Monthly Archives: June 2018
PRASNOTHARAM – 23-06-2018
प्रश्नोत्तरम्।
- बि़डालः गृहं ——–दुग्धं पिबति ।(क) प्रविश्य (ख) प्रवेष्टुं (ग) प्रविश
- भक्तः ——– मन्दिरं गच्छति।(क) स्नाति (ख) स्नात्वा (ग) स्नानेन
- छात्रः ——- विद्यालयं गच्छति। (क) पठने (ख) पठितुं (ग) पठति
- हंसः सरोवरं ———-। (क) गतवत् (ख) गतवती (ग) गतवान्
- वनिता आभरणानि ———-। (क) धृतवती (ख) धृतवत्यः (ग) धृतवत्
- वयं चित्रं ——–। (क) दृष्टवान् (ख) दृष्टवन्तौ (ग) दृष्टवन्तः
- त्वं कुत्र ———-।(क) गतवान् (ख) गतवन्तौ (ग) गतवन्तः
- ते बालिके फलं ——–। (क) खादिष्यति (ख) खादिष्यतः (ग) खादिष्यन्ति
- आवां जलं ——–। (क) पास्यामि (ख) पास्यामः (ग) पास्यावः
- यूयं सूचनां ———-। (क) पठिष्यथ (ख) पठिष्यन्ति (ग) पठिष्यामः
ഈയാഴ്ചയിലെ വിജയി
Ramjyothis
“അഭിനന്ദനങ്ങള്”
10 ശരിയുത്തരങ്ങള് അയച്ചവര്:
- Ramjyothis
- Dawn Jose
- Sreedevi
- Leena K S
- Remadevi A
“പങ്കെടുത്തവര്ക്കെല്ലാം അഭിനന്ദനങ്ങള്”
केजरिवाल् वर्यस्य समरः षष्ठं दिनं प्राविशत्। आवश्यानि नाङ्गीक्रियन्ते चेत् रविवासरे आम् आद्मी पार्टी सामाजिकाः प्रधानमन्त्रिणः सद्मनः पुरतः समरं करिष्यन्ति।
दिल्ली- निस्सहकरणे वर्तमानाः भरणनिर्वहणसेवकाः कर्मणि प्रवेष्टुं निर्देष्टव्याः इत्यावश्यमुन्नीय दिल्ली उपराज्यपालस्य वसतौ दिल्ली मुख्यमन्त्री अरविन्द केजरिवाल तथा त्रयः मन्त्रिणश्च कुर्वाणः समरः अद्य षष्टे दिने प्रविशति। आवश्यानि यावदङ्गीक्रियन्ते तावत् समरः इति स्थैर्ये तिष्ठन्ति मन्त्रिणः। उपमुख्यमन्त्री मनीष् सिसोदिया, सत्येन्द्र जेयिन् गोपाल् रोय् इति मन्त्रिणौ च केजरिवालेन सह समरे सन्ति। आवश्यानि नाङ्गीक्रियन्ते चेत् प्रधानमन्त्रिणः वसतेः पुरतः प्रक्षोभं संघाटयितुम् आम् आद्मी नेतारः सामाजिकाश्च निश्चितवन्तः।
ऐ.ए.एस् सेवकाः गतेन मासचतुष्टयेन समराङ्गणे सन्ति। कर्मणि पुनः प्रवेष्टुं ते प्रेरणीयाः इति केजरिवालस्य मुख्यम् आवश्यम्। विषयेस्मिन् यथोचितं परिहारं कर्तुं प्रधानमन्त्रिणे लेखद्वारा अर्थयामास केजरिवाल् वर्यः। अस्मिन्नन्तरे मुख्यमन्त्रिणः समरं विरुद्ध्य भा.ज.पा. दलनेतारः रङ्गमागताः सन्ति।
प्रावृट् विपत्तिः। राज्ये ह्यः १४ जनानां जीवाः अपहृताः। २४ होराः जाग्रता निर्देशः। तिरोभूतानां कृते मार्गणमनुवर्तते।
