रीडाङ्कान् समासादयत्।

फ्रान्स् संघस्य किलियन् एम्बाप्पे मत्सरेस्मिन् अधिकान् क्रीडाङ्कान् स्वायत्तीकृतवान्। अष्टक्रीडाङ्केन स गोल्टन् बूट् पुरस्कारमलभत। स विश्वचषकक्रीडायाम् अन्तिमचरणे महत्तरां क्रीडां प्रादर्शयत्।

शीतात्स्वापस्तु वर्धते (भागः २६५) 17-12-2022

EPISODE – 265

नूतना समस्या –

“शीतात्स्वापस्तु वर्धते”

പ്രഥമസ്ഥാനം

വൃശ്ചികാദൗ സമാരംഭ :
ശീതസ്യേതി പുരാവിദ:
തൈരേവോക്തമിദം സത്യം
ശീതാത്സ്വാപസ്തു വർദ്ധതേ

Radhakrishnan

“അഭിനന്ദനങ്ങൾ”

 

विश्वचषकस्पर्धा- अर्जन्टीना पूर्वान्तिमचक्रे, ब्रसील् स्पर्धायाः बहिर्गतम्।

दोहा-आवेशभरिते चतुर्थांशमत्सरे लयणल् मेस्सी वर्यस्य अर्जन्टीनाक्रीडकाः पूर्वान्तिमचक्रं प्राविशन्। परं अन्यस्मिन् चतुर्थाँशमत्सरे नेय्मर् वर्यस्य ब्रसील् संघः पराजयं प्राप। नेतर्लान्ट् संघं ४-३ लक्ष्यकन्दुकेन विजित्यैव अर्जन्टीन पूर्वान्तिमचक्रं प्राप। क्रोयेष्या संघं ४-२ लक्ष्यकन्दुकद्वारा ब्रसील् संघं विजित्य च पूर्वान्तिमचक्रं प्राप।

विषिञ्ञं प्रक्षोभः प्रतिनिवृत्तः, मुख्यमन्त्रिणा सार्धं समायोजितायां चर्चायां निर्णयः।

तिरुवनन्तपुरम्- विषिञ्ञं महानौकाश्रयनिर्माणं विरुध्य तीरदेशजनैः १४० दिनपर्यन्तं कृतः प्रक्षोभः प्रत्यावृत्तः। कुजवासरे सायं मुख्यमन्त्रिणा सह चर्चां कृत्वैव अयं निर्णयः स्वीकृतः। नौकाश्रयनिर्माणं स्थगितुं न शक्यते इति सर्वकारः प्रक्षोभकारिणः असूचयत्।

सर्वकारनिर्णयस्य पालनाय मुख्यसचिवस्य नेतृत्वे अवलोकनसमितिः रूपवत्क्रियते इति सर्वकारः तानबोधयत्।

अदानिसंघस्य व्यवहारं बुधवासरे उच्चन्यायालयः परिगणयिष्यतीति पूर्वं सूचितम्। तन्मध्ये एव अधुना समरस्य परिसमाप्तिः अजायत।

वत्सरो वासरायते (भागः २६४) 10-12-2022

EPISODE -264

नूतना समस्या 

“वत्सरो वासरायते”

പ്രഥമസ്ഥാനം

പരബ്രഹ്മണി സക്താനാം
കാലചിന്താ ന കർഹിചിത്
താദൃശാനാം മുമുക്ഷൂണാം
വത്സരോ വാസരായതേ

Radhakrishnan

“അഭിനന്ദനങ്ങൾ”

तया इति संस्कृतचलच्चित्रं अन्ताराष्ट्रचलच्चित्रोत्सवे प्रदर्शयिष्यति।

तृशूर्- श्रीगोकुलं चलचित्रपताकाभूमिकायां श्रीमता गोगुलं गोपालेन प्रायोजितं डो जि प्रभावर्येण निदेशितं तया इति संस्कृतचलचित्रम् अन्ताराष्ट्रचलचित्रोत्सवे भागं भजते। कोस्टारिक्कायां सान्जोस् अन्ताराष्ट्र चलचित्रोत्सवः, ब्रसीले बस् विष्यस् अन्ताराष्ट्रचलचित्रोत्सवः, ओस्ट्रेलियायां टैटन् चलचित्रोत्सवः, लण्टन् चलचित्रोत्सवः, आफ्रिक्का चलचित्रोत्सवः इत्यादिषु चलचित्रमिदं प्रदर्शयिष्यति।

पूर्वं नेचर्लान्ट् चलचित्रोत्सवेषु चितमिदं चलचित्रम्। भारतेषु कोल्कत्ता, पूणे, दिल्ली इत्यादिस्थलेषु अन्ताराष्ट्रचलचित्रोत्सवार्थमपि चितमासीत्।

केरलीये इतिहासे प्रसिद्धा कुरियेटत्त् तात्री इत्यस्याः जीवनकथा पृथक् वीक्षणकोणे अस्मिन् चलचित्रे अवतार्यते।

कैरलीचलचित्रे प्रसिद्धाः नेटुमुटि वेणु, अनुमोल्, नेल्लियोट् वासुदेवन् प्रभृतयः अभिनेतारः चलचित्रेस्मिन् विविधानि कथापात्राणि अवतारयन्ति।

विद्यालयेषु सूचनाप्रौद्योगिकाध्ययनम्- केरलस्य श्रेष्ठता।

नवदिल्ली- विद्यालयीयशिक्षणे केरलराज्यं राष्ट्रियश्रेष्ठतामवाप। छात्राणां कृते सङ्गणकं, अन्तर्जालं, प्रोजेक्टर् इत्यादीनां सौविद्यप्रदाने केरलराज्यं श्रेष्ठतामवाप इति केन्द्रीय-शिक्षामन्त्रालयस्य आवेदनम्।

२०२१-२२ वर्षे य-डि-ऐ-एस-इ संस्थायाः अवलोकनावेदने एवायं विषयः सूचितः। विद्यालयेभ्य संगणकयन्त्रप्रदाने ९९.६ शतमितं श्रेष्ठतया पञ्चाबराज्यं प्रथमस्थानमवाप। तद्राज्यं सर्वेभ्यो सर्वकारीणविद्यालयेभ्यो सङ्गणकयन्त्रं प्रादात्। परं सर्वकारीणधनादत्तविद्यालयेभ्भ्यो केवलं ९२.४ शतमितमेव तेषां स्थानम्। तत्र प्रथमस्थानं केरलमवाप।