अक्षराङ्कणे आह्लादः, सामान्यविद्यालयान् लोकोत्तरां विशिष्टश्रेणीं नेष्यति – मुख्यमन्त्री।

तिरुवनन्तपुरम्- ग्रीष्मकालविरामानन्तरं राज्यस्थाः विद्यालयाः पुनः सक्रियाः अभवन्। आराज्यं विद्यालयेषु प्रवेशोत्सवेन सह नूतनाध्ययनवर्षं प्रति छात्रान् स्वागतीकृत्य नूतनवर्षस्य आरम्भः आघुष्यते। प्रवेशोत्सवस्य राज्यस्तरीयम् उद्घाटनं नेटुमङ्ङाट् सर्वकारीण बालिका उच्चतरविद्यालये मुख्यमन्त्री पिणरायि विजयः निरवहत्। शिक्षामन्त्री प्रोफ. सी. रवीन्द्रनाथः अध्यक्षः आसीत्।

     सामान्यविद्यालयान् श्रेष्ठतायाः केन्द्रत्वेन परिवर्तयितुं सर्वकारस्य उद्यमः महत् प्रोत्साहनं लभते इति मुख्यमन्त्री अवदत्। सर्वकारीणविद्यालयं प्रति छात्रान् प्रेषयितुं रक्षाकर्तृणाम् उत्साहः प्रवर्तनस्यास्य अङ्गीकार एव। सामान्य विद्यालयानां श्रेणी लोकोत्तरविशिष्टतां प्रापयितुं सर्वकारः यतते इत्यपि स अवदत्। छात्राः क्रीडनेन सह पठन्तु पठनं च रसकरं भवतु इति शिक्षामन्त्री अवदत्।

     अस्मिन् वर्षे द्विलक्षपरिमितं छात्राः सामान्यविद्यालयं प्राप्ताः इति प्राथमिकी सूचना। पुष्पाणि मधुराणि च दत्त्वा तान् स्वागतं कृतवन्तः।

Leave a Reply

Your email address will not be published. Required fields are marked *