Monthly Archives: October 2021

प्रश्नोत्तरम् (भागः २०४) – 09-10-2021

EPISODE – 204

 

प्रश्नोत्तरम्।

 

 

 

 

  1. पुत्री-अम्ब!मम मित्राणि ——-सन्ति। (क) आगतानि  (ख) आगतम् (ग) आगते
  2. माता -आगतवती।——नमस्कारः। (क) सर्वेषु  (ख) सर्वे (ग) सर्वेभ्यः
  3. पुत्री – एषः रमेशः। ——पिता वित्तकोशे कार्यं करोति। (क) एषः  (ख) एतस्य (ग) एते
  4. माता – अत्र स्नेहा —–? (क) का  (ख) कः (ग) किं
  5. पुत्री – सा नागतवती। तस्याः —–अस्वास्थ्यम् अस्ति। (क) अम्बा (ख) अम्बायै  (ग) अम्बायाः
  6. माता – एतस्याः —–अहं जानामि। (क) अम्बा  (ख) अम्बां (ग) अम्बया
  7. पुत्री – एषः आनन्दः। —–सदा आनन्दयति। (क) सर्वे  (ख) सर्वस्य (ग) सर्वान्
  8. माता – तं किरणं —-।कथं मौनेन स्थितवान् भवान्। (क) जानामि  (ख) जानाति (ग) जानासि
  9. किरणः – —-किञ्चित् शिरोवेदना । (क) मां  (ख) मयि  (ग) मम
  10. माता – सः — भोः,अन्ते उपविष्टवान्। (क) का   (ख) कः  (ग) किं

ഈയാഴ്ചയിലെ വിജയി

SREEHRI K S

“അഭിനന്ദനങ്ങൾ”

ശരിയുത്തരങ്ങൾ

  1. आगतानि
  2. सर्वेभ्यः
  3. एतस्य
  4. का
  5. अम्बायाः
  6. अम्बाम्
  7. सर्वान्
  8. जानामि
  9. मम
  10. कः

8 ശരിയുത്തരങ്ങൾ അയച്ചവർ

1. SREEHRI K S

2. MAYA P R

3. BHAVYA N S

“അഭിനന്ദനങ്ങൾ”

जीवनं मधुरं भवेत् (भागः २०४) – 09-10-2021

EPISODE – 204

नूतना समस्या-

जीवनं मधुरं भवेत् “

ഒന്നാംസ്ഥാനം

“ആശാപാശവിഹീനസ്യ
നിർമമത്വ വ്രതസ്യ ച
പരോപകാരചിത്തസ്യ
ജീവനം മധുരം ഭവേത്”

RATHEESH P G

“അഭിനന്ദനങ്ങൾ”

संस्कृतं मानविकतायाः भाषा- महापौरा आर्या राजेन्द्रन्।

तिरुवनन्तपुरम्- तिरुवनन्तपुरं मण्डलस्तरीयं संस्कृतदिनाचरणम् उद्घाटयन्ती महापौरा आर्या राजेन्द्रन् वर्या अवोचत् यद् संस्कृतं मानविकतायाः भाषा इति। तया इदमपि निगदितं यत् सर्वासां संस्कृतीनां स्वीकारः केरलीयैः कृतः। तत्र विविधाः भाषाः स्वत्वरूपेण स्वीकृत्य केरलीयाः मातृभाषां पर्यपोषयन्। संसकृतद्वारा स्वायत्तीकृतान् मानविकतासन्देशान् सर्वेषु प्रचारयितुं अध्यापकाः शक्ताः भूयासुः इत्यपि तया निगदितम्।

एस् सी इ आर् टी निदेशकः डो जे प्रसाद् वर्यः मुख्यभाषणमकरोत्। शिक्षा उपनिदेशकः सन्तोष् वर्यः आध्यक्ष्यं व्यदधात्। सार्वजनीनशिक्षा निदेशकः के जीवन् बाबु वर्यः संस्कृतदिनसन्देशं व्याहरत्। डो टी डी सुनीतिदेवी मुख्यातिथिः आसीत्। श्री एस् श्रीकुमार्, मण्डलशिक्षाधिकारिणः श्री बाबू, के सियाद्, जे सिन्धू एते आशंसामर्पयन्।
बी सुनिल् कुमार् स्वागतम् सुचित्रा एस् नायर् कृतज्ञतां च व्याहरताम्। आशशंस।

संस्कृतस्य जागरणं संस्कृतशिक्षकैः स्वायत्तीकर्तुं शक्यते इति श्रीमती डोः टि डि सुनीतिदेवीमहाभागा।

*पालक्काट् :-संस्कृत अक्कादमिक संस्थायाः दायित्वे पालक्काट् जनपदस्तरीय संस्कृतमासाचरणसमापनसभा समायोजिता। संस्कृतस्य जागरणं संस्कृतशिक्षकैः स्वायत्तीकर्तुं शक्यते इति श्रीमती डोः टि डि सुनीतिदेवीमहाभागा स्वीयोद्घाटनभाषणेऽब्रवीत् । संस्कृतकथनेनैव संस्कृतपठनस्य पाठनस्य च आवश्यकतां समाजस्य पुरतः सगौरवं उपस्थापयितुं शक्नुमः इति पण्डितरत्नं डोः पि के माधवम् महाभागोऽवदत्। पालक्काट् डि डि इ श्री कृष्णन् महोदयः कार्यक्रमे अध्यक्षपदमलङ्कृतवान्। डि जि इ श्री जीवन् बाबू ऐ ए एस् महोदयः सन्देशमदात् । अक्कादमिक कौण्सिल् राज्यस्तरीय कार्यदर्शी श्रीकुमार् महोदयः सन्देशमदात्।
संस्कृत पटकथाकृत् डोः श्री महेष् बाबू एस् एन् महोदयः विशिष्टातिथिः आसीत् । जनार्दन महाशयः जनपद स्तरीय प्रतियोगिता विजेतृणां घोषणां कृतवान्।
पालक्काट् डि इ ओ श्रीमति राजम्मा महाशया , ओट्टप्पालं डि इ ओ श्री षाजिमोन् महाशयः मण्णार्क्काट् डि इ ओ रघूनाथ महाशयः शिक्षकप्रतिनिधिः श्री पि पद्मनाभमहाशयः च आशंसाभाषणं कृतवन्तः। चन्दना पद्यं, वरदागानं, श्रीदेवन् सि अष्टपदीं च आलप्य मेलनस्य गरिमामवर्धयत्। एं वि नारायणन् कुट्टि महाशयः श्री एस् भास्करः महोदयः, श्रीमति स्मृती, श्री सैजु जोर्ज इत्येते स्वाभिमतान् प्रकटितवन्तः । १२ उपजनपदेभ्यः संस्कृतशिक्षकाः भागं स्वीकृतवन्तः। उपजनपदस्तरीय शैक्षणिक अधिकारिणः अपि भागं स्वीकृतवन्तः।

भूतपूर्वः मुख्यसचिवः सि-पि- नायर् वर्यः निर्यातः।

तिरुवनन्तपुरम्- केरलराज्यस्य मुख्यसचिवचरः तथा विख्यातः साहित्यकारश्च सि-पि- नायर् वर्यः दिवंगतः। स ८१ वयस्कः आसीत्। राज्यसर्वकारस्य विविधेषु प्रधानविभागेषु सचिवरूपेण कर्म कृतवानयम्। १९६२ वर्गे ऐ ए एस् पदवीं प्राप्तवानयम् बहुकालं यावत् अनन्तपुर्यां विश्रामजीवनं नयन्नासीत्।

प्रशासनपरिष्करणायोगः देवस्वम् आयुक्तः इत्यादि धुरामावहत्। सेवानुभवाः हास्यकथाश्चाभिव्याप्य नैकान् ग्रन्थान् रचितवानयम्।

वृत्तिकालं सम्पूर्णम् अत्याचारान् विरुध्य स्थितवानयम्। ओट्टप्पालम् उपमण्डलाधिकारिरूपेण सोवां प्रविष्टोयं मुख्यसचिवपदवीतः विरराम।