निपा विषाणुः द्वितीयघट्टं प्रविष्टः, व्यापनं प्रतिरोद्धुं जाग्रता शक्तीकृतेति स्वास्थ्यमन्त्री।

कोषिक्कोट्- अपघातकारी निपा विषाणुः द्वितीयघट्टं प्रविष्टः। अनेन केरलराज्यम् आशङ्कायामस्ति। चर्मखगात् मानवं प्रविष्टः अयं विषाणुः पुनः मानवात् मानवं प्रति संक्रामति। एतदेव द्वितीयघट्टम्। एतत् स्वास्थ्य विभागेन पूर्वमेव सूचितमासीदिति स्वास्थ्यमन्त्री श्रीमती के.के. शैलजावर्या अवदत्। अतः एव जाग्रतां स्वीकर्तुम् अवकाशो लब्धः। विषाणुबाधायाः आधिक्ये एव परिशोधनायाम् अवगन्तुं शक्यते इत्येव प्रयासः।
प्रतिरोधप्रवर्तनानि अधिकानि सज्जीकृतानि। तथापि जाग्रता आवश्यकी। निपाज्वरबाधितैः सह सम्पर्कं कृतवन्तः निश्चितकालपरिधिपर्यन्तं संघमेलनादिकं त्यजेयुः इति मन्त्री उदबोधयत्। अयं विषाणुः मस्तिष्के एव बाधते। इतः पर्यन्तं राज्ये अनेन रोगेण मृतानां संख्या १७ जाता।
Leave a Reply