कोषिक्कोट्- प्रावृडापत्त्या इतः पर्यन्तं मृतानां संख्या ७ जाता। अद्य वर्षापातस्य ईषत् शमनमस्ति। दुरन्तनिवारणसमितिः रक्षाप्रवर्तनानि ऊर्जितानि अकरोत्। मृत्पादेन तिरोभूतानां कृते मार्गणम् अद्याप्यनुवर्तते। प्रतिकूलवातावरणेन ह्यः रात्रौ मार्गणं स्थगितमासीत्। शनिवासरपर्यन्तं घोरा वृष्टिर्भविता इति वातावरण निरीक्षणकेन्द्रस्य सूचना अस्ति।
रष्या विश्वस्य मूर्ध्नि, विश्वचषक पादकन्दुकक्रीडायाः अद्य शुभारम्भः।
मोस्को- इतः परं ३२ दिनानि सर्वेषां श्रोत्रनयनानि रष्यां प्रति भविष्यति। पादकन्दुकक्रीडायाः विश्वस्पर्धा अद्य भारतसमयं रात्रौ ८.३० वादने मोस्को नगरे आरभते। ३२ तमे दिने अस्यामेव वेदिकायां विश्वचषककिरीटं कस्येति निर्णयमपि भविता।
अद्य प्रचाल्यमाने उद्घाटनमत्सरे आतिथेयराष्ट्रं रष्या सौदी अरेभ्या राष्ट्रस्य प्रतिद्वन्दी भविष्यति। आहत्य ३२ राष्ट्राणि स्पर्धायां भागं गृह्णन्ति। मोस्को, सेन्ट् पीट्टेर्स् वर्ग्, सोच्च प्रभृतिषु ११ नगरेषु १२ क्रीडाङ्गणेषु स्पर्धा भविष्यति। जूलै १५ तमे दिनाङ्के अन्तिमपादस्पर्धा भविष्यति। ग्रूप् तः अन्तिमपादपर्यन्तं ६४ प्रतियोगितायां ३२ राष्ट्रेभ्यः ७३६ क्रीडकाः भागभाजः सन्ति।
काश्मीरे पाकिस्तानस्य भुषुण्डिप्रयोगः, चत्वारः सैनिकाः मारिताः।
दिल्ली- जम्मूकाश्मीरस्थे साम्बा स्थले पाकिस्तानेन कृते भुषुण्डिप्रयोगे सीमासुरक्षाबलस्य उपाधिपेन सह चत्वारः सैनिकाः मारिताः। त्रयः रुग्णाश्च सञ्जाताः।
गतरात्रै चाम्ब्लियाल् प्रान्ते रांगर् अन्ताराष्ट्रसीमायामेव पाकिस्तानेन भुषुण्डिविरुद्धसमयः लङ्घितः। रात्रौ १०.३० तः आरब्धःगोलिकाप्रहारः प्रातः ४.३० पर्यन्तं व्याप्तः इत्येवावेदनम्।
गते सप्ताहे प्रकोपनं विना जम्मूसीमायाम् अघ्नूर् प्रान्ते पाकिस्तानेन प्रहारः कृतः आसीत्। तत्र द्वौ सैनिकौ मृतावास्ताम्।
ट्रम्प् वर्यः किंवर्यश्च शान्तिसमये हस्ताक्षरमकुरुताम्।
सिङ्गप्पूर्- अमेरिक्का राष्ट्रपतिः डोणाल्ड् ट्रम्प् वर्यः उत्तरकोरिया भरणाधिरारिणा किं जोङ् उन् वर्येण सह शान्तिसमये हस्ताक्षरमकरोत्। उन् वर्येण सह साक्षात्कारः स्व प्रतीक्षायाः अधिकमभवत् इति ट्रम्प् वर्यः अवदत्। उत्तरकोरियया सह सुशक्तः संबन्धः भवेदिति स असूचयत्। सिङ्गप्पूर् काप्पल्लेलस्थले अभिमुखं ४५ निमेषपर्यन्तमभवत्।
राज्य परिवहणनिगमस्य कर्मकराः अभिनन्दनमर्हन्ति।
चवरा,कोल्लम्- यात्रिकाः बस्यानं प्रतिपाल्य तिष्ठन्तीति साधारणमेव। किन्तु बस्यानं यात्रिकां परिपाल्य अतिष्ठदिति नवीना वार्ता। प्रातः सार्धैकवादने विजने प्रदेशे अवतारितांय युवतीं प्रतिपाल्य तस्थैः यात्रिकैः साकं बस्यानं अतिष्ठत्। तस्याः सोदरः आगत्य यावत् तां नीतवान् तावत् बस्यानं यात्रिकाश्च तत्रैव प्रतिपल्य अतिष्ठन्। सा बालयुवतिरेव कार्यमिदं सामाजिकमाध्यमद्वारा लोकान् अवेदयत्। ततः प्रभृति बस् चालकं नियन्त्रकं च अभिनन्द्य बहवः आगताः।
नियन्त्रकः पि.बि. षैजू तथा चालकः के. गोपकुमारश्च यात्रिकैः समं सार्धसप्तनिमेषपर्यन्तं युवत्याः रक्षकौ जातौ। कोयम्पत्तूरुतः तिरुवनन्तपुरं प्रस्थितं राज्य परिवहण निगमस्य बस् यानमेव चवरा शङ्करमङ्ङलं बस् निस्थाने अवतारितां युवतीं प्रपाल्य तस्थौ। द्विचक्रिकायाम् आगतः तस्याः सोदरः महावृष्ट्या चिरायितः अभवत्।
दानं शीलेष्वनुत्तमम् – 16-06-2018
नूतना समस्या –
“दानं शीलेष्वनुत्तमम्”
ഒന്നാംസ്ഥാനം
मानवानां परं रूपं
शीलमित्येव विश्रुतम्।
परोपकारसम्पन्नं
दानं शीलेष्वनुत्तमम्।।
Dileep Unnikrishnan
“അഭിനന്ദനങ്ങള്”
PRASNOTHARAM – 16-06-2018
प्रश्नोत्तरम्।
- २०१८ फिफा वेल्ट कप्प् फुट्बोल्(Fifa World Cup Football) कुत्र प्रचलति ?(क) रष्या (ख) भारतम् (ग) जक्कार्ता
- २०१८ एष्यन् गेयिम्स् (Asian Games) कुत्र प्रचलति ? (क) रष्या (ख) भारतम् (ग) जक्कार्ता
- वृष्टिजलसम्भरणाय केरल सर्वकारस्य पद्धतिः——-। (क) मेघ (ख) वर्षा (ग) जल
- तेलङ्काना राज्यस्य प्रथमः मुख्यमन्त्रिः ——–। (क) चन्द्रबाबु नायिटु (ख) चन्द्रशेखर् रावू (ग) कृष्णरावू
- केरलस्य प्रथम डिजिटल् पञ्चायत्त् ——–। (क) पाम्पाकुटा (ख) कालटी (ग) नेटुम्पाश्शेरी
- भारतस्य प्रथमा शिशुसौहृदजिल्ला ——-। (क) कासरगोड् (ख) कोल्लम् (ग) एरणाकुलम्
- भारतस्य प्रथमं जैवकृषिराज्यम् ———-। (क) मिस्सोराम् (ख) मेघालया (ग) सिक्किम्
- अधोदत्तेषु मध्यमपुरुषैकवचनं रूपम् ——–। (क) पठति (ख) पठसि (ग) पठामि
- त्वं कार्यं ——-। (क) कुरु (ख) करोति (ग) कुरुत
- श्वः वृष्टिः ———। (क) भवति (ख) भविष्यति (ग) भवतः
ഈയാഴ്ചയിലെ വിജയി
REJANI A G
“അഭിനന്ദനങ്ങള്”
10 ശരിയുത്തരങ്ങള് അയച്ചവര്
- REJANI A G
- GAYATHRI A B
- Rajalakshmi A
9 ശരിയുത്തരങ്ങള്
- Remadevi A
- Rejani T M
“പങ്കെടുത്തവര്ക്കെല്ലാം അഭിനന്ദനങ്ങള്”