Monthly Archives: June 2018
Std-10
Chapter 5
Sree Narayana Guru
Chattambi swamikal
Ayyankali
Chapter 4
Chapter-3
Chapter-2
Std – 8
पाठः ४ – गीतासुधामाधुरी।
पाठः ३ – योगविद्या
द्वितीयः पाठः – कोfरुक्
प्रथमः पाठः विभातम्
अग्नि-५ परीक्षणं विजयमवाप।
बालेसोर्(ओडिषा)- एतद्देशनिर्मितम् आणववाहशेषीयुक्तं अग्नि-५ प्रक्षेपास्त्रं भारतेन अद्य सविजयं परीक्षितम्। ओडिषातीरे अब्दुल् कलां द्वीपे एव परीक्षणमभवत्। स्थलात् स्थलं प्रति प्रेष्यमाणस्य प्रक्षेपास्त्रस्य ५००० कि. मी. दूरपरिधिरस्ति। अस्य षष्टं परीक्षणं भवतीदम्। प्रथमं परीक्षणं २०१२ एप्रिल् १९ दिनाङ्के अभवत्।
प्रक्षेपास्त्रमिदम् एकटणपरिमितं भारयुक्तम् आणवास्त्रं वोढुं प्रभवति। १७ मीट्टर् दैर्घ्यं ५० टण् भारं चास्ति अस्य प्रक्षेपास्त्रस्य। एष्या भूखण्डं सम्पूर्णम् अस्य प्रहारपरिधौ आयाति। यूरोप् आफ्रिक्का भूखण्डे भागिकत्वेन चायातः।चैना जपान् दक्षिणकोरिया उत्तरकोरिया इन्तोनेष्या ताय्लाण्ट् मलेष्या पाकिस्तान् अफ्गानिस्तान् इरान् इराख् ईजिप्त् सिरिया सुडान् लिभिया रष्या जर्मनी युक्रैन् ग्रीस् इट्टली इत्यादीनि राष्ट्राणि प्रहारपरिधावानेतुं प्रभवति इदं प्रक्षेपास्त्रम्।
सुभाषितालापनम्।
आलपनम् – श्रीविद्या
Std – 10 सुभाषितानाम् आलपनम्।
आलपनम् – श्रीविद्या।
PRASNOTHARAM – 09-06-2018
प्रश्नोत्तरम्।
- बालकः ——– गच्छति ।(क) विद्यालयः (ख) विद्यालयस्य (ग) विद्यालयम्
- वैदेशिकाः ———– भारतं द्रष्टुम् आगच्छन्ति । (क) विमानम् (ख) विमानात् (ग) विमानेन
- एते बालिके ग्रामं ——–। (क) गच्छति (ख) गच्छतः (ग) गच्छन्ति
- अहं संस्कृतेन ———-। (क) वदति (ख) वदामि (ग) वदसि
- माता ——–धनं ददाति । (क) पुत्राय (ख) पुत्रात् (ग) पुत्रः
- स्वस्ति ———। (क) प्रजानाम् (ख) प्रजाभ्यः (ग) प्रजाः
- ———- फलानि पतन्ति । (क) वृक्षात् (ख) वृक्षे (ग) वृक्षाः
- भवती ——— बिभेति । (क) कस्य (ख) किम् (ग) कस्मात्
- ——— पूर्वं शनिवासरः । (क) रविवासरस्य (ख) रविवासरम् (ग) रविवासरात्
- ——— जलम् अस्ति ।(क) कूपे (ख) कूपात् (ग) कूपः
ഈയാഴ്ചയിലെ വിജയി
GAYATHRI A B
“അഭിനന്ദനങ്ങള്”
10 ശരിയുത്തരങ്ങള് അയച്ചവര്:
- GAYATHRI A B
- Anithakumari
- Sangeetha Sandeep
- Dilkrishna C S
- Rejani P G
- Remadevi A
- Sridevi
“പങ്കെടുത്തവര്ക്കെല്ലാം അഭിനന്ദനങ്ങള്”
निपा विषाणुः द्वितीयघट्टं प्रविष्टः, व्यापनं प्रतिरोद्धुं जाग्रता शक्तीकृतेति स्वास्थ्यमन्त्री।
कोषिक्कोट्- अपघातकारी निपा विषाणुः द्वितीयघट्टं प्रविष्टः। अनेन केरलराज्यम् आशङ्कायामस्ति। चर्मखगात् मानवं प्रविष्टः अयं विषाणुः पुनः मानवात् मानवं प्रति संक्रामति। एतदेव द्वितीयघट्टम्। एतत् स्वास्थ्य विभागेन पूर्वमेव सूचितमासीदिति स्वास्थ्यमन्त्री श्रीमती के.के. शैलजावर्या अवदत्। अतः एव जाग्रतां स्वीकर्तुम् अवकाशो लब्धः। विषाणुबाधायाः आधिक्ये एव परिशोधनायाम् अवगन्तुं शक्यते इत्येव प्रयासः।
प्रतिरोधप्रवर्तनानि अधिकानि सज्जीकृतानि। तथापि जाग्रता आवश्यकी। निपाज्वरबाधितैः सह सम्पर्कं कृतवन्तः निश्चितकालपरिधिपर्यन्तं संघमेलनादिकं त्यजेयुः इति मन्त्री उदबोधयत्। अयं विषाणुः मस्तिष्के एव बाधते। इतः पर्यन्तं राज्ये अनेन रोगेण मृतानां संख्या १७ जाता।
अक्षराङ्कणे आह्लादः, सामान्यविद्यालयान् लोकोत्तरां विशिष्टश्रेणीं नेष्यति – मुख्यमन्त्री।
तिरुवनन्तपुरम्- ग्रीष्मकालविरामानन्तरं राज्यस्थाः विद्यालयाः पुनः सक्रियाः अभवन्। आराज्यं विद्यालयेषु प्रवेशोत्सवेन सह नूतनाध्ययनवर्षं प्रति छात्रान् स्वागतीकृत्य नूतनवर्षस्य आरम्भः आघुष्यते। प्रवेशोत्सवस्य राज्यस्तरीयम् उद्घाटनं नेटुमङ्ङाट् सर्वकारीण बालिका उच्चतरविद्यालये मुख्यमन्त्री पिणरायि विजयः निरवहत्। शिक्षामन्त्री प्रोफ. सी. रवीन्द्रनाथः अध्यक्षः आसीत्।
सामान्यविद्यालयान् श्रेष्ठतायाः केन्द्रत्वेन परिवर्तयितुं सर्वकारस्य उद्यमः महत् प्रोत्साहनं लभते इति मुख्यमन्त्री अवदत्। सर्वकारीणविद्यालयं प्रति छात्रान् प्रेषयितुं रक्षाकर्तृणाम् उत्साहः प्रवर्तनस्यास्य अङ्गीकार एव। सामान्य विद्यालयानां श्रेणी लोकोत्तरविशिष्टतां प्रापयितुं सर्वकारः यतते इत्यपि स अवदत्। छात्राः क्रीडनेन सह पठन्तु पठनं च रसकरं भवतु इति शिक्षामन्त्री अवदत्।
अस्मिन् वर्षे द्विलक्षपरिमितं छात्राः सामान्यविद्यालयं प्राप्ताः इति प्राथमिकी सूचना। पुष्पाणि मधुराणि च दत्त्वा तान् स्वागतं कृतवन्तः